आ म॒न्द्रमा वरे᳚ण्य॒मा विप्र॒मा म᳚नी॒षिण᳚म् ।
पान्त॒मा पु᳚रु॒स्पृह᳚म् ॥
पान्त॒मा पु᳚रु॒स्पृह᳚म् ॥
पदपाठः (Word-by-word)
आ । म॒न्द्रम् । आ । वरे᳚ण्यम् । आ । विप्र᳚म् । आ । म॒नी॒षिण᳚म् ।
पान्त᳚म् । आ । पु॒रु॒॑स्पृह᳚म् ॥
पान्त᳚म् । आ । पु॒रु॒॑स्पृह᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम मन्द्रं मदकरं स्तुत्यंवा त्वामावृणीमहे वरेण्यं सर्वैर्वेरणीयं संभजनीयंच । किंच विप्रं मेधाविनं त्वां तथा मनीषिणं मनसईषा मनीषा तद्वन्तं स्तुतिमन्तंवा त्वामा- वृणीयहे । प्रत्येकं विशेषणापेक्षया आइत्युपसर्गः कृतः । किंच पान्तं सर्वेषां रक्षकं पुरुस्पृहं बहुभिः स्पृहणीयं च त्वां संभजामहे ॥ २९ ॥