श्रवणम्

9.65.24
ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पव᳚न्ता॒मा सु॒वीर्य᳚म् ।
सु॒वा॒ना दे॒वास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । वृ॒ष्टिम् । दि॒वः । परि᳚ । पव᳚न्ताम् । आ । सु॒॑वीर्य᳚म् ।
सु॒वा॒नाः । दे॒वासः᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानास्तत्र चाभिषूयमाणा देवासः देवाः दीपनशीलाः स्तुत्यावा इन्दवः ग्रहेषु चम- सेषुच क्षरन्तः तेसोमाः नोस्माकं दिवस्परि । परिशब्दः पंचमीद्योतकः । अन्तरिक्षादादि- त्याद्वा वृष्टिम् । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिरिति वृष्टि- कारणत्वात् । किंच सुवीर्यं शोभनवीर्योपेतं पुत्रंच धनादिकंवा आपवन्तां प्रापयन्तु । यजमानः सोमेनाभिमतफलानि प्राप्नोति खलु ॥ २४ ॥