प्रथमं मण्डलम् - सूक्तम् 67

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: द्विपदा विराट्

सूक्तम् 1.67 - सम्पूर्णम्

1 / 10
ऋक्: 1.67.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.67.1
वने᳚षु जा॒युर्मर्ते᳚षु मि॒त्रो वृ᳚णी॒ते श्रु॒ष्टिं राजे᳚वाजु॒र्यम् ॥
▶ पदपाठः (Word-by-word)
वने᳚षु । जा॒युः । मर्ते᳚षु । मि॒त्रः । वृ॒णी॒ते । श्रु॒ष्टिम् । राजा᳚॑इव । अ॒जु॒र्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनेष्विति द्वैपदं दशर्चमध्ययनतः पंचर्चं तृतीयं सूक्तं पराशरस्यार्षमाग्नेयम् । वनेष्वित्यनुक्रांतं ॥ विनियोगो लैंगिकः ॥

Sayana bhashya empty

1.67.2
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव᳚त्स्वा॒धीर्होता᳚ हव्य॒वाट् ॥
▶ पदपाठः (Word-by-word)
क्षेमः᳚ । न । सा॒धुः । क्रतुः᳚ । न । भ॒द्रः । भुव᳚त् । सु॒॑आ॒धीः । होता᳚ । ह॒व्य॒॑वाट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनेषु जायुररण्येषु जायमानो मर्तेषु मनुष्येषु मित्रः सखा सोऽयमग्निः श्रुष्टिम् । शु आश्वश्नुते कर्माणि व्याप्नोतीति श्रुष्टिर्यजमानः । क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः । तथा च यास्कः । श्रुष्टीति क्षिप्रनामाशु अष्टीति (नि ६-१२) एवंभूतं यजमानं वृणीते । संभजते । अनेन प्रत्तं हविः स्वीकृत्य रक्षतीति भावः । तत्र दृष्टांतः । राजेवाजुर्यम् । अजुर्यं जरारहितं दृढांगं सर्वकार्येषु शक्तमित्यर्थः । एवंभूतं पुरुषं यथा राजा वृणीते तद्वत् । क्षेमो न रक्षक इव साधुः साधयिता क्रतुर्न । क्रतुः कर्मणां कर्ता । स इव भद्रो भजनीयः कल्याणो वा होता देवानामाह्वाता हव्यवाट् हव्यवाहनो नाम देवानामग्निः । तथा चाम्नायते । त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणाम् । तै सं २-५-८-६ । इति । एवंभूतोऽग्निः स्वाधीः शोभनकर्मा शोभनाध्यानो वा भुवत् । भवतु ॥ जायुः । जि जये । कृवापाजीत्युण् । अजुर्यम् । जृष् वयोहानौ । भावे ण्यत् । वृद्धौ कृतायामाकारस्य व्यत्ययेनोकारः । जुर्यं जरा नास्त्यस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । भुवत् । भवतेर्लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः ॥ १ ॥ २ ॥

1.67.3
हस्ते॒ दधा᳚नो नृ॒म्णा विश्वा॒न्यमे᳚ दे॒वान्धा॒द्गुहा᳚ नि॒षीद᳚न् ॥
▶ पदपाठः (Word-by-word)
हस्ते᳚ । दधा᳚नः । नृ॒म्णा । विश्वा᳚नि । अमे᳚ । दे॒वान् । धा॒त् । गुहा᳚ । नि॒॑सीद᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.67.4
वि॒दन्ती॒मत्र॒ नरो᳚ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्रा{4}॒ अशं᳚सन् ॥
▶ पदपाठः (Word-by-word)
वि॒दन्ति᳚ । ई॒म् । अत्र᳚ । नरः᳚ । धि॒य॒म्॑धाः । हृ॒दा । यत् । त॒ष्टान् । मन्त्रा᳚न् । अशं᳚सन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वानि सर्वाणि नृम्णा नृम्णानि हविर्लक्षणानि धनानि हस्ते स्वकीये बाहौ दधानो धारयन्नयमग्नि र्गुहा गुहायामप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे निषीदन् निगूढो वर्तमानः सन्नमे भये देवान्धात् । अस्थापयत् । अग्नौ हविर्भिः सह पलायिते सति सर्वे देवा अभैषुरित्यर्थः । नरो नेतारो धियंधाः । कर्मणां बुद्धीनां वा धारयितारो देवा अत्रास्मिन्काल ईमेनमग्निं विदंति । जानंति । यद्यदा हृदा हृदयावस्थितया बुद्ध्या तष्टान्निर्मितानग्निस्तुतिपरान्मंत्रानशंसन् अस्तुवन् । अवोचन्नित्यर्थः ॥ निषीदन् । सदेरप्रतेरिति षत्वम् । विदंति । विद ज्ञाने । अदादित्वाच्छपो लुक् । प्रत्ययस्वरः । धियंधाः । आतोऽनुपसर्गे क इति कः । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । तष्वान् । तक्षू त्वक्षू तनूकरणे । निष्ठा । यस्य विभाषेतीट् प्रतिषेधः । स्कोः संयोगाद्योरिति कलोपः ॥ ३ ॥ ४ ॥

1.67.5
अ॒जो न क्षां दा॒धार᳚ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे᳚भिः स॒त्यैः ॥
▶ पदपाठः (Word-by-word)
अ॒जः । न । क्षाम् । दा॒धार᳚ । पृ॒थि॒वीम् । त॒स्तम्भ᳚ । द्याम् । मन्त्रे᳚भिः । स॒त्यैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.67.6
प्रि॒या प॒दानि᳚ प॒श्वो नि पा᳚हि वि॒श्वायु᳚रग्ने गु॒हा गुहं᳚ गाः ॥
▶ पदपाठः (Word-by-word)
प्रि॒या । प॒दानि᳚ । प॒श्वः । नि । पा॒हि॒ । वि॒श्व॑आ᳚युः । अ॒ग्ने॒ । गु॒हा । गुह᳚म् । गाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजो न । अजति गच्छतीत्यजः सूर्यः । यद्वा । न जायत इत्यजः । जन्मरहित इत्यर्थः । स इव । क्षेति पृथिवीनाम । क्षां भूमिं दाधार । अयमग्निः प्रकाशकत्वेन धारयति । पृथिवीत्यंतरिक्षनाम । पृथिवीमंतरिक्षं च धारयतीत्येव । द्यां द्युलोकं सत्यैरवितथार्थैर्मंत्रॆैस्तस्तंभ । स्तभ्नाति । यथाधो न पतति उपर्येव तिष्ठति तथा करोतीत्यर्थः । मंत्रैर्दिवो धारणं तैत्तरीये समाम्नातम् । देवा वा आदित्यस्य सुवर्गलोकस्य पराचोऽतिपातादबिभयुः । तं छंदोभिरदृहन्धृत्या इति । यद्वा । सत्यैर्मंत्रैः स्तूयमानोऽग्निर्द्यां तस्तंभेति । हे अग्ने विश्वायुः विश्वं सर्वमायुरन्नं यस्य स त्वं पश्वः पशोः प्रिया प्रियाणि पदानि शोभनतृणोदकोपेतानि स्थानानि नि पाहि । नितरां पालय । माधाक्षीरित्यर्थः । तर्हि कुत्र निवसामीति चेत् तत्राह । गुहा गुहाया अपि गुहं गुहां गवां संचारयोग्यस्थानं गाः । गच्छ । तत्रैव निवसेत्यर्थः ॥ पश्वः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । उदात्तयण इति विभक्तेरुदात्तत्वम् । गुहा । सुपां सुलुगिति पंचम्या आजादेशः । चित्त्वादंतोदात्तत्वम् । गुहं व्यत्ययेन ह्रस्वत्वम् । गाः । छांदसो लुङ् । इणो गा लुङीति गादेशः ॥ ५ ॥ ६ ॥

1.67.7
य ईं᳚ चि॒केत॒ गुहा॒ भव᳚न्त॒मा यः स॒साद॒ धारा᳚मृ॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ई॒म् । चि॒केत᳚ । गुहा᳚ । भव᳚न्तम् । आ । यः । स॒साद᳚ । धारा᳚म् । ऋ॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.67.8
वि ये चृ॒तन्त्यृ॒ता सप᳚न्त॒ आदिद्वसू᳚नि॒ प्र व᳚वाचास्मै ॥
▶ पदपाठः (Word-by-word)
वि । ये । चृ॒तन्ति᳚ । ऋ॒ता । सप᳚न्तः । आत् । इत् । वसू᳚नि । प्र । व॒वा॒च॒ । अ॒स्मै॒ै ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पुमान् ईमेनं गुहा भवंतं गुहायां संतमग्निं चिकेत जानाति । यश्च ऋतस्य सत्यस्य यज्ञस्य वा धारां धारायितारमेनमग्निना ससाद आसीदति । उपास्त इत्यर्थः । ये च ऋता ऋतानि सत्यानि यज्ञान्वा सपंतः समवयंतः स्पृशंतो वा पुरुषा एतमग्निं वि चृतंति अग्निमुद्दिश्य स्तुतीर्ग्रथ्नंति । कुर्वंतीत्यर्थः । आदित् स्तुत्यनंतरमेवास्मै सर्वस्मै स्तोतृजनाय वसूनि धनानि प्र ववाच । प्रकथयति ॥ चिकेत । कित ज्ञाने । लिट णलि लित्स्वरः । चृतंति । चृती हिंसाग्रंथनयोः । तौदादिकः । लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । ववाच । लिट ब्रुवो वचिः । लिट्यभ्यासस्योभयेषाम् (पा ६-१-१७) इत्यभ्यासस्य संप्रसारणम् । संप्रसारणाच्चेति परपूर्वत्वस्य वा छंदसि (पा ६-१-११६) इति विकल्पनाद्यणादेशः ॥ ७ ॥ ८ ॥

1.67.9
वि यो वी॒रुत्सु॒ रोध᳚न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ॥
▶ पदपाठः (Word-by-word)
वि । यः । वी॒रुत्॑सु᳚ । रोध᳚त् । म॒हि॒॑त्वा । उ॒त । प्र॒॑जाः । उ॒त । प्र॒॑सूषु᳚ । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.67.10
चित्ति᳚र॒पां दमे᳚ वि॒श्वायु॒ः सद्मे᳚व॒ धीरा᳚ः स॒म्माय᳚ चक्रुः ॥
▶ पदपाठः (Word-by-word)
चित्तिः᳚ । अ॒पाम् । दमे᳚ । वि॒श्व॑आ᳚युः । सद्म᳚॑इव । धीराः᳚ । स॒म्॑माय᳚ । च॒क्रुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्वीरुत्स्वोषधीषु महित्वा यानि महत्त्वानि संति तानि विरोधत् विरुणद्धि विशेषेणावृणोति नावशेषयति । उतापि च प्रजाः प्रकर्षेणोत्पन्नाः पुष्पफलादिलक्षणाः प्रसूषूत्पादयित्रीषु मातृस्थानीयास्वोषधीष्वंतर्मध्ये विरुणद्धीत्येव । द्वितीय उतशब्दः पादपूरणः । तथा चित्तिश्चेतयिता ज्ञापयितापां दमे जलानां मध्यभूते गृहे विश्वायुः सर्वान्नो योऽग्निर्वर्तत इति शेषः । तमग्निं धीरा मेधाविनः संमाय संमाननं पूजनं कृत्वा । स्तुतिभिः स्तुत्वेत्यर्थः । चक्रुः । कर्माणि कुवंति । तत्र दृष्टांतः । सद्मेव । यथा सदनं गृहं प्रथमतः संपूज्य पश्चात्तत्र कर्माण्याचरंति तद्वत् ॥ वीरुत्सु । विपूर्वाद्रोहतेः क्विप् । न्यंक्वादिषु वीरुध् (पा ७-३-५३) इति पठितत्वादुपसर्गस्य दीर्घो धकारश्चांतादेशः । उक्तं च । वीरुध ओषधयो भवंति (नि ६-३) रोधत् । रुधिर् आवरणे । लेट्यडागमः । इतश्च लोप इतीकारलोपः । संमाय माङ् माने शब्दे च । समासेऽनञ्पूर्वे क्त्वो ल्यप् । ७-१-३७ । न ल्यपि (पा ६-४-६९) इतीत्व प्रतिषेधः ॥ ९ ॥ १० ॥