आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि᳚म॒द्या वृ᳚णीमहे ।
पान्त॒मा पु᳚रु॒स्पृह᳚म् ॥
पान्त॒मा पु᳚रु॒स्पृह᳚म् ॥
पदपाठः (Word-by-word)
आ । ते॒ । दक्ष᳚म् । म॒यः॒॑भुव᳚म् । वह्नि᳚म् । अ॒द्य । वृ॒णी॒म॒हे॒ ।
पान्त᳚म् । आ । पु॒रु॒॑स्पृह᳚म् ॥
पान्त᳚म् । आ । पु॒रु॒॑स्पृह᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम यष्टारोवयं ते तव स्वभूतं दक्षं बलमद्यास्मिन्यागदिने आभिमुख्येन आवृणी महे संभजामहे । कीदृशं मयोभुवं सुखस्य भावुकं वह्निं वनादीनां प्रापकं पान्तं शत्रु- भ्योरक्षकं पुरुस्पृहं बहुभिः स्पृहणीयं काम्यमानं बलमिति ॥ २८ ॥