श्रवणम्

9.65.20
अ॒प्सा इन्द्रा᳚य वा॒यवे॒ वरु᳚णाय म॒रुद्भ्य᳚ः ।
सोमो᳚ अर्षति॒ विष्ण᳚वे ॥
▶ पदपाठः (Word-by-word)
अ॒प्साः । इन्द्रा᳚य । वा॒यवे᳚ । वरु᳚णाय । म॒रुत्॑भ्यः᳚ ।
सोमः᳚ । अ॒र्ष॒ति॒ । विष्ण᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्साः वसतीवरीनामधेयानामपां संभक्ता । वनषणसंभक्तौ जनसनेतिविट् विड्वनोरि त्यात्वम् । तादृशः सोमः अर्षति द्रोणकलशमागच्छति । किमर्थं इन्द्राय सर्वदेवानां प्रथमएव इन्द्रः सोमं पिबति तस्मात्पूर्वमेवाभिहितः तस्मै वायवे तत्सहायायच ऎन्द्रवायवे हि इन्द्र- स्यानन्तरं वायुः सोमं पिबति तस्मात्तदनु वायुरुक्तः तस्मैच वरुणाय मरुद्भ्योमितं शब्दं कुर्वद्भ्यः एतन्नामकेभ्योदेवेभ्यः विष्णवे सर्वजगद्भापिने विष्णवेच एतेषां पातुं सोमः स्रव- तीत्यर्थः ॥ २० ॥