श्रवणम्

9.65.27
तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये ।
स प᳚वस्वा॒नया᳚ रु॒चा ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । सु॒तेषु᳚ । आ॒॑भुवः᳚ । हि॒न्वि॒रे । दे॒व॑ता᳚तये ।
सः । प॒व॒स्व॒ । अ॒नया᳚ । रु॒चा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ प्रत्यक्षस्तुतिः हे सोम आभुवः कर्मकरणार्थं समन्ताद्भवन्तीति आभुव ऋत्विजः ते सुतेषु सुतः अभिषुतः सोमः तद्वत्सु यज्ञेषु देवतातये । सर्वदेवात्तातिलितिस्वार्थिकस्ता- तिल् । इन्द्रादिदेवेभ्यः तं तादृशं प्रसिद्धं त्वा त्वां हिन्विरे ग्रावभिः प्रेरयन्ति अभिषुण्व- न्तीत्यर्थः । ततः सः अभिषुतः सत्वं अनया रुचा दीप्यमानधारया द्रोणकलशं प्रति पव- स्व आगच्छ । पवतिर्गतिकर्मा । यद्वा अनया मदीयया रुचा स्तुत्या सह कलशमागच्छ् । कलशाभिगमनकाले हि सोमं स्तुवन्ति ॥ २७ ॥