श्रवणम्

9.65.25
पव᳚ते हर्य॒तो हरि᳚र्गृणा॒नो ज॒मद᳚ग्निना ।
हि॒न्वा॒नो गोरधि᳚ त्व॒चि ॥
▶ पदपाठः (Word-by-word)
पव᳚ते । ह॒र्य॒तः । हरिः᳚ । गृ॒णा॒नः । ज॒मत्॑अ᳚ग्निना ।
हि॒न्वा॒नः । गोः । अधि᳚ । त्व॒चि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्यतः देवान् कामयमानोहरिर्हरितवर्णः किंच गोस्त्वच्यधि आनडुहे चर्मणि हिन्वा- नः प्रेर्यमाणः ससोमः जमदग्निना मंत्रद्रष्ट्र ऋषिणा गृणानः स्तूयमानःसन् पवते दशापवि- त्रेण पूतोभवति यद्वा पात्राण्यभिगच्छति ॥ २५ ॥