वृषा॒ ह्यसि᳚ भा॒नुना᳚ द्यु॒मन्तं᳚ त्वा हवामहे ।
पव᳚मान स्वा॒ध्य᳚ः ॥
पव᳚मान स्वा॒ध्य᳚ः ॥
पदपाठः (Word-by-word)
वृषा᳚ । हि । असि᳚ । भा॒नुना᳚ । द्यु॒॑मन्त᳚म् । त्वा॒ । ह॒वा॒म॒हे॒ ।
पव᳚मान । सु॒॑आ॒ध्यः᳚ ॥
पव᳚मान । सु॒॑आ॒ध्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पवमान पूयमान वृषा अभिमतफलानां वर्षितासि हि भवसि खलु । तस्मात् हे पवमान पुनान वा सोम स्वाध्यः शोभनकर्माणः सुष्ठुध्यानवन्तोवा वयं भानुना रश्मिना द्युमन्तं दीप्ति- मन्तं अतिशयेन तेजस्विनं इत्यर्थः स्तुतिमन्तंवा त्वा त्वां हवामहे यज्ञेषु आह्वयामहे ॥ ४ ॥