आ र॒यिमा सु᳚चे॒तुन॒मा सु᳚क्रतो त॒नूष्वा ।
पान्त॒मा पु᳚रु॒स्पृह᳚म् ॥
पान्त॒मा पु᳚रु॒स्पृह᳚म् ॥
पदपाठः (Word-by-word)
आ । र॒यिम् । आ । सु॒॑चे॒तुन᳚म् । आ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । त॒नूषु᳚ । आ ।
पान्त᳚म् । आ । पु॒रु॒॑स्पृह᳚म् ॥
पान्त᳚म् । आ । पु॒रु॒॑स्पृह᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सुक्रतो शोभनयज्ञ सोम त्वदीयं रयिं धनं वयमावृणीमहे । किंच सुचेतुनं चितीसं- ज्ञाने । भावे औणादिकउनन् प्रत्ययः । सुज्ञानंच तनूषु अस्मत्पुत्रेषुच धनं सुज्ञानंच त्वमा- विधेहि । युद्वा पुत्रार्थं वयमावृणीमहे । तथा पान्तं सर्वस्य रक्षकं पुरुस्पृहं बहुभिर्यष्टृभिः काम्यमानं त्वां संभजामहे ॥ ३० ॥
पवस्वेति त्रिंशदृचं षष्ठं सूक्तम् । अत्रानुक्रम्यते—पवस्व शतंवैखानसाः अष्टादश्यनुष्टुप् परास्तिस्रआग्नेय्यइति । शतसंख्याका वैखानसाख्याः संहताऋषयः त्वंसोमसूरइत्येषानुष्टुप् शिष्टागायत्र्यः अग्नआयूंष्याद्याः तिस्रः पवमानविशिष्टाग्निदेवताकाः अन्यासां पवमानः सोमोदेवता गतःसूक्तविनियोगः ।