प्रथमं मण्डलम् - सूक्तम् 43

9 ऋचः

ऋषिः: कण्वो घौरः देवता: रुद्रः छन्दः: गायत्री

सूक्तम् 1.43 - सम्पूर्णम्

1 / 9
ऋक्: 1.43.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.43.1
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट᳚माय॒ तव्य᳚से ।
वो॒चेम॒ शंत᳚मं हृ॒दे ॥
▶ पदपाठः (Word-by-word)
कत् । रु॒द्राय᳚ । प्र॑चे᳚तसे । मी॒ळ्हुः॑त᳚माय । तव्य᳚से ।
वो॒चेम᳚ । शम्॑त᳚मम् । हृ॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

कत् कदा रुद्रायै तन्नामकाय देवाय शंतममतिशयेन सुखकरं स्तोत्रं वोचेम । पठेम । कीदृशाय । प्रचेतसे । प्रकृष्टज्ञानयुक्ताय । मीळ्हुष्टमाय सेक्तृतमाय अभीष्टकामवर्षायेत्यर्थ । तव्यसेऽतिशयेन प्रवृद्धाय । हृदेऽस्मदीयहृन्निष्ठाय ॥ कत् । कदा । अंत्यलोपश्छांदसः । रुद्राय । रोदयति सर्वमंतकाल इति रुद्रः । रोदेर्णिलुक्च (उ २-२२) इति रक् प्रत्ययः । प्रचेतसे । चिती संज्ञाने । प्रकृष्टं चेततीति प्रचेताः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च मीळ्हुष्वमाय । अतिशयेन मीढ्वान् मीळ्हुष्टमः । दाश्वान् स्वाह्वान् मीढ्वांश्चेति क्वसुप्रत्ययांतो निपातितः । तमप्ययस्म यादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । तव्यसे । तवतिर्वृद्ध्यर्थः । सौत्रो धातुः । अतिशयेन तविता तवीयान् । तुश्छंदसी तीयसुन्प्रत्ययः । तुरिष्ठेमेयस्स्विति तृलोपः । ईयसुन ईकारलोपश्छांदसः । नित्त्वादाद्युदात्तत्वम् । वोचेम वच परिभाषणे । लिङ्याशिष्यङ् । वच उमित्युमागमः । यासुटः स्वरेणैकार उदात्तः । हृदे । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं ॥ १ ॥

1.43.2
यथा᳚ नो॒ अदि᳚ति॒ः कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ ।
यथा᳚ तो॒काय᳚ रु॒द्रिय᳚म् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । नः॒ । अदि᳚तिः । कर᳚त् । पश्वे᳚ । नृ॑भ्यः᳚ । यथा᳚ । गवे᳚ ।
यथा᳚ । तो॒काय᳚ । रु॒द्रिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिर्भूमिर्नोऽस्माकं रुद्रियं रुद्रसंबंधि भेषजं यथा येन प्रकारेण सिध्यति करत् । तथा करोतु । किंच यथा येन प्रकारेण पश्वेऽस्मदीयाश्वमहिषादिपसवे नृभोऽस्मदीयपुरुषेभ्यो विशेषेण गवे गोजातये हितं रुद्रियं सिध्यति तथा करोतु । किंच तोकायास्मदीयापत्या रुद्रियं यथा सिध्यति तथा करोतु । भेषजस्य रुद्रसंबंधित्वं मंत्रांतरे समाम्नातम् । या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी । तै सं ४-५-१०-१ । इति गवादिविषयभेषजं चान्यत्र स्पष्टमाम्नातम् । भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजं सुभेषजम् । तै सं १-८-६-१ । इति ॥ करत् । डुकृञ् करणे । लङि । व्यत्ययेन शप् । यद्वा । लेट्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । लुङि कृमृदुृरुभ्यश्छंदसीति च्लेरङादेशः । ऋदृशोऽङि गुण इति गुणः । आद्ययोः पक्षयोः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः तृतीये तु व्यत्ययेन । यद्वृत्तयोगाद निघातः । पश्वे । संज्ञापूर्वकस्य विधेरनित्यत्वात् घेर्ङिति (पा ७-३-१०१) इति । गुणाभावः । यणादेश । नृभ्यः । नृचान्यतरस्याम् (पा ६-१-१८४) इति विभक्त्युदातत्वाभावः गवे । सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । रुद्रियम् । रुद्रशब्दात्तस्येदमित्यर्थे घप्रत्ययः ॥ २ ॥

1.43.3
यथा᳚ नो मि॒त्रो वरु᳚णो॒ यथा᳚ रु॒द्रश्चिके᳚तति ।
यथा॒ विश्वे᳚ स॒जोष᳚सः ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । नः॒ । मि॒त्रः । वरु᳚णः । यथा᳚ । रु॒द्रः । चिके᳚तति ।
यथा᳚ । विश्वे᳚ । स॒॑जोष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रो वरुणश्च नोऽस्मान्यथा येन प्रकारेण चिकेतति अनुग्राह्यत्वेन जानाति । रुद्रोपि यथा चिकेतति । सजोषसः समानप्रीतयो विश्वे सर्वे देवा यथा चिकेतंति । तथा भवत्विति शेषः । यद्वा । यथाशब्दोपेतमंत्रद्वयस्य तथा कदा वोचेमेति पूर्वत्रान्वयः ॥ चिकेतति । कित ज्ञाने । लेट्यडागमः । नाभ्यस्तस्येति (पा ७-३-८७) गुणनिषेधो न भवति । बहुलं छंदसीति वक्तव्यमिति वचनात् । सार्वधातुकत्वाच्चाभ्यस्तानामादिरित्याद्युदात्तत्वम् । सजोषसः । जुषी प्रीतिसेवनयोः । समानं जुषंतीति सजोषसः । समानस्य छंदसीति सभावः । असुनो नित्त्वादुत्तरपदस्याद्युदात्तत्वम् । तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन शिष्यते ॥ ३ ॥

1.43.4 समानपद
गा॒थप᳚तिं मे॒धप᳚तिं रु॒द्रं जला᳚षभेषजम् ।
तच्छं॒योः सु॒म्नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
गा॒थ॑प᳚तिम् । मे॒ध॑प᳚तिम् । रु॒द्रम् । जला᳚ष॑भेषजम् ।
तत् । श॒म्॑योः । सु॒म्नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुद्रमभिलक्ष्य वयं शंयोर्बृहस्पतिपुत्रस्य संबंधि तत्प्रसिद्धं सर्वप्रजाभ्यो हितं सुम्नं सुखमीमहे । याचामहे । कीदृशं रुद्रम् । गाथपतिं स्तुतिपालकम् । मेधपतिं यज्ञपालकम् । जलाषभेषजं सुखरूपौषधोपेतम् । यद्वा । उदकरूपौषधोपेतम् । उदकं हि रुद्रनामाभिमंत्रितं सदौषधं भवति ॥ गाथपतिं ॥ गाथेति वाङ्नाम । गाथा गण इति तन्नामसु पठितत्वात् । वाग्रूपायाः स्तुतेः पतिर्गाथपतिः । कै गै रै शब्दे । अदेच इत्यात्वम् । उषिकुषिगार्तिभ्यस्थन्निति थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ङ्यापोः संज्ञा छंदसोर्बहुलमिति पूर्वपदस्य ह्रस्वत्वम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादीनां छंदस्युपसंख्यानमिति पूर्वपदांतोदात्तत्वम् । मेधपतिम् । पूर्ववत् । जलाषभेषजम् । जनी प्रादुर्भावे । जायंत इति जाः । अन्येष्वपि दृश्यते (पा ३-२-१०१) इति दृशिग्रहणात्केवलादपि डप्रत्ययः । लाषः । लष कांतौ । कांतिरभिलाषः । भावे घञ् । जानां लाषो यस्मिंस्तज्जलाषं सुखम् । जलाषरूपं भेषजं यस्मिन्रुद्रे स जलाषभेषजः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंयोः । कंशंभ्याम् (पा ५-२-१३८) इति मत्वर्थीयो युस्प्रत्ययः । सिति च (पा १-४-१६) इति पदसंज्ञायामनुस्वारपरसवर्णौ । प्रत्ययस्वरः ॥ ४ ॥

1.43.5
यः शु॒क्र इ᳚व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच᳚ते ।
श्रेष्ठो᳚ दे॒वानां॒ वसु᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । शु॒क्रः॑इ᳚व । सूर्यः᳚ । हिर᳚ण्यम्॑इव । रोच᳚ते ।
श्रेष्ठः᳚ । दे॒वाना᳚म् । वसुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो रुद्रः सूर्य इव शुक्रः सूर्यवद्दीप्तिमान् । हिरण्यमिव रोचते । यथा सर्वेषां प्राणिनां हिरण्य प्रीतिकरं भवति तथा रुद्रोऽपि । स च देवानां सर्वेषां प्राणिनां हिरण्यं प्रीतिकरं भवति तथा रुद्रोऽपि । स च देवानां सर्वेषां मध्ये श्रेष्ठो वसुर्निवासहेतुश्च ॥ रोचते । रुच दीप्तावभिप्रीत्यां च अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । श्रेष्ठः प्रशस्यतरः । प्रशस्यशब्दादिष्ठनि प्रशस्यस्य श्रः (पा ५-३-६०) इति श्रादेशः । नित्त्वादाद्युदात्तत्वम् । वसुः । वासयति सर्वमिति वसुः । वस निवासे । अंतर्भावितण्यर्थात् शृस्वृस्निहीत्यादिनोप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वं ॥ २६ ॥ ५ ॥

1.43.6
शं नः᳚ कर॒त्यर्व᳚ते सु॒गं मे॒षाय᳚ मे॒ष्ये᳚ ।
नृभ्यो॒ नारि᳚भ्यो॒ गवे᳚ ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । क॒र॒ति॒ । अर्व᳚ते । सु॒॑गम् । मे॒षाय᳚ । मे॒ष्ये᳚ ।
नृ॑भ्यः᳚ । नारि᳚॑भ्यः । गवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आग्नि मारुते शं नः करोतीति धाय्या । अथ यथेतमिति खंडे सूत्रितं वैश्वानराय पृथुपाजसे शं नः करत्यर्वते (आ ५-२०) इति ।

नोऽस्माकं संबंधिभ्योऽर्वदादिभ्यः सुगं सुष्ठु गम्यं शं सुखं करति । देवः करोति । अर्वतेऽश्वाय । अर्वञ्शब्दोऽश्वनाम । अर्वा वाजीति तन्नामसु पाठात् । मेषाय मेषजातिपुरुषाय मेष्ये तज्जातीयस्त्रियै नृभ्यः पुरुषेभ्यो नारिभ्यः । स्त्रीभ्यो गवे गोजातये ॥ करति । डुकृञ् करणे । व्यत्ययेन शप् । अर्वते । अर्ति गच्छतीत्यर्वा । अन्येभ्योऽपि दृश्यंत इति वनिप् । चतुर्थ्येकवचनेऽर्वणस्त्रसावनञ इति नकारस्य तृ आदेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । धातुस्वरः । मेषाय । मिष स्पर्धायाम् । पचाद्यच् देवसेनमेषादयः पचादिषु द्रष्टव्या इति वचनात् । मेष्ये । जातेरस्त्रीविषयादयोपधात् (पा ४-१-६३) ङीष्प्रत्ययः । प्रत्ययस्वरः । चतुर्थ्येकवचन आगमानुशासनस्यानित्यत्वादाडागमाभावः । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वम् । उदात्तयणो हल्पूर्वादिति तु न भवति । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनात् । नृभ्यः सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृचान्यतरस्यामिति प्रतिषेधः । नारिभ्यः । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीन् प्रत्ययः । नित्त्वादाद्युदात्तः । गवे । न गोश्वन्साववर्णेति विभक्त्युदात्तस्य प्रतिषेधः ॥ ६ ॥

1.43.7
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य᳚ नृ॒णाम् ।
महि॒ श्रव᳚स्तुविनृ॒म्णम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । सो॒म॒ । श्रिय᳚म् । अधि᳚ । नि । धे॒हि॒ । श॒तस्य᳚ । नृ॒णाम् ।
महि᳚ । श्रवः᳚ । तु॒वि॒॑नृ॒म्णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देव नृणां पुरुषाणां शतस्य पर्याप्तां श्रियमस्मे अस्मास्वधि नि धेहि । आधिक्येन स्थापय । तथा महि महत् तुविनृम्णं प्रभूतबलयुक्तं श्रवोऽन्नमधि नि धेहि ॥ अस्मे सुपां सुलुगिति सप्तम्याः शे आदेशः । नृणाम् । नृ च (पा ६-४-६) इति दीर्घप्रतिषेधः । नामन्यतरस्यामिति नाम उदात्तत्वम् । महीत्यादयो गताः ॥ ७ ॥

1.43.8
मा नः᳚ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त ।
आ न᳚ इन्दो॒ वाजे᳚ भज ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । सो॒म॒॑प॒रि॒बाधः᳚ । मा । अरा᳚तयः । जु॒हु॒र॒न्त॒ ।
आ । नः॒ । इ॒न्दो॒ इति᳚ । वाजे᳚ । भ॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमपरिबाधः सोमस्य परितो बाधका यागरहिता नोऽस्मान् मा जुहुरंत । मा हिंसंतु । तथारातयः शत्रवो मा जुहुरंत । हे इंदो सोम वाजे बलविषयेऽन्नविषये वा नोऽस्माना भज । सर्वतः सेवस्व ॥ सोमपरिभाधः । सोमं परिबाधंते ये ते तादृशाः । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अरातयः । रा दाने । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तरि क्तिन् । यद्वा । क्तिच् क्तौ च संज्ञायामितिक्तिच् । नञ्समासेऽव्ययपूर्णपदप्रकृतिस्वरत्वम् । जुहुरंत । हृ व्रसह्यकरणे । व्यत्ययेनात्मनेपदम् । लङि जुहोत्यादित्वात् श्लुः । बहुलं छंदसीति बहुलवचनादिकारस्याप्युत्वम् । द्विर्भावहलादिशेषौ । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाददभ्यस्तात् । पा ७-१ ४ । इत्यदादेशाभावे सति झोंऽत इत्यंतादेशः । न माङ्योग इत्यडभावः ॥ ८ ॥

1.43.9 समानपद
यास्ते᳚ प्र॒जा अ॒मृत᳚स्य॒ पर᳚स्मि॒न्धाम᳚न्नृ॒तस्य᳚ ।
मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ॥
▶ पदपाठः (Word-by-word)
याः । ते॒ । प्र॒॑जाः । अ॒मृत᳚स्य । पर᳚स्मिन् । धाम᳚न् । ऋ॒तस्य᳚ ।
मू॒र्धा । नाभा᳚ । सो॒म॒ । वे॒नः॒ । आ॒॑भूष᳚न्तीः । सो॒म॒ । वे॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव संबंधिन्यो याः प्रजाः संति स्तोत्रं वा कुर्वंति ताः प्रजाः मूर्धा शिरस्थानीयस्त्वं नाभा सन्नहनयुक्ते यज्ञ गृहे । वेनः कामयस्व । कीदृशस्य ते । अमृतस्य मरणरहितस्य परस्मिन्धामन्नृतस्य उत्तमे स्थाने प्राप्तस्य । हे सोम आभूषंतीः सर्वतस्त्वामलंकुर्वंतीः प्रजाः वेदः । जानीहि ॥ धामन् । सुपां सलुगिति सप्तम्या लुक् । नाभा । णह बंधने । नहो भश्च उ । ४-१२५ । इति कर्मणीञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । वेनः । वेनतिः कांति कर्मा । लेट सिप्यडागदुः । तिङ्ङतिङ इति निघातः । आभूषंतीः । भूष अलंकारे । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । वेदः । विद ज्ञाने । लेट सिप्यडागमः ॥ २७ ॥ ८ ॥ ९ ॥