प्रथमं मण्डलम् - सूक्तम् 10

12 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 1.10 - सम्पूर्णम्

1 / 12
ऋक्: 1.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.10.1 समानपद
गाय᳚न्ति त्वा गाय॒त्रिणो॑र्च᳚न्त्य॒र्कम॒र्किणः᳚ ।
ब्र॒ह्माण᳚स्त्वा शतक्रत॒ उद्वं॒शमि᳚व येमिरे ॥
▶ पदपाठः (Word-by-word)
गाय᳚न्ति । त्वा॒ । गा॒य॒त्रिणः᳚ । अर्च᳚न्ति । अ॒र्कम् । अ॒र्किणः᳚ ।
ब्र॒ह्माणः᳚ । त्वा॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । उत् । वं॒शम्॑इ᳚व । ये॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मन्बहुप्रज्ञ वेंद्र त्वां गायत्रिण उद्गातारो गायंति । स्तुवंति । आर्किणोऽर्चनहेतुमंत्रयुक्ता होतारोऽर्कमर्चनीयमिंद्रमर्चंति । शस्त्रगतैर्मंत्रैः प्रशंसंति । ब्रह्माणो ब्रह्मप्रभृतय इतरे ब्राह्मणास्त्वामुद्येमिरे । उन्नतिं प्रापयंति । तत्र दृष्टांतः । वंशमिव । यथा वंशाग्रे नृत्यंतः शिल्पिनः प्रौढं वंशमुत्पन्नं कुर्वंति । यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वंति । तद्वत् । एतामृचं यास्क एवं व्याचष्ट । गायंति त्वा गायत्रिणः प्रार्चंति तेऽर्कमर्किणो ब्रहाणस्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच्छ्रूयत इति वा (नि ५-५) अर्कशब्दं च बहुधा व्याचष्टे । अर्को देवो भवति यदेनमर्चंत्यर्को मंत्रो भवति यदेनेनार्चंत्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना (नि ५-४) इति ॥ गायंत्रि । शप्तिङौ । पित्त्वाल्लसार्वधातुकत्त्वाच्छानुदात्तौ । धातुरादात्तः । गायत्रिणः । गायत्रं साम येषामुद्गातृणामस्ति ते । अत इनठनौ । प्रत्ययस्वरेणेकार उदात्तः । अर्चंति । अर्च पूजायाम् । भौवादिकः । शप्तिङावनुदात्तौ । धातुस्वर एव पादादित्त्वान्ननिघातः । अर्कम् । अर्चंत्येभिरित्यर्का मंत्राः । तैरर्चनीयतया तदात्मक इंद्रोऽपि लक्षणयार्कः । पुंसि संज्ञायां घः प्रायेण (पा ३-३-११८) इति करणे घः । चजोः कु घिण्यतोः । पा । ७-३-५२ । इति चकारस्य कुत्वम् । ककारः । प्रत्ययस्वरेणांतोदात्तः । अर्का मंत्रा एषां संतीत्यर्किणो होतारः । एकाक्ष । रात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ । पा ५-२-११५-२ । इति कृदंतादिनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययादिनिः । प्रत्ययस्परेणेकार उदात्तः । ब्रह्माणः प्रातिपदिकस्वरेणांतोदात्तः । शतक्रतो । निघातः । संहितायामवादेशे लोपः शाकल्यस्य (पा ८-३-१९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणांतोदात्तः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । पा २-१-४-२ । इति स एव शिष्यते । येमिरे । यम उपरमे । तिङ्ङतिङ इति निघातः ॥ १ ॥

1.10.2
यत्सानो॒ः सानु॒मारु᳚ह॒द्भूर्यस्प᳚ष्ट॒ कर्त्व᳚म् ।
तदिन्द्रो॒ अर्थं᳚ चेतति यू॒थेन᳚ वृ॒ष्णिरे᳚जति ॥
▶ पदपाठः (Word-by-word)
यत् । सानोः᳚ । सानु᳚म् । आ । अरु᳚हत् । भूरि᳚ । अस्प᳚ष्ट । कर्त्व᳚म् ।
तत् । इन्द्रः᳚ । अर्थ᳚म् । चे॒त॒ति॒ । यू॒थेन᳚ । वृ॒ष्णिः । ए॒ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा सानो सानुमारुहत् यजमानः सोमवल्लीसमिदाद्याहरणायै कस्मात्पर्वतभागादपरं पर्वतभागमारूढवान् । तथा भूरिप्रभूतं कर्त्वं कर्म सोमयागरूपमस्पष्ट स्पृष्टवान् । उपक्रांतवानित्यर्थः । तत्तदानीमिंद्रोऽर्थं यजमानस्य प्रयोजनं चेतति । जानाति । ज्ञात्वा च वृष्टिः कामानां वर्षिता सन् यूथेन मरुद्गणेन सहैजति । कंपते । स्वस्थानाद्यज्ञभूमिमागंतुमुद्युङ्त इत्यर्थः ॥ सानोः । षणु दाने । सनोति ददाति निवसतामवकाशमिति सानुः । दृसनिजनिचरिचटरहिभ्योञुण् (उ १-३) णित्त्वादुपधाया वृद्धिः । ञी त्त्वादाद्युदात्तत्वं च । अरुहत् । रुहेर्लङि तिपि शपि संज्ञा पूर्वको विधिरनित्यः । परि ९३-१ । इति लघूपधगुणो न भवति । लुङ् लङ् लृङ् क्ष्वडुदात्तः । सति शिष्टत्वात्स एव शिष्यते । निपातैर्यद्यदिहंतेति (पा ८-१-३०) निषेधान्निघातो न भवति । भूरि । अदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । अस्पष्ट । स्पश बाधनस्पर्शनयोः । स्वरितञुत इत्यात्मनेपदम् । लङः प्रथमपुरुषैकवचनं त बहुलं छंदसीति शपो लुक् । व्रश्चादिषत्वष्टुत्वे । पा ८-२-३६ ; ८-४-४१ । लुङ् लङ् लृङ् क्ष्वडुदात्त इत्यडागम उदात्तः । स एव शिष्यते । अनुषंगेण यच्छब्दयोगान्निघाताभावः कर्त्वम् । डुकृञ् करणे । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति विच् । गुणो रपरत्वम् । विचः सर्वापहारी लोपः । करो भावः कर्त्वं अर्थम् । अर्तेरुषिकुषिगार्तिभ्यस्थन् (उ २-४) नित्त्वादाद्युदात्तः । यूथेन । तिथपृष्ठगूथयूथप्रोथाः (उ २-१२) इति थक्प्रत्ययांतो निपातितः । वृष्टिः । निरित्यनुवृत्तौ सृवृषिभ्यां किक् (उ ४-४९) इति निप्रत्ययांतः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरेणांतोदात्तः । एजति एजृ कंपने । तिङ्ङतिङ इति निघातः ॥ २ ॥

1.10.3
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष᳚णा कक्ष्य॒प्रा ।
अथा᳚ न इन्द्र सोमपा गि॒रामुप᳚श्रुतिं चर ॥
▶ पदपाठः (Word-by-word)
यु॒क्ष्व । हि । के॒शिना᳚ । हरी॒ इति᳚ । वृष᳚णा । क॒क्ष्य॒॑प्रा ।
अथ᳚ । नः॒ । इ॒न्द्र॒ । सो॒म॒॑पाः॒ । गि॒राम् । उप᳚॑श्रुतिम् । च॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपाः सोमपानयुक्तेंद्र हरी त्वदियावश्वौ युक्ष्वा हि सर्वथा संयोजय । अथानंतरं नोऽस्मदीयानां गिरां स्तुतीनामुपश्रुतिं समीपे श्रवणमुद्दिश्य चर । तत्प्रदेशं गच्छ । कीदृशौ हरी । केशिना स्कंधप्रदेशे लंबमान केशयुक्तौ वृषणा सेचनसमर्थौ युवानौ कक्ष्यप्रा । अश्वस्योदरबंधनरज्जुः कक्ष्या तस्याः पूरकौ । पुष्टांगावित्यर्थः । युक्ष्व । श्नमो लोपश्छांदसः । सति शिष्टत्वेन प्रत्ययस्वरः शिष्यते । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । केशिना । प्रशस्ताः केशा अनयोः संतीति मत्वर्थीय इनिः । प्रत्ययस्वरः । सुपां सुलुगित्यादिना द्विवचनस्याकारादेशः । वृषणा । पृषु वृषु मृषु सेचने । कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः । उ । १-१५६ । इति कनिन् । ञ्नित्यादिर्नित्यमित्याद्युदात्तः । वा षपूर्वस्य निगमे (पा ६-४-९) इत्युपधायाः पक्षे दीर्घाभावः । पूर्ववदाकारः । कक्ष्यप्रा । कक्ष्ययोर्भवं कक्ष्यं सूत्रं तत्प्रातः पूरयतः पुष्टत्वादिति कक्ष्यप्रौ । प्रा पूरणे । आतोऽनुपसर्गे कः (पा ३-२-३) इति कप्रत्ययः । कृदुत्तरपदप्रकृति स्वरेणांतोदात्तत्वम् । आकारः । पूर्ववत् । अथ । निपातस्येति संहितायां दीर्घः । नः अनुदात्तं सर्वमपादादावित्यनुवृत्तौ बहुवचनस्य वस्नसौ (पा ८-१-२१) इति नदादेशोऽनुदात्तः । इंद्र सोमपा । उभावामंत्रितस्य चेति सर्वानुदात्तौ । गिराम् । सावेकाचस्तृतीयादिर्विभक्तिरिति विभक्तिरुदात्त । उपशब्दो निपातत्वादाद्युदात्तः । श्रुतिशब्देन प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तादौ च निति कृत्यतौ (पा ६-२-५०) इति तुवर्जिततादिपरत्वाद्गतेः प्रकृतिस्वरः । चर । निघातः ॥ ३ ॥

1.10.4 समानपद
एहि॒ स्तोमा{4}᳚ अ॒भि स्व᳚रा॒भि गृ᳚णी॒ह्या रु᳚व ।
ब्रह्म᳚ च नो वसो॒ सचेन्द्र᳚ य॒ज्ञं च᳚ वर्धय ॥
▶ पदपाठः (Word-by-word)
आ । इ॒हि॒ । स्तोमा᳚न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ ।
ब्रह्म᳚ । च॒ । नः॒ । व॒सो॒ इति᳚ । सचा᳚ । इन्द्र᳚ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विशेषविनियोगस्तु यत्र श्रौतो न सूत्रितः । स्मार्तं तत्र विजानीयादृग्विधानादिसूत्रतः ॥ एहि स्तोमानित्यृगेषा सूत्रे विशेषाकारेण न विनियुक्ता । साधारणविनियोगस्तु ब्रह्मयज्ञादौ सर्वत्रानुसंधेयः ॥

हे वसो निवासकारणभूतेंद्र एहि । अस्मिन्कर्मण्यागच्छ । आगत्य च स्तोमानुद्गातृप्रयुक्तानि स्तोत्राण्यभि स्वर । अभिलक्ष्य प्रशंसारूपं शब्दं कुरु । तथा होतृप्रयुक्तानि शस्त्राण्यालक्ष्य रुव । शब्दं कुरु । परितोषेण सर्वानृत्विजः प्रशंसेत्यर्थः । तत ऊर्ध्वं नोऽस्माकं ब्रह्म चान्नं च यज्ञं चानुष्ठीयमानं कर्म च सचा सह वर्धय । सांगत्वसंपादनेन यज्ञं वर्धयित्वा तत्फलमन्नं च प्रवृद्धं कुरु । अंध इत्यादिष्वष्वाविंशत्यन्ननामसु ब्रह्म वर्च इति पठितं ॥ इहि । इण् गतौ । सेर्हिः । हेरपित्त्वेन ङित्त्वाद्गुणाभावः । निघातः । आङा सह गुण एकादेश उदात्तेनोदात्त इत्युदात्तः । स्तोमान् । अर्तिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तः । उत्तरपदेन संहितायां नकारस्य दीर्घादट समानपाद इति रुत्वम् । आतोऽट नित्यमित्याकारस्यानुनासिकः । भोभगोअघो अपूर्वस्य योऽशीति यत्वम् । तस्य लोपः शाकल्यस्येति लोपः । तस्यासिद्धत्वात्स्वरसंधिर्न भवति । अभि । एवमादीनामंतॆ इत्यंतोदात्तः । स्वर । स्वृ शब्दोपतापयोः । निघातः । अभि । गतम् । गृणीहि । गृ शब्धे । सेर्ह्यपिच्छेति हिः । क्र्यादिभ्यः श्ना । ई हल्यघोः (पा ६-४-११३) इतीत्वम् । प्वादीनां ह्रस्वः (पा ७-३-८०) इत्यृकारस्य ऋकारः । ऋवर्णाच्चेति वक्तव्यम् । का ८-४-१-१ । इति णत्वम् । तिङ्ङतिङ इति निघाशः । रुव । रु शब्दे । सेर्ह्यपिच्च । शपि प्राप्ते व्यत्ययेन शः । तस्य ङत्वेन गुणाभावादुवङादेशः । अतो हेरिति हेर्लुक् । तिङ्ङतिङ इति निघातः । ब्रह्म । तृहि वृहि वृद्धौ । मनिन्नित्यनुवृत्तौ वृंहेरम् न लोपश्च (उ ४-१४५) इति मनिस् । तत्संनियोगेन नलोपः । आमागमश्च । मिदचोंऽत्यात्परः (पा १-१-४७) इत्यैकारात्परः । यणादेशः । मनिनो नित्त्वादाद्युदात्तत्वम् । वसो । आमंत्रितनिघातः । यज्ञम् । यजयाचेत्यादिना (पा ३-३-९०) नङ् । प्रत्ययस्वरः । वर्धय । निघातः । अत्र चकारद्ययश्रवणादियमेव तिङ् विभक्तिः पूर्ववाक्येष्वनुषज्यते । अतोऽनुषक्तैव प्रथमा न श्रुतेत्यश्रुतायाश्च वायोगे प्रथमा (पा ८-१-५९) इति निघातनिषेधो न भवति ॥ ४ ॥

1.10.5
उ॒क्थमिन्द्रा᳚य॒ शंस्यं॒ वर्ध᳚नं पुरुनि॒ष्षिधे᳚ ।
श॒क्रो यथा᳚ सु॒तेषु᳚ णो रा॒रण᳚त्स॒ख्येषु᳚ च ॥
▶ पदपाठः (Word-by-word)
उ॒क्थम् । इन्द्रा᳚य । शंस्य᳚म् । वर्ध᳚नम् । पु॒रु॒निः॒॑सिधे᳚ ।
श॒क्रः । यथा᳚ । सु॒तेषु᳚ । नः॒ । र॒रण᳚त् । स॒ख्येषु᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिप्लवषडहगतोक्थ्येष्वच्छावाकस्य तृतीयसवन उक्थमिंद्राय शंस्यमित्यनुरूपस्तैचः । एह्यू ष्विति खंड इंद्रं विश्वा अवीवृधन्नुक्थमिंद्राय शंस्यम् (आ ७-८) इति सूत्रितं ॥

इंद्रायेंद्रार्थं वर्धनं वृद्धिसाधनमुक्थं शस्त्रं शंस्यम् । अस्माभिः शंसनीयम् । कीदृशायेंद्राय । पुरुनिष्षिधे बहूनां शत्रूणां निषेधकारिणे । शक्र इंद्रो नोऽस्मदीयेषु सुतेषु पुत्रेषु सख्येषु च सखित्वेष्वपि यथा येन प्रकारेण रारणत् अतिशयेन शब्धं कुर्यात्तथा शंस्यमिति पूर्वत्रान्वयः । अस्म दीयेन शस्त्रेण परितुष्ट इंद्रोऽस्माकं पुत्रानस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः ॥ उक्थम् । वचेस्थक्प्रत्यय उक्तः (उ २-७) प्रत्यय स्वरः । शंस्यम् । शन्सु स्तुतौ । ण्यंतादचो यत् । णेरनिटीति णिलोपः । तित्स्वरिते प्राप्ते यतोऽनाव इत्याद्युदात्तत्वम् । वर्धनम् । करणाधिकरणयोश्च (पा ३-३-११७) इति करणे ल्युट् । लितीति प्रत्ययपूर्वस्योदात्वत्वम् । पुरुनिष्षिधे । बहूनां शत्रूनां निषेधकाय । षिध गत्याम् । धात्वादेः षः सः । अत्र निरित्युपसर्गस्य निशब्दसमानार्थस्य प्राक्प्रयोगः । क्विप्चेति क्विप् । क्विपः सर्वापहारी लोपः । कुगतिप्रादयः (पा २-२-१८) इति समासः । निसः सकारेणेणो व्यवधानं छांदसत्वादनादैत्योपसर्गात्सुनोतीत्यादिना (पा ८-३-६५) धातुसकारस्य षत्वम् । निसः सकारस्य ष्टुना ष्टुः (पा ८-४-४१) इति षत्वम् । पुरुशब्देन कर्मणि षष्ट्यंतेन समासः । षिधो धातुस्वरेणोदात्तत्वम् । निष्षिध इति प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्पुनः कारकसमासेऽपि स एव स्वरः । शक्नोतीति शक्रः । स्फायितंचिवंचिशकीत्यादिना (उ २-१३) रक् । प्रत्ययस्वरः । यथा । प्रकारवचने थाल् (पा ५-३-२३) लित्स्वरेण प्रत्ययात्पूर्वोऽकार उदात्तः । सुतेषु । क्तः प्रत्ययस्वरेणोदात्तः । नसो नकारस्य नश्चधातुस्थोरुषुभ्यः (पा ८-४-२७) इति संहितायां णत्वम् । रारणात् । रण शब्दार्थः । धातोरेकाचः (पा ३-१-२२) इति यङ् । यङोऽचि च (पा २-४-७४) इति लुक् । प्रत्ययलक्षणेन (पा ६-१-९) द्विर्भावो हलादिशेषः । दीर्घोऽकितः (पा ७-४-८३) इति दीर्घः । प्रत्ययलक्षणेन सनाद्यंता धातवः (पा ३-१-३२) इति धातुसंज्ञायां लिङर्थे लेट् (पा ३-४-७) इति हेतुहेतुमद्भावलक्षणे (पा ३-३-१५६) लिङर्धे लेट् । अत्र हींद्रकर्तृकं रारणनमुक्थशंसनस्य कर्तव्यत्वे हेतुः । लेटस्तिप् । इतश्च लोपः परस्मैपदेष्वितीकारलोपः । लेटोऽडाटावित्यडागमः । कर्तरि शप् । तस्य चर्करीतं परस्मैपदमदादिवच्च द्रष्टव्यमित्यदादिवद्भावाददिप्रभृतिभ्यः शप इति प्राप्तो लुग्बहुलं छंदसीति निषिध्यते । शपोऽनुदात्तत्वाद्धातोरंतोदात्त एव शिष्यते । शपा लसार्वधातुकस्य व्यवधानात्तत्र परतो विधीयमानमभ्यस्तानामादिरित्याद्युदात्तत्वं न भवति । न च तिङ्ङतिङ इति निघातः । अत्र यथाशब्दयोगेन यावद्यथाभ्याम् (पा ८-१-३६) इति निषेधात् । चवायोगे प्रथमेति वात्र निघातो न भविष्यति । अत्र ह्युत्तरवाक्ये सख्येषु चेति चानुकृष्ट विभक्त्य पेक्षयेयं प्रथमा तिङ् विभक्तिः । सख्येषु । सख्युः कर्माणि सख्यानि । तेषु । कर्मणि चेत्यनुवृत्तौ सख्युर्यः (पा ५-१-१२६) इति सखिशब्दाद्यप्रत्ययः । तत्र भसंज्ञायां यस्येति च (पा ६-४-१४८) इतीकारलोपः । प्रत्ययस्वरः ॥ ५ ॥

1.10.6 समानपद
तमित्स᳚खि॒त्व ई᳚महे॒ तं रा॒ये तं सु॒वीर्ये᳚ ।
स श॒क्र उ॒त नः᳚ शक॒दिन्द्रो॒ वसु॒ दय᳚मानः ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । स॒खि॒॑त्वे । ई॒म॒हे॒ । तम् । रा॒ये । तम् । सु॒॑वीर्ये᳚ ।
सः । श॒क्रः । उ॒त । नः॒ । श॒क॒त् । इन्द्रः᳚ । वसु᳚ । दय᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखित्वे निमित्तभूते सति तमित्तमेवेंद्रमीमहे । प्राप्नुमः । तथा राये धनार्थं तमीमहे । तथा सुवीर्ये शोभनसामर्थ्यनिमित्तं तमीमहे । उतापि च शक्रः शक्तिमान्स इंद्रो नोऽस्मभ्यं वसु धनं दयमानः प्रयच्छन् शकत् । अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदशयाच्ञा कर्मस्वीमहे यामीति पठितम् । तदनुसारेणेंद्रं याचामह इति व्याख्येयं ॥ सख्युर्भावः सखित्वम् । तस्य भावस्त्वतलौ (पा ५-१-११९) इति त्वः । प्रत्ययस्वरेणोदात्तः । ईमहे । ईङ् गतौ । ङित्त्वादात्मनेपदम् (पा १-३-१२) दिवादिभ्यः श्यन् । बहुलं छंदसीति श्यनो लुक् । तिङ्ङतिङ इति निघातः । राये । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुवीर्ये । शोभनं वीर्यं यस्यासौ सुवीर्यः भवितृवाचिनानेन भावो लक्ष्यते । सुवीर्यत्व इत्यर्थः बहुव्रीहावित्यनुवृत्तौ वीरवीर्यौ च । ६-२-१२० । इत्युत्तरपदाद्युदात्तत्वम् । शक्नोतीति शक्रः । स्फायितंचिवंचिशकीत्यादिना रक् । प्रत्ययस्वरः । शकत् । शक्लृशक्तौ । धातुसंबंधाधिकारे छंदसि लुङ् लङ् लिटः (पा ३-४-६) इति लुङ् । यतः शक्नोत्यतस्तमीमह इति धातुसंबंधः । लुङस्तिप् । पुषादिद्युताद्य्लृदितः परस्मैपदेषु (पा ३-१-५५) इति च्लेरङादेशः । बहुलं छंदसि (पा ६-४-७५) इत्यडाग माभावः । तिङ्ङतिङ इति निघातः । वसु । निदित्यनुवृत्तौ वसेरुप्रत्ययः (उ १-११) नित्त्वादाद्युदात्तत्वम् । दयमानः । दय दानगतिरक्षणहिंसादानेषु । अनुदात्तेत्वादात्मनेपदम् । लटः शानजादेशः (पा ३-२-१२४) शपः पित्त्वादनुदात्तश्वम् । शानचश्चित इत्यंतोदात्तत्वं बाधित्वादुपदेशाच्छप उत्तरत्वेन परत्वाल्लसार्वधातुकत्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते ॥ १९ ॥ ६ ॥

1.10.7
सु॒वि॒वृतं᳚ सुनि॒रज॒मिन्द्र॒ त्वादा᳚त॒मिद्यशः᳚ ।
गवा॒मप᳚ व्र॒जं वृ᳚धि कृणु॒ष्व राधो᳚ अद्रिवः ॥
▶ पदपाठः (Word-by-word)
सु॒॑वि॒वृत᳚म् । सु॒निः॒॑अज᳚म् । इन्द्र᳚ । त्वा॑दा᳚तम् । इत् । यशः᳚ ।
गवा᳚म् । अप᳚ । व्र॒जम् । वृ॒धि॒ । कृ॒णु॒ष्व । राधः᳚ । अ॒द्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यशोऽन्नं कर्मफलभूतं सुविवृतं सुष्टु सर्वत्र प्रसृतं सुनिरजं सुखेन निःशेषं प्राप्तुं शक्यं त्वादातमित्त्वया शोधितं च संपन्नमिति शेषः इतः परं क्षीरादिरसलाभार्थं गवां व्रजं निवासस्थानमप वृधि । अपवृतमुद्घाटित व्वारं कुरु । हे अद्रिवः पर्वतोपलक्षितवज्रयुक्तेंद्र राधो धनं कृणुष्व । संपादय ॥ सुविवृतम् । वृञ् वरणे । कर्मणि क्तप्रत्ययः । विशब्देन प्रादिसमासः । विवृतमित्यत्र कृदुत्तरपदप्रकृतिस्वरं बाधित्वा कर्मवाचिनि क्तांते परतो गतिरनंतरः (पा ६-२-४९) इति पूर्वपदप्रकृतिस्वरे प्राप्ते परादिश्छंदसि बहुलम् । ६-२-१९९ । इत्यृकार उदात्तः । पुनः सुशब्देन समासे कृदुत्तरपदप्रकृतिस्वरेण स एवर्कार उदात्तः । ननु वृतमित्येव कृदंतं न तु विवृतमिति प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदंतस्य ग्रहणम् । परि २३ । इति वचनात् । सुविवृतमित्यत्र च समासे वृतमित्येतावन्मात्रं नोत्तरपदं किंतु विवृतमिति । तत्कथं कृदुत्तरपदप्रकृतिस्वरत्वमिति चेत् उच्यते । प्रत्ययग्रहणपरिभाषापवादेन कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । परि २८ । इत्यनेन विवृतमित्यस्यापि कृदंतव्यपदेरोपपत्तेः । ननु विवृतमित्यस्य यथा कृदंतव्यपदेशः । एवं क्तांतव्यपदेशोऽप्यस्ति तयैव परिभाषया । तथा च कर्मणि क्तांत उत्तरपदे परतो गतिरनंतर इति सुशब्दस्य प्रकृतिस्वरः प्राप्नोति । न चात्रापि परादिश्छंदसि बहुलमित्येवं नास्ति विस्तारः । तथा हि सति सुविवृतमित्यत्र विवृतमित्येवोत्तरपदमिति तदादिरिकार एवोदात्तः स्यात् । विवृतमिति समासे यद्यप्यृकारः पदादिर्भवति तथापि सुविवृतमिति समासस्य सति शिष्टत्वेन बलीयस्त्वात्तत्रत्य एवोत्तरपदादाविकार एवोदात्तस्वरेण भवितव्यमिति । उच्यते । गतिरनंतर इत्यत्रानुवृत्तेः क्तग्रहणे कृद्गृहणपरिभाषा नाश्रीयते । तदाश्रयणे व्यवहितगतावपि प्रकृतिस्वरे सत्यनंतरग्रहणमनर्थकं स्यात् । अनेनैव चाभिप्रायेणानंतरग्रहणस्य प्रयोजनमभ्युद्धृतमित्यत्र व्यवहितस्याभिशब्दस्य मा भूदिति प्रत्युदाहृतम् । तस्मात्सुविवृतमित्यृकार एवोदात्त इति स्थितम् । सुनिरजम् । अनायासेन निरवशेषं प्राप्यम् । अज गतिक्षेपणयोः । सुनिसोरुपसर्गयोः प्राक्प्रयोगः । ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (पा ३-३-१२६) न चात्र सुशब्दस्य निसा व्यवधानं शंकनीयम् । सुशब्दस्य ह्युपपदमात्रं खलो निमित्तं नानंतर्यम् । अत एव सुपरिहरं दुष्परिहरमित्यादयः प्रयोगा इति । पूर्ववद्गतिसमासे लीतीति प्रत्ययात्पूर्वमुदात्तमिति धात्वकार उदात्तः । निसा समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया कृदुत्तरपद प्रकृतिस्वरेण स एव शिष्यते । त्वादातम् । त्वया शोधनेन विशदीकृतम् । दैप् शोधने । आदेच उपदेशेऽशिति (पा ६-१-४५) इत्यात्वम् । सत्यपि हि पकारे नानुबंधकृतमनेजंतत्वं ॥ परि । ७ ॥ इत्येजंत एवायम् । निष्ठेति कर्मणि क्तः । दाधा घ्वदास् (पा १-१-२०) इत्यत्रादाबिति प्रतिषेधेन घुसंज्ञाया अभावाद्दो दद्घोः (पा ७-४-४६) इति ददादेशो न भवति । ननु दाप् लवन इति प्रतिपदोक्तस्यैव दापस्तत्रादाबिति निषेधः । न पुनर्लाक्षणिकस्य दैपः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्य । परि १०५ । इति नियमादिति चेन्न । गामादाग्रहणेष्वविशेषः । परि १०६ । इति प्रतिप्रसवात् । युष्मच्छब्दात्तृतीयैकवचनस्य सुपां सुलुगिति डादेशः ॥ त्वमावेकवचने (पा ७-२-९७) इति मपर्यंतस्य त्वादेशः । अतो गुण इति पर रूपत्वम् । भसंज्ञायां टीरित्यद्शब्दस्य लोप उदात्तनिवृत्तिस्वरेणाकार उदात्तः । कर्तृकरणे कृता बहुलाम् (पा २-१-३२) इति तृतीयासमासः । तत्पुरुषे कृति बहुलं पा ६-३-१४ । इति तृतीयाया अप्यलुक् । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरत्वम् । यशः । अशू व्याप्तौ । अशेर्युट्च (उ ४-१९०) इत्यसुन् । तत्सन्नियोगेन धातोर्युडागमः । नित्त्वादाद्युदात्तत्वम् । गवां प्रातिपदिकस्वरः । सावेकाच इति विभक्तेरुदात्तत्वं प्राप्तम् । न गोश्व न्साववर्णेति निषिध्यते । वृधि । वृञ् वरणे । श्रुशृणुपृकृवृभ्यश्चंदसि (पा ६-४-१०२) इति हेर्धिरादेशः । बहुलं छंदसीति श्नोरपि लुक् । निघातः । कृणुष्व । कृवि । हिंसाकरणयोश्च । इदितो नुम् । व्यत्ययेनात्मने पदम् । लोटस्थास् । ३-४-७८ । थासः से (पा ३-४-८०) सवाभ्यां वामौ (पा ३-४-९१) कर्तरि शपि प्राप्ते (पा ३-१-६८) धिन्विकृण्व्योरच्च (पा ३-१-८०) इत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । तस्यातो लोपः (पा ६-४-४८) इति लोपः । अचः परस्मिन्पूर्वविधौ (पा १-१-५७) इत्यकारलोपस्य स्थानिवद्भावाल्लघूपदगुणो न भवति । अत्र सति शिष्टस्वर बलीयस्त्वमन्यत्र विकरणेभ्य इति सति शिष्टमपि विकरणस्वरं बाधित्वा तिङ एव प्रत्ययाद्युदात्तत्वम् । राधः । असुनंतो नित्त्वादाद्युदात्तः । अद्रिवः । अद्रिर्वज्रम् । तद स्यास्तीति मतुप् । छंदसीरः (पा ८-२-१५) इति वत्वम् । संबुद्धावुगिदचां पा ७-१-७० । इति नुम् । हल् ङ्यादिसंयोगांतलोपौ (पा ६-१-६८) मतुवसोरुः संबुद्धौ छंदसि (पा ८-३-१) इतिरुत्वम् । विसर्जनीयः । आमंत्रितस्य च निघातः ॥ ७ ॥

1.10.8
न॒हि त्वा॒ रोद᳚सी उ॒भे ऋ᳚घा॒यमा᳚ण॒मिन्व᳚तः ।
जेष॒ः स्व᳚र्वतीर॒पः सं गा अ॒स्मभ्यं᳚ धूनुहि ॥
▶ पदपाठः (Word-by-word)
न॒हि । त्वा॒ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । ऋ॒घा॒यमा᳚णम् । इन्व᳚तः ।
जेषः᳚ । स्वः᳚॑वतीः । अ॒पः । सम् । गाः । अ॒स्मभ्य᳚म् । धू॒नु॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ऋघायमाणं शत्रुवधंकुर्वाणं त्वां रोदसी उभे द्यावापृथिव्यावपि त्वदीयं महिमानं नहीन्वतः । व्याप्तुं न समर्थे इत्यर्थः । तादृशत्त्वं स्वर्वतोः स्वर्लोकयुक्ता आपो वृष्टिरूपा जेषः । जयेः । प्रेरयेत्यर्थः । अपां स्वर्गसंबंधश्चान्यत्र दिवो वृष्टिं च्यावयति । तै सं ३-३-४-१ । इति श्रुतम् । किंच वृष्टिप्रदानादन्न संपत्तेरूर्ध्वमस्मभ्यं क्षीरादिरसप्रदा गाः सं धूनुहि । सम्यक् प्रेरय ॥ नहि । नञो हिशब्देन सह सुपा (पा २-१-४) इति समासः । समासत्वादंतोदात्तत्वम् । त्वा । अनुदात्तं सर्वमित्यनुवृत्तौ त्वामौ द्वितीयायाः (पा ८-१-२३) इति त्वादेशः । रोदसी । रुदेरसुन् । नित्त्वादाद्युदात्तः । उगितश्च (पा ४-१-६) इति ङीप् । उभे । प्रातिपदिकस्वरेणांतोदात्तः । श्या सदैकादेश उदात्तः । ऋघायमाणम् । नृन्हंतीत्यैघा । अन्येभ्योऽपि दृष्यंत इति विच् । दृशिग्रहणस्य विध्यंतरोपसंग्रहणार्थत्वान्न कारलोपो हकारस्य च घकारः । अनृघा ऋघा भवतीत्यभूततद्भावे लोहितादिदाज्भ्यः क्यष् (पा ३-१-१३) इति क्यष्प्रत्ययो भवति । स ह्या कृतिगणः । लोपश्च हलः (पा ३-१-१२) इत्यनुवृत्तेर्नकारलोपश्च । वा क्यषः (पा १-३-९०) इत्यात्मनेपदम् । लटः शानच् । शपोऽदुपदेशात्पराच्छानचो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । क्यषः प्रत्ययस्वरः । एकादेशस्योदात्तत्वम् । इन्वतः । इवि व्याप्तौ । इदितो नुम् धातोरिति नुम् । शपः पित्त्वादनुदात्तत्वम् । लडादेशस्य तसश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । हि चेति निषेधात्तिङ्ङतिङ इति निघातो न भवति । जेषः । जेः प्रार्थनायां लिङर्थे लेट् । तस्य मध्यमपुरुपैकवचनम् । सिप् । इतश्च लोपः परस्मैपदेष्वितीकारलोपः । कर्तरि शपि प्राप्ते तदपवादः सिब्बहुलं लेटीति सिप् । अडागमस्यानुदात्तत्वाद्धातुस्वर एव शिष्यते । स्वरासामस्तीति सर्वत्यः । न्यङ् स्वरौ स्वरितौ (फि ४-६) इति स्वर् शब्दः स्वरितः । मतुब्ङीपौ पित्त्वादनुदात्तौ । संहितायां स्वरितात्संहितायामनुदात्तानाम् (पा १-२-३९) इत्येकश्रुतिः । स्वरित एव शिष्यते । अपः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । धूनुहि । धूञ् कपंने । लोट् । सेर्ह्यपिच्च । स्वादिभ्यः श्नुः । उतश्च प्रत्ययादसंयोगपूर्वात् (पा ६-४-११६) इति प्राप्तस्य लुकश्छांदसत्वादभावः ॥ ८ ॥

1.10.9 समानपद
आश्रु᳚त्कर्ण श्रु॒धी हवं॒ नू चि᳚द्दधिष्व मे॒ गिरः᳚ ।
इन्द्र॒ स्तोम᳚मि॒मं मम᳚ कृ॒ष्वा यु॒जश्चि॒दन्त᳚रम् ॥
▶ पदपाठः (Word-by-word)
आश्रु᳚त्॑कर्ण । श्रु॒धि । हव᳚म् । नु । चि॒त् । द॒धि॒ष्व॒ । मे॒ । गिरः᳚ ।
इन्द्र᳚ । स्तोम᳚म् । इ॒मम् । मम᳚ । कृ॒ष्व । यु॒जः । चि॒त् । अन्त᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्रुत्कर्ण सर्वतः श्रोतारौ कर्णौ यस्य तादृगिंद्र हवमस्मदीयमाह्वानं नु क्षिप्रं शृधि । शृणु । मे मम होतुर्गिरश्चित्स्तुतीरपि दधिष्वि । चित्ते धारय । किंच मम मदीयमिमं स्तोमं स्तोत्ररूपं वाक्समूहं युजश्चित्स्वकीयसख्युरप्यंतरं कृष्व । आसन्नं कुरु । यथा वचनं तस्य प्रियं मन्यसे तद्वदस्मदीयस्तुतिष्वपि प्रीतिं कुर्वित्यर्थः ॥ आश्रुत्कर्ण । आ समंताच्छृुणुत इत्याश्रुत् । क्विप् । ह्रस्वस्य तुक् (पा ६-१-७१) तादृशौ कर्णौ यस्य । आमंत्रितस्य चेत्याद्युदात्तत्वम् । श्रुधी । श्र श्रवणे । लोटो हिः । श्रुवः शृ च (पा ३-१-७४) इति विहितश्नोर्बहुलं छंदसीति लुक् । तत्सन्नियोगविष्वत्वाच्छृभावोऽपि निवर्तते । श्रु शृणुपृकृवृभ्यश्छंदसि (पा ६-४-१०२) इति हेर्धिरादेशः सति शिष्टत्वात्प्रत्ययस्वरः । आमंत्रितं पूर्वमविद्यमानवत् (पा ८-१-७२) इत्यविद्यमानवत्त्वेन पदादपरत्वात्तिङ्ङतिङ इति निघातो न भवति । संहितायामन्येषामपि दृश्यत इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च । बहुलं छंदसीत्यनैमित्तिके संप्रसारणे कृते पश्चादुकारांतत्वेन ऋूदोरप् (पा ३-३-५७) इत्यप्प्रत्ययः । अपः पित्त्वाद्धातुस्वरः । नु । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । चित् । चादिरनुदात्तः । दधिष्व । दधातेर्लोट् । थासः से । सवाभ्यां वामौ (पा ३-४-९१) शपः श्लुः । अभ्यासस्य ह्रस्वत्वादि । छंदस्युभयथेत्यार्धधातुकस्यापि स्वीकारादिडागमः । आकारलोपः । निघातः । मम । तवममौ ङसि (पा ७-२-९६) इत्यनेन मपर्यंतस्य ममादेशः । प्रातिपदिकस्वरेणांतोदात्तत्वे प्राप्ते युष्मदस्मदोर्ङसि (पा ६-१-२११) इत्याद्युदात्तत्वम् । कृष्व । डुकृञ् करणे लोट् । थासः से । सवाभ्यां वामौ । शपो बहुलं छंदसीति लुक् । सति शिष्टत्वात्प्रत्ययस्वरः । पादादित्वान्न निघातः । युजः । सावेकाच इति विभक्तेरुदात्तत्वम् । अंतरं वृषादित्वादाद्युदात्तः ॥ ९ ॥

1.10.10
वि॒द्मा हि त्वा॒ वृष᳚न्तमं॒ वाजे᳚षु हवन॒श्रुत᳚म् ।
वृष᳚न्तमस्य हूमह ऊ॒तिं स᳚हस्र॒सात᳚माम् ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । हि । त्वा॒ । वृष᳚न्॑तमम् । वाजे᳚षु । ह॒व॒न॒॑श्रुत᳚म् ।
वृष᳚न्॑तमस्य । हू॒म॒हे॒ । ऊ॒तिम् । स॒ह॒स्र॒॑सात᳚माम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वां विद्म । जानीमः । कीदृशं त्वाम् । वृषंतमं कामानामतिशयेन वर्षितां वाजेषु संग्रामेषु हवनश्रुतं अस्मदीयस्याह्वानस्य श्रोतारम् । वृषंतममस्यातिशयेन कामादीनां वर्षितुस्तवोतिं रक्षामस्मद्विषयामुद्दिश्य हूमहे । त्वामाह्वयामः । कीदृशीमूतिम् । सहस्रसातमामतिशयेन धनसहस्राणां दात्रीम् । विद्म । विदो लटो वा (पा ३-४-८३) इति मसो मादेशः । प्रत्ययस्वरेणांतोदात्तः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । वृषंतमम् । पृषु वृषु मृषु सेचने । कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः (उ १-१५६) इति कनिन् । नित्त्वादाद्युदात्तः । तमपः पित्त्वात्स एव शिष्यते । अयस्मयादीनि छंदसि (पा १-४-२०) इति भत्वेन पदत्वाभावान्न लोपाभावः (पा ८-२-७) वाजेषु । वाजशब्दो वृषादिराद्युदात्तः । हवनश्रुतम् । हू इत्यनुवृत्तौ बहुलं छंदसीति ल्युट संप्रसारणम् । हवनं शृणोतीति क्विप् । तुगागमः । वृषंतमस्य । उक्तम् । हूमहे बहुलं छंदसीति संप्रसारणम् । शप इत्यनुवृत्तौ बहुलं छंदसीति शपो लुक् । ऊतिम् । ऊतियूतीत्यादिनांतोदात्तो निपाशितः । सहस्रसातमाम् । सहस्रं सनोतीति सहस्रसाः । षणु दाने । जनसनखनक्रमगमो विट् (पा ३-२-६७) विड्वनोरनुनासिकस्यात् (पा ६-४-४१) इत्याकारादेशः । कृदुत्तरपदप्रकृतिस्वरत्वं तमपः पित्त्वादेव शिष्यते ॥ १० ॥

1.10.11 समानपद
आ तू न᳚ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि᳚ब ।
नव्य॒मायु॒ः प्र सू ति᳚र कृ॒धी स᳚हस्र॒सामृषि᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । तु । नः॒ । इ॒न्द्र॒ । कौ॒शि॒क॒ । म॒न्द॒सा॒नः । सु॒तम् । पि॒ब॒ ।
नव्य᳚म् । आयुः᳚ । प्र । सु । ति॒र॒ । कृ॒धि । स॒ह॒स्र॒॑साम् । ऋषि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तु क्षिप्रं नोऽस्मान्प्रत्या गच्छेति शेषः । हे कौशिक कुशिकस्य पुत्रेंद्र मंदसानो हृष्टो भूत्वा सुतमभिषुतं सोमं पिब । यद्यपि विश्वामित्रः कुशिकस्य पुत्रस्तथापि तद्रूपेणेंद्रस्यैवोत्पन्नत्त्वात्कुशिकपुत्रत्वमविरुद्धम् । अयं वृत्तांतोऽनुक्रमणिकायामुक्तः । कुशिकस्त्वैषीरथिरिंद्रतुल्यं पुत्रमिच्छन्प्रह्मचर्यं चकार । तस्येंद्र एव गाथी पुत्रो जज्ञे । अनु । ऋग्वे ३-१ । इति । हे इंद्र नव्यं सर्वैर्देवैः स्तुत्यं कर्मानुष्ठानपरमायुर्जीवितं प्र सू तिर । प्रकर्षेण सुष्वु वर्धय । ततो मां सहस्रसां सहस्रसंख्या कलाभोपेतमृषिमतींद्रयद्रष्टारं कृधि । कुरु ॥ तु । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणामिति दीर्घः । नः । संहितायामुदात्तादनुदात्तस्य स्वरितः । इंद्र । आमंत्रितनिघातः । कौशिक । निघातः । मंदसानः । हृष्यन् । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । आसानजित्शनु वृत्तावृंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इत्यसानच् प्रत्ययः । चित्त्वादंतोदात्तः । सुतम् । प्रत्ययस्वरः । नव्यम् । णु स्तुतौ । अचो यत् । गुणः । वांतो यि प्रत्यये (पा ६-१-७९) इत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । आयुः । उसिनिदित्यनुवृत्तावेतेर्णिच्च (उ २-११९) इत्युसिप्रत्ययः णित्ताद्वृद्ध्यायादेशौ । नित्त्वादाद्युदात्तत्वम् । सु । निपातस्य चेति संहितायां दीर्घत्वम् । शिर । तरतेर्व्यत्ययेन शः । ऋत इद्धातोः (पा ७-१-१००) इतीत्वम् । अतो हेरति हेर्लुक् । कृधि । डुकृञ् करणे । बहुलं छंदसीति शपो लुक् । श्रु शृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । सहस्रसाम् । उक्तम् । ऋषिम् । ऋषी गतौ । इन्नित्यनुवृत्ताविगुपधात्किच्च । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वं ॥ ११ ॥

1.10.12
परि᳚ त्वा गिर्वणो॒ गिर᳚ इ॒मा भ᳚वन्तु वि॒श्वतः᳚ ।
वृ॒द्धायु॒मनु॒ वृद्ध᳚यो॒ जुष्टा᳚ भवन्तु॒ जुष्ट᳚यः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । त्वा॒ । गि॒र्व॒णः॒ । गिरः᳚ । इ॒माः । भ॒व॒न्तु॒ । वि॒श्वतः᳚ ।
वृ॒द्ध॑आ᳚युम् । अनु᳚ । वृद्ध᳚यः । जुष्टाः᳚ । भ॒व॒न्तु॒ । जुष्ट᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्ये परि त्वेत्यभिष्वुयात् । स्पृष्व्वोदकमिति खंडे परि त्वा गिर्वणो गिरोऽधि द्वयोरधधा उक्थ्यं वचः (आ ४-६) इति सूत्रितम् । तथा हविर्धानप्रवर्तने सेयं परिधानीया । हविर्धाने प्रवर्तयंतीति खंडे परि त्वा गिर्वणो गिर इति परिदध्यात् (आ ४-९) इति सूत्रितम् । तथा ब्रह्मणं च । परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति । ऐ ब्रा १-२९ । इति ॥

हे गिर्वणोऽस्मदीयस्तुतिभागिंद्र विश्वतः सर्वेषु कर्मसु प्रयुज्यमाना इमा गिरोऽस्मदीया स्तुतयस्त्वा त्वां परि भवंतु । सर्वतः प्राप्नुवंतु । कीदृश्यो गिरः । वृद्धायुमनु प्रवृद्धेनायुष्येणोपेतं त्वामनुसृत्य वृद्धयो वर्धमानाः । किंचैता गिरो जुष्टास्त्वया सेविताः सत्यो जुष्टयोऽस्माकं प्रीतिहेतवो भवंतु ॥ गिर्वणः । गीर्भिर्वन्यत इति गिर्वणाः । वन षण संभक्तौ । सर्वधातुभ्योऽसुन् । गिर उपधाया दीर्घाभावश्छांदसः । आमंत्रितनिघातः । विश्वतः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । वृद्धायुम् । वृधु वृद्धौ । क्तप्रत्ययः । उदितो वा (पा ७-२-५६) इतीटः क्त्वाप्रत्यये विकल्पितत्वाद्यस्य विभाषा (पा ७-२-१५) इति निष्ठायामिडभावः । प्रत्ययस्वरः । इण् गतौ । छंदसीणः (उ १-२) इत्यृण् । णित्त्वाद्द्यद्धिः । आयादेशश्च । वृद्धमायुर्यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृद्धयः वृधेः क्तिनि तितुत्रतथसिसुसरकसेषु च (पा ७-२-९) इतीडभावः । नित्त्वादाद्युदात्तत्वं जुष्टाः । श्विदितो निष्ठायाम् (पा ७-२-२४) इतीडभावः । जुष्टार्पिते इत्यनुवृत्तौ नित्यं मंत्रे (पा ६-१-२१०) इत्याद्युदात्तत्वम् । जुष्टयः । जुषी प्रीतिसेवनयोः क्तिन् । तितुत्रेतीडभाव । नित्त्वादाद्युदात्तः ॥ २० ॥ १२ ॥