यस्य᳚ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हन्त्यद्रि᳚भिः ।
स प᳚वस्वाभिमाति॒हा ॥
स प᳚वस्वाभिमाति॒हा ॥
पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । मद्य᳚म् । रस᳚म् । ती॒व्रम् । दु॒हन्ति᳚ । अद्रि᳚॑भिः ।
सः । प॒व॒स्व॒ । अ॒भि॒मा॒ति॒॑हा ॥
सः । प॒व॒स्व॒ । अ॒भि॒मा॒ति॒॑हा ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम यस्य ते तव मद्यं मदकरं तीव्रं क्षिप्रं मदकारिणं रसं अद्रिभिर्ग्रावभिरध्वर्वा- दयोदुहन्ति आभिषुण्वन्ति । सतादृशस्त्वं अभिमातिहा अभितोमातिरभिमानं येषां ते शत्रवः पापरूपाणां हन्ता सन् पवस्व स्र्वतोगच्छ । येंभिषुण्वन्ति ते पापरहिताः सुकृतिनो- भवन्तीत्यर्थः ॥ १५ ॥