तं त्वा᳚ ध॒र्तार᳚मो॒ण्यो॒३॒᳚ः पव᳚मान स्व॒र्दृश᳚म् ।
हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ॥
हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ॥
पदपाठः (Word-by-word)
तम् । त्वा॒ । ध॒र्तार᳚म् । ओ॒ण्योः᳚ । पव᳚मान । स्वः॒॑दृश᳚म् ।
हि॒न्वे । वाजे᳚षु । वा॒जिन᳚म् ॥
हि॒न्वे । वाजे᳚षु । वा॒जिन᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान पूयमान पुनान वा हे सोम ओण्योः । द्यावापृथिवीनामैतत् । तयोर्धर्तारं धा- रकं अतएव स्वर्दृशं स्वर्गस्य सूर्यस्य वा द्रष्टारं सर्वैर्देवैर्द्रष्टव्यं वाजिनं बलवन्तं पूर्वोक्तगुण- सिद्धं त्वा त्वां वाजेषु संग्रामेषु हिन्वे प्रेरयामि । यद्वा वाजेषु अन्नेषु विषयेषु हिनोमि अन्नादिकं प्रयच्छेत्यर्थः ॥ ११ ॥