यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वन्त्यद्रि᳚भिः ।
इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥
इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
यस्य᳚ । वर्ण᳚म् । म॒धु॒॑श्चुत᳚म् । हरि᳚म् । हि॒न्वन्ति᳚ । अद्रि᳚॑भिः ।
इन्दु᳚म् । इन्द्रा᳚य । पी॒तये᳚ ॥
इन्दु᳚म् । इन्द्रा᳚य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अध्वर्य्वादयः वर्णं शत्रूणां वारकं येन असौ पीयते तेन मत्तेन शत्रवः संप्रहार्यन्तइ- ति शत्रुनिवारणसमर्थं मधुश्चुतं मधुररसस्य च्यावयितारं हरिं हरितवर्णं इन्दुं इन्धेरेतद्रूपम- त्रेष्यते सर्वतोदीप्यमानम् । उन्दीक्लेदनइत्यस्माद्वा । अभिषवानंतरं पात्रेषु क्षरणशीलं यस्य सोमस्य तव कारणमंशुं अद्रिभिर्हिन्वन्ति प्रेरयन्ति अभिषुण्वन्तीत्यर्थः । इन्द्राय पीतये इन्द्रस्य पानाय तदर्थमित्यर्थः ॥ ८ ॥