आ प᳚वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः᳚ ।
इ॒षे प᳚वस्व सं॒यत᳚म् ॥
इ॒षे प᳚वस्व सं॒यत᳚म् ॥
पदपाठः (Word-by-word)
आ । प॒व॒मा॒न॒ । सु॒॑स्तु॒तिम् । वृ॒ष्टिम् । दे॒वेभ्यः᳚ । दुवः᳚ ।
इ॒षे । प॒व॒स्व॒ । स॒म्॑यत᳚म् ॥
इ॒षे । प॒व॒स्व॒ । स॒म्॑यत᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान पूयमान पुनान वा सोम सुष्टुतिं शोभनस्तुतियुक्तां वृष्टिं देवेभ्यः देवानां दुवः सुपांसुलुगिति चतुर्थ्यालुक् दुवसे परिचरणाय आपवस्व आगमय त्वं यथा मदीयया स्तुत्या वृष्टिर्भविष्यति तथाकुर्वित्यर्थः । किंच अस्माकमिषे अन्नार्थंच संयतं सम्यगस्मान् संगच्छन्तीं वृष्टिं कुरु । यद्वा दुवः परिचर्यामभिलक्ष्य क्रियमाणां सुष्टुतिं शोभनस्तुतिरूपां वृष्टिं बहुस्तुति- मित्यर्थः एतां देवेभ्यः प्रापय ॥ ३ ॥