आ क॒लशा᳚ अनूष॒तेन्दो॒ धारा᳚भि॒रोज᳚सा ।
एन्द्र᳚स्य पी॒तये᳚ विश ॥
एन्द्र᳚स्य पी॒तये᳚ विश ॥
पदपाठः (Word-by-word)
आ । क॒लशाः᳚ । अ॒नू॒ष॒त॒ । इन्दो॒ इति᳚ । धारा᳚भिः । ओज᳚सा ।
आ । इन्द्र᳚स्य । पी॒तये᳚ । वि॒श॒ ॥
आ । इन्द्र᳚स्य । पी॒तये᳚ । वि॒श॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो क्षरणशील सोम ओजसा बलेन युक्तस्य तव धाराभिर्निरन्तराभिः सहिताः कलशाः प्रयोगबाहुल्यपेक्षमेतद्बहुवचनम् । द्रोणकलशाः अनूषत स्तोतॄभिराभिमुख्येन स्तूयन्ते । सोमाभिषवकालेहि ऋत्विजः स्तुवन्तिखलु । ततस्त्वमिन्द्रस्य पीतये पानाय आविश ग्रहांश्चमसांश्च प्रविश ॥ १४ ॥