श्रवणम्

9.65.18
आ नः᳚ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च᳚से भर ।
सु॒ष्वा॒णो दे॒ववी᳚तये ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । सो॒म॒ । सहः᳚ । जुवः᳚ । रू॒पम् । न । वर्च᳚से । भ॒र॒ ।
सु॒स्वा॒नः । दे॒व॑वी᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देववीतये देवपानाय देवानां कामाय वा सुष्वाणः अभिषूयमाणः अभिषुतो वा भव । त्वं सहः शत्र्वभिभवनसमर्थं बलं जुवः जुरितिगत्यर्थः शत्रून्प्रति शीघ्रगमनंच यद्वा सर्वतोगमनशीलम् । किंच नेतिचार्थे । वर्चसे वर्चदीप्तौ दीप्त्यै सर्वत्र प्रकाशनाय रूपंच नोस्मभ्यं आभराहर प्रयच्छ ॥ १८ ॥