इषं᳚ तो॒काय᳚ नो॒ दध᳚द॒स्मभ्यं᳚ सोम वि॒श्वतः᳚ ।
आ प᳚वस्व सह॒स्रिण᳚म् ॥
आ प᳚वस्व सह॒स्रिण᳚म् ॥
पदपाठः (Word-by-word)
इष᳚म् । तो॒काय᳚ । नः॒ । दध᳚त् । अ॒स्मभ्य᳚म् । सो॒म॒ । वि॒श्वतः᳚ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिण᳚म् ॥
आ । प॒व॒स्व॒ । स॒ह॒स्रिण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं नोस्माकं तोकाय पुत्राय इषमन्नं दधद्विदधत् प्रयच्छन् सहस्रिणं सहस्र- संख्याकं धनं विश्वतः सर्वतोदिक्षु अस्मभ्यं वा पवस्व आप्रयच्छ अस्मभ्यं पुत्रायच अन्न- धनादिकं प्रयच्छेत्यर्थः ॥ २१ ॥