अ॒या चि॒त्तो वि॒पानया॒ हरि᳚ः पवस्व॒ धार᳚या ।
युजं॒ वाजे᳚षु चोदय ॥
युजं॒ वाजे᳚षु चोदय ॥
पदपाठः (Word-by-word)
अ॒या । चि॒त्तः । वि॒पा । अ॒नया᳚ । हरिः᳚ । प॒व॒स्व॒ । धार᳚या ।
युज᳚म् । वाजे᳚षु । चो॒द॒य॒ ॥
युज᳚म् । वाजे᳚षु । चो॒द॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान अया अयपयगतौ कर्मार्थमितस्ततोगच्छन्तीभिरनया विपा विपप्रेरणे । हवींषि अग्नौ प्रेरयन्तीति विपोंगुलयः एकवचनं छान्दसं प्रत्येकविवक्षया वा । एताभिर्म- दीयाभिरंगुलिभिश्चित्तो ज्ञातः निर्गतोभिषुतोहरिर्हरितवर्णस्त्वं धारया सन्ततया पवस्व द्रोणकशं ग्रहांश्चागच्छ त्वम् । किंच युजं सखायमिन्द्रं वाजेषु संग्रामेषु चोदय प्रेरय । यदा अस्माभिरिन्द्रार्थं सोमोदीयते तदा तत्पानेन हृष्टःसन् शत्रून् हन्तीत्यर्थः ॥ १२ ॥