प्र सोमा᳚य व्यश्व॒वत्पव᳚मानाय गायत ।
म॒हे स॒हस्र᳚चक्षसे ॥
म॒हे स॒हस्र᳚चक्षसे ॥
पदपाठः (Word-by-word)
प्र । सोमा᳚य । व्य॒श्व॒॑वत् । पव᳚मानाय । गा॒य॒त॒ ।
म॒हे । स॒हस्र᳚॑चक्षसे ॥
म॒हे । स॒हस्र᳚॑चक्षसे ॥
सायणभाष्यम् (Sayana Commentary)
हे स्तोतारः पवमानाय दशापवित्रेण पूयमानाय पुनानाय वा सोमाय प्रगायत प्रक- र्षेण सामगानं कुरुत अभिष्टुन वा । कथमिव व्यश्ववत् यथापूर्वं व्यश्वोनामऋषिः सोममगा- सीत् तद्वत् यूयमपि । कीदृशाय महे महते देवेभ्यः स्वीयंक्रियमाणत्वेन गुणादिभिर्वा महत्त्व- युक्ताय सहस्रचक्षसे प्रयोगबाहुल्यापेक्षमेतद्वचनं सहस्रसंख्याकस्तोत्रयुक्ताय यद्वा नानाविधै- र्देवरैनेकधाद्रष्टव्याय सोमायेति ॥ ७ ॥