श्रवणम्

9.65.6
यद॒द्भिः प᳚रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ᳚स्त्योः ।
द्रुणा᳚ स॒धस्थ᳚मश्नुषे ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒त्॑भिः । प॒रि॒॑सि॒च्यसे᳚ । मृ॒ज्यमा᳚नः । गभ᳚स्त्योः ।
द्रुणा᳚ । स॒ध॑स्थ᳚म् । अ॒श्नु॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम गभस्त्योर्बाहुनामैतत् गभसन्ति दीपयन्ति निर्मश्नंत्याभ्यां अग्निमिति गभस्ती बाहू तयोर्मृज्यमानस्ताभ्यां शोध्यमानः सन् अद्भिः सोमसेचनार्थं चतुर्विधाआपस्ताभिर्व- सतीव्रीभीरेदधनाभिश्च यद्यदा परिषिच्यसे परितः सिच्यमानोभवसि । तदानीं द्रुणा द्रुमम- येन परिप्लवेन पात्रेण गृह्यमाणः सन् सधस्थं सहतिष्ठंत्यत्रेति सधस्थं स्थानं ग्रहचमसादिकं अश्नुषे प्राश्नोषि ॥ ‍६ ॥