प्रथमं मण्डलम् - सूक्तम् 71

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.71 - सम्पूर्णम्

1 / 10
ऋक्: 1.71.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.71.1
उप॒ प्र जि᳚न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन᳚य॒ः सनी᳚ळाः ।
स्वसा᳚र॒ः श्यावी॒मरु᳚षीमजुष्रञ्चि॒त्रमु॒च्छन्ती᳚मु॒षसं॒ न गावः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । प्र । जि॒न्व॒न् । उ॒श॒तीः । उ॒शन्त᳚म् । पति᳚म् । न । नित्य᳚म् । जन᳚यः । स॑नी᳚ळाः ।
स्वसा᳚रः । श्यावी᳚म् । अरु᳚षीम् । अ॒जु॒ष्र॒न् । चि॒त्रम् । उ॒च्छन्ती᳚म् । उ॒षस᳚म् । न । गावः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उप प्रेति दशर्चं सप्तमं सूक्तम् । अत्रानुक्रम्यते । उप प्रदशेति । ऋषिश्चान्यस्मादिति परिभाषया शक्तिपुत्रः पराशर ऋषिः । अनादेशपरिभाषया त्रिष्टुप् । परमाग्नेयमैंद्रादिति परिभाषितत्वादग्निर्देवता ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदसीदमादीनि त्रीणि सूक्तानि । अथैतस्या इति खंडे तथैव सूत्रितम् । उप प्र जिन्वन्निति त्रीणि का त उपेतिरिति सूक्ते । अ ४-१३ । इति ॥ आश्विनशस्त्रेऽपि प्रातरनुवाकातिदेशादिदमादीनि त्रीणि सूक्तानि । तथैव सूत्र्यते । एतयाग्नेयं गायत्रमुपसंतनुयात् । प्रातरनुवाकन्यायेन । आ ६-५ ॥ इति ॥

उशतीरुशत्यः कामयमानाः सनीळाः । नीळो निवासस्थानम् । समाननिवासस्थानाः । एकपाण्यवस्थानात् । स्वसार इत्यंगुलिनाम । एवंभूता अंगुलय उशंतं कामयमानमग्निं जनयो जाया नित्यमसाधारणं पतिं न भर्तारमिवोप प्र जिन्वन् । उपेत्य हविप्प्रदानादिकर्मणा प्रीणयंति । प्रीणयित्वा च चित्रं चायनीयं पूजनीयं तमग्निमंजलिबंधनेनाजुप्रन् । असेवंत । तत्र दृष्टांतः । श्यावीं श्याववर्णां रात्रिसंबंधात्कृष्णां तत उच्छंतीं सूर्यकिरणसंबंधात्तमो वर्जयंतीं आत एवारुषीमारोचमानां यद्वा शुभ्ररूपयुक्तामुषसं न उषोदेवतां गावो रश्मयो यथा सेवंते तद्वत् । यथा रश्मय उषसा नित्यसंबद्धा एवं सर्वेषु यज्ञेष्वग्निपरिचरणेनांगुलयो नित्यसंबद्धा इति तात्पर्यार्थः ॥ जिन्वन् । जिवि प्रीणनार्थः । इदित्त्वान्नुम् । लेट्यडागमः । उशतीः । वा छंदसीति पूर्व सवर्णदीर्घत्वम् । शतुरनुम इति नद्या उदात्तत्वम् । स्वसारः । असु क्षेपण इत्यस्मात्सुञ्यसेर्ऋन् (उ २-९७) इति ऋन् । न षट् स्वस्रादिभ्यः (पा ४-१-१०) इति ङीप्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । अरुषीम् । अरुषमिति रूपनाम । ऋ गतौ । ऋहनिभ्यामुषच् । उ । ४-७३ । छंदसीवनिपाविति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । अजुष्रन् । जुषी प्रीतिसेवनयोः । तौदादिकः । लङि व्यत्ययेन परस्मैपदम् । रुडित्यनुवृत्तौ बहुलं छंदसीत्यंतादेशस्य रुडागमः ॥ १ ॥

1.71.2 समानपद
वी॒ळु चि᳚द्दृ॒ळ्हा पि॒तरो᳚ न उ॒क्थैरद्रिं᳚ रुज॒न्नङ्गि᳚रसो॒ रवे᳚ण ।
च॒क्रुर्दि॒वो बृ᳚ह॒तो गा॒तुम॒स्मे अह॒ः स्व᳚र्विविदुः के॒तुमु॒स्राः ॥
▶ पदपाठः (Word-by-word)
वी॒ळु । चि॒त् । दृ॒ळ्हा । पि॒तरः᳚ । नः॒ । उ॒क्थैः । अद्रि᳚म् । रु॒ज॒न् । अङ्गि᳚रसः । रवे᳚ण ।
च॒क्रुः । दि॒वः । बृ॒ह॒तः । गा॒तुम् । अ॒स्मे इति᳚ । अह॒रिति᳚ । स्वः᳚ । वि॒वि॒दुः॒ । के॒तुम् । उ॒स्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्माकं पितरोऽंगिरस एतत्संज्ञा उक्थैः शस्त्रेरग्निं स्तुत्वा वीळु चिद्दृळ्हा । वीळ्विति बलनाम । बलवंतं दृढांगमप्यद्रिमत्तारं पणिनामानमसुरं रवेण स्तुतिशब्दमात्रेणैव रुजन् । अभंजन् । तैः स्तुतोऽग्निस्तमसुरं हतवानित्यर्थः । किंच बृहतो महतो दिवो द्युलोकस्य गातुं मार्गमस्मे अस्माकं चक्रुः । कृतवंतः । अवरकस्यासुरस्याग्निना हतत्वात् । मार्गं कृत्वा च स्वः सुष्ठ्वरणीयमसुरराहित्येन सुखेन प्राप्यमहर्दिवसं विविदुः । अजानन् लब्धवंतो वा । तथा केतुमन्हां केतयितारं ज्ञापयितारमादित्यमुस्राः पणिनापहृाता गाश्च विविदुरित्यनुषंगः ॥ वीळु । सुपां सुलुगिति विभक्तेर्लुक् । दृळ्हा । दृढः स्थूलबलयोः (पा ७-२-२०) इति निपातितः । सुपां सुलुगिति डादेशः । रुजन् । रुजो भंगे । तौदादिकः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । विविदुः । विद ज्ञाने विद्लृलाभ इति वा । लिट्युसि रूपं ॥ २ ॥

1.71.3
दध᳚न्नृ॒तं ध॒नय᳚न्नस्य धी॒तिमादिद॒र्यो दि᳚धि॒ष्वो॒३॒᳚ विभृ᳚त्राः ।
अतृ᳚ष्यन्तीर॒पसो᳚ य॒न्त्यच्छा᳚ दे॒वाञ्जन्म॒ प्रय᳚सा व॒र्धय᳚न्तीः ॥
▶ पदपाठः (Word-by-word)
दध᳚न् । ऋ॒तम् । ध॒नय᳚न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । दि॒धि॒ष्वः᳚ । वि॑भृ᳚त्राः ।
अतृ᳚ष्यन्तीः । अ॒पसः᳚ । य॒न्ति॒ । अच्छ᳚ । दे॒वान् । जन्म᳚ । प्रय᳚सा । व॒र्धय᳚न्तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतं देवयजनदेशं प्राप्तमग्निमंगिरसो महर्षयो दधन् । गार्हपत्यादिरूपेणाधारयन् । धारयित्वा चास्याग्नेर्धीतिं कर्माग्निहोत्रादिलक्षणं धनयन् । धनमकुर्वन् । यथा पुरुषा धनं संपादयंति तद्वदग्नि देवत्यं कर्मान्वतिष्ठन्नित्यर्थः । आदित् अंगिरसामनुष्ठानानंतरमेवार्योऽर्या धनस्य स्वामिन्यो दिधिष्वस्तेन धनेन दिधिष्वोऽग्नीनां धारणं कुर्वत्यः । कृताग्न्याधाना इत्यर्थः । विभृत्रा आहितानग्नीनग्नि होत्रादिकर्मणि विहरंत्योऽतृष्यंतीर्विषयांतरतृष्टारहिता अत एवापसोऽपसा कर्मणा युक्ता एवंभूता यजमानलक्षणाः प्रजाः प्रयसा हविर्लक्षणेनान्नेन देवानिंद्रादीञ्जन्म जातान्मनुष्यांश्च वर्धयंतीर्वर्धयंत्यः सत्य एनमग्निमच्छाभिमुख्येन यंति । प्राप्नुवंति । परिचरंतीति यावत् ॥ दधन् । दध धारणे । लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धनयन् । धनशब्दात्तत्करोतीति णिच् । इष्ठवण्णौ प्रातिपदिकस्येतिष्ठवद्भावाट्टलोपः । लङि पूर्ववत् । अर्यः । अर्यः स्वामिवैश्ययोः (पा ३-१-१०३) इति निपातितः । लिंगवचनव्यत्ययौ । अर्यः स्वाम्याख्या चेत् (फि १-१८) इत्यंतोदात्तत्वम् । दिधिष्टः डुदाञ् धारणपोषणयोः षो अंतकर्मणीत्याभ्यामंदूदृं भूजंबूकफेलूकर्कंधूदिधिषूः (उ १-९५) इति कूप्रत्ययांतो निपातितः । प्रत्ययस्वरः । उदात्तस्वरितयोर्यण इति जसः स्वरितत्वम् । विभृत्राः । हृञ् हरणे । विपूर्वादस्मादौणादिकः क्त्रप्रत्ययः । हृग्रहोर्भ इति भत्वम् । अतृष्यंतीः । ञितृषा पिपासायाम् । जसि वा छंदसीति पूर्वसवर्णदीर्घस्य विकल्पितत्वात्वूर्वसवर्णदीर्घः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपसः । अपस् शब्दादुत्पन्नस्य मत्वर्थीयस्य विनो बहुलं छंदसीति बहुलवचनाल्लुक् (पा ५-२-१२२) विनंतस्य त्रिलिंगत्वेन नब्विषयत्वाभावात्प्रातिपदिकस्वरेणांतोदात्तत्वम् । जन्म । जायंत इति जन्मानो मनुष्याः । अन्येभ्योऽपि दृश्यंत इति मनिन् । सुपां सुलुगिति शसो लुक् ॥ ३ ॥

1.71.4
मथी॒द्यदीं॒ विभृ᳚तो मात॒रिश्वा᳚ गृ॒हेगृ᳚हे श्ये॒तो जेन्यो॒ भूत् ।
आदीं॒ राज्ञे॒ न सही᳚यसे॒ सचा॒ सन्ना दू॒त्यं१॒᳚ भृग᳚वाणो विवाय ॥
▶ पदपाठः (Word-by-word)
मथी᳚त् । यत् । ई॒म् । वि॑भृ᳚तः । मा॒त॒रिश्वा᳚ । गृ॒हे॑गृ᳚हे । श्ये॒तः । जेन्यः᳚ । भूत् ।
आत् । ई॒म् । राज्ञे᳚ । न । सही᳚यसे । सचा᳚ । सन् । आ । दू॒त्य᳚म् । भृग᳚वाणः । वि॒वा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातरिश्वा व्यानवृत्तिरूपेणावस्थितो मुख्यप्राण ईमेनमग्निं यद्यदा मथीत् अमथ्नात् । अग्नॆर्मंथनस्य व्यानवायुसाध्यत्वमथ यः प्राणापानयोः संधिः स व्यान इत्युपक्रम्य च्छंदोगैराम्नातम् । अतो यान्यन्यानि वीर्यवंति कर्माणि यथाग्नेर्मंथनमाजेः । सरणं दृढस्य धनुष अयमनमप्राणन्ननपानं स्तानि करोति । छां उ १-३-३ रिंद ५ । इति मंत्रांतरं च भवति । अन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः । ऋग्वे १-९३-६ । इति कीदृशोमातरिश्वा । विभृतः प्राणिषु प्राणापानादिपंचवृत्तिरूपेण विहृतो विभज्य स्थितः । तदपि प्राणसंवादे तैरेवाम्नातम् । तानरिष्टः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पंचधात्मानं प्रविभज्यैतत् वाणमवष्टभ्य विधारयामीति । मंथनेनोत्पन्नोऽयमग्निः श्वेतः शुभ्रवर्णो भूत्वा गृहे गृहे सर्वस्मिन्यज्ञ गृहे यदा जेन्यः प्रादुर्भूतो भूत् । यद्वा । रक्षसां जेन्यो जेताभिभविता भूत् । तथा च तैत्तिरीयकम् । देवासुराः संयत्ता असन् ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वासुरानभ्यभवन् । तै सं ६-२-२-६ । इति । ऐतरेयिणोऽप्यामनंति । ते देवा प्रतिबुध्याग्निं पुरुस्तात्प्रातःसवने पर्यौहंस्तेऽग्नि नैव पुरस्तात्प्रातः सवनेऽसुररक्षांस्यपाघ्न । ऐ ब्रा ६-४ । इति । अत् यज्ञगृहे प्रादुर्भावानंतरमीमेनमग्निं भृगवाणः । भृगुर्ऋषिः स इवाचरन्यजमानो दूत्यं दूतस्य कर्मा विवाय । शास्त्रमर्यादया प्रापयामास । तत्र दृष्टांतः । सचा सन् । सखाभवन्नन्यो राजा सहीयसेऽभिभिवित्रे प्रबलाय राज्ञे न । यथा राज्ञे स्वपुरुषं दूतकर्म प्रापयति तद्वत् ॥ मथीत् । मथे विलोडने । लुङि ह्म्यंतक्षणेति वृद्धिप्रतिषेधः । जेन्यः । जनी प्रादुर्भावे । अस्मादौणादिक एन्यप्रत्ययष्टिलोपश्चेति भट्वभास्करमिश्रः । यद्वा । जि जय इत्यस्मात्कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तर्यचो यदिति यत् । तस्य नुडागमश्च । यतोऽनाव इत्याद्युदात्तत्वम् । दूत्यम् । दूतस्य कर्म दूत्यम् । दूतस्य भागकर्मणी इति यत् । तित्स्वरित इति स्वरितत्वम् । यतोऽनाव इत्याद्युदात्तत्वं त्वनित्यमिति वीरवीर्यौ चेत्यत्र ज्ञापितम् । भृगवाणः । भृगुरिवाचरन् सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः । म ३-१-११-३ । इति वचनात् क्विप् । तदंताल्लटो व्यत्ययेन शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे प्रत्ययांतधातोरंतोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । विवाय । वी गत्यादिषु । अस्मादंतर्भावितण्यर्थाल्लिट् ॥ ४ ॥

1.71.5
म॒हे यत्पि॒त्र ईं॒ रसं᳚ दि॒वे करव᳚ त्सरत्पृश॒न्य᳚श्चिकि॒त्वान् ।
सृ॒जदस्ता᳚ धृष॒ता दि॒द्युम᳚स्मै॒ स्वायां᳚ दे॒वो दु᳚हि॒तरि॒ त्विषिं᳚ धात् ॥
▶ पदपाठः (Word-by-word)
म॒हे । यत् । पि॒त्रे । ई॒म् । रस᳚म् । दि॒वे । कः । अव᳚ । त्स॒र॒त् । पृ॒श॒न्यः᳚ । चि॒कि॒त्वान् ।
सृ॒जत् । अस्ता᳚ । धृ॒ष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया᳚म् । दे॒वः । दु॒हि॒तरि᳚ । त्विषि᳚म् । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महे महते पित्रे पालयित्रे दिवे द्योतमानाय देवगणायेमिमं रसं पृथिव्याः सारभूतं हविर्यद्यदा यजमानः कः करोति तदानीं पृशन्यः स्पर्शनकुशलो राक्षसादिश्चिकित्वान् हवींषि वहंतं हे अग्ने त्वां जानन् अव त्सरत् । त्वद्भयात्पलायते । अस्तेषुक्षेपणशीलोऽग्निर्धृषता धर्षकेण धनुषास्मै पलायमानाय राक्षसादये दिद्युं दीप्यमानं बाणं सृजत् । विसृजति । देवो दीप्यमान उषःकालं प्राप्तोऽग्निः स्वायां स्वकीयायां दुहितरि दुहितृवत्समनंतरभाविन्यामुषसि त्विषिं स्वकीयां दीप्तिं धात् । स्थापयति । उषःकाले हि सूर्यकिरणाः प्रादुर्भवंति । तैः स्वकीयं प्रकाशमेकीकरोति । तथा च तैत्तिरीयकम् । उद्यंतं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे । तै ब्रा २-१-२-१० । इति । अत उषसि दीप्तिं निदधातीत्युच्यते ॥ कः । करोतेर्लुङि मंत्रे घसेत्यादिना च्लेर्लुक् । त्सरत् । त्सर च्भद्मगतौ । लेट्यडागमः । इतश्चेतीकारलोपः । पृशन्यः । स्पृश संस्पर्शने । कृपृवृजीति (उ २-८१) विधीयमानः क्युप्रत्ययो बहुलवचनादस्मादपि भवति । स्पृशनं स्पर्शः । तत्र साधुरिति यत् । सलोपश्छांदसः । तित्स्वरितमिति स्वरितत्वम् । दिद्युम् । दिद्युदिति वज्रनाम । अंत्यलोपश्छादंसः । धात् । छांदसो वर्तमाने लुङ् ॥ ५ ॥

1.71.6
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो᳚ वा॒ दाशा᳚दुश॒तो अनु॒ द्यून् ।
वर्धो᳚ अग्ने॒ वयो᳚ अस्य द्वि॒बर्हा॒ यास᳚द्रा॒या स॒रथं॒ यं जु॒नासि᳚ ॥
▶ पदपाठः (Word-by-word)
स्वे । आ । यः । तुभ्य᳚म् । दमे᳚ । आ । वि॒॑भाति᳚ । नमः᳚ । वा॒ । दाशा᳚त् । उ॒श॒तः । अनु᳚ । द्यून् ।
वर्धः᳚ । अ॒ग्ने॒ । वयः᳚ । अ॒स्य॒ । द्वि॒॑बर्हाः᳚ । यास᳚त् । रा॒या । स॒॑रथ᳚म् । यम् । जु॒नासि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तुभ्यं त्वां स्वे दमे स्वकीये यज्ञ गृहे यो यजमानः । एक आकारो मर्यादायाम् । यथाशास्त्रमा विभाति आ समंतात्समिदादिभिः काष्ठैः प्रज्वलयति । अनु द्यून् अनुदिवसमुशतः कामायमानाय तुभ्यं नमो वा दाशात् हविर्लक्षणमन्नं वा दद्यात् । अस्य यजमानस्य हे अग्ने द्विबर्हा द्वयोर्मध्यमोत्तमस्थानयोर्वृंहितो वर्धितस्त्वं वयोऽन्नं वर्धो । वर्धयैव । सरथं रथेन सहितं युयुत्सुं यं पुरुषं जुनासि युद्धे प्रेरयसि स पुरुषो राया धनेन यासत् । संगच्छते ॥ तुभ्यम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । दाशात् । दाशृ दाने । लेट्याडागमः । उशतः । शतुरनुम इति विभक्तेरुदात्तत्वम् । चतुर्थ्यर्थे बहुलं छंदसीति षष्ठी । अनु द्यून् । द्युरित्यहर्नाम । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्त इति द्वितीया । वर्धो । वर्ध उ । वृधेर्ण्यंताल्लोट च्छंदस्युभयथेति शप आर्धधातु कत्वाण्णेरनिटीति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उञा सहैकादेश उञः (पा १-१-१७) इति प्रगृह्यत्वम् । यासत् । या प्रापण्धे । सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमः । जुनासि । जु इति गत्यर्थः सौत्रो धातुः । शपि प्राप्ते व्यत्ययेन श्ना ॥ ६ ॥

1.71.7 समानपद
अ॒ग्निं विश्वा᳚ अ॒भि पृक्ष᳚ः सचन्ते समु॒द्रं न स्र॒वतः᳚ स॒प्त य॒ह्वीः ।
न जा॒मिभि॒र्वि चि᳚किते॒ वयो᳚ नो वि॒दा दे॒वेषु॒ प्रम᳚तिं चिकि॒त्वान् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । विश्वाः᳚ । अ॒भि । पृक्षः᳚ । स॒च॒न्ते॒ । स॒मु॒द्रम् । न । स्र॒वतः᳚ । स॒प्त । य॒ह्वीः ।
न । जा॒मि॑भिः᳚ । वि । चि॒कि॒ते॒ । वयः᳚ । नः॒ । वि॒दाः । दे॒वेषु᳚ । प्र॑म᳚तिम् । चि॒कि॒त्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाः पृक्षश्चरुपुरोडाशादीनि सर्वाण्यन्नाग्निमंगनादिगुणयुक्त मेनमभि सचंते । अभिमुख्येन समवयंति । प्राप्नुवंति । तत्र दृष्टांतः । स्रवंतः समुद्रं न । यथा स्रवंत्यो नद्यः समुद्रमभिगच्छंति तद्वत् । कीदृश्यो नद्यः । सप्त सप्तसंख्याकाः । इमं मे गंग इत्यस्यामृचि सप्त हि नद्यः प्राधान्येन श्रूयंते । यह्वीः महन्नामैतत् । महत्यः । जमंत्येकस्मिन्पात्रे सह भुंजत इति जामयो ज्ञातयः । तैर्नोऽस्मदीयं वयोऽन्नं न वि चिकिते । न ज्ञायते । तेभ्यो दातुमस्माकमन्नं प्रभूतं नास्तीति भावः । अतो हे अग्ने त्वं देवेषु । दीव्यं तीति देवा धनपतयः । तेषु प्रमतिं प्रकर्षेण मननीयं धनं चिकित्वानवगच्छन्विदाः अस्मभ्यं लंभय । यद्वा । प्रमतिं प्रकृष्टं स्तोत्रं देवेषु विदाः । वेदय ज्ञापय ॥ पृक्षः अन्ननामैतत् । पृची संपर्क इत्यस्मादौणादिकः कर्मणि क्विप् धातोः षुगागमश्च । यद्वा । असुनि सुपां सुलुगिति जसो लुक् । स्रवतः । स्रुगतौ । स्रवणं स्रवः । तत्कुर्वंति । सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्य इति क्विप् । एतदंताद्धातोः क्विप्चेति क्विप् । ह्रस्वस्य पितीति तुक् । क्विबंताद्धातोः सति शिष्टत्वाद्धातुस्वरेणांतोदात्तत्वम् । यह्वीः । पिप्पल्यादिभ्यश्चेति गौरादिषु पठितत्वात्तस्य चाकृतिगणत्वादत्रापि ङीष् (पा ४-१-४१) वा छंदसीति पूर्वसवर्णदीर्घत्वम् । चिकिते । छांदसो वर्तमाने कर्मणि लिट् । विदाः । विद्लृलाभे । अंतर्भावितण्यर्थाल्लेट्याडागमः तुदादित्वाच्छः । आगमानुशासनस्यानित्यत्वान्नमभावः । विकरणस्वरः शिष्यते । यद्वा । विदेर्ज्ञानार्थस्य लेट व्यत्ययेन शः ॥ ७ ॥

1.71.8
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि᳚क्तं॒ द्यौर॒भीके᳚ ।
अ॒ग्निः शर्ध᳚मनव॒द्यं युवा᳚नं स्वा॒ध्यं᳚ जनयत्सू॒दय᳚च्च ॥
▶ पदपाठः (Word-by-word)
आ । यत् । इ॒षे । नृ॒॑पति᳚म् । तेजः᳚ । आन᳚ट् । शुचि᳚ । रेतः᳚ । नि॑सि᳚क्तम् । द्यौः । अ॒भीके᳚ ।
अ॒ग्निः । शर्ध᳚म् । अ॒न॒व॒द्यम् । युवा᳚नम् । सु॒॑आ॒ध्य᳚म् । ज॒न॒य॒त् । सू॒दय᳚त् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नेर्यत्तेजो नृपतिं नृणामृत्विजां पालकं यजमानमानट् जाठररूपेण आ समंताद्व्याप्नोत् । किमर्थम् । इष अन्नाय । कीदृशम् । शुचि शुद्धं द्यौर्दीप्तम् । तेन तेजसा परिपक्वमन्नं रसरूपं रेतो वीर्यमभीकेऽभ्यक्तेऽभिगतेऽभिप्राप्ते गर्भस्थाने निषिक्तं नितरां सिक्तमग्निर्वक्ष्यमूणगुणविशिष्टपुत्ररूपेण जनयत् । जनयतु । शर्धं बलवंतमनवद्यमवद्यरहितं युवानं तरुणम् । जरारहितमित्यर्थः । स्वाध्यं शोभनकर्माणं शोभनप्रज्ञं वोत्पन्नं पुत्रं सूदयच्च । यागादिकर्मसु प्रेरयतु च । यद्वा । रेत इत्युदकनाम । निषिक्तं मेघेन वृष्टमुदकमिषेऽन्नाय सस्यादिनिष्पत्तयेऽग्नेर्यत्तेज अनट् व्याप्नोत् । वृष्ट्युदकेन भौमाग्नेः संयोगे सति हि सस्यान्युत्पद्यंते । कीदृशं तेजः । नृपतिं नृणां रक्षकं शुचि दीप्तम् । तादृशेन तेजसा । युक्तो द्यौर्दीप्तोऽग्निरभीक आसन्नकाल एव शर्धादिगुणविशिष्टं पुत्रं जनयतु तं च प्रेरयतु यज्ञादौ ॥ इषे । सावेकाच इति विभक्तेरुदात्तत्वम् । नृपतिं परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । आनट् । अशू व्याप्तौ । लङिव्यत्ययेन परस्मैपदश्नमौ । आडागमः । व्रश्चादिषत्वे ष्टुत्वम् । निषिक्तम् । षिचिर् क्षरणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उपसर्गात्सुनोतीति षत्वम् । अभीके । अभिपूर्वादंचतेः पचाद्यचिपृषोदरादित्वा द्रूपसिद्धिः । यद्वा । इण् गतावित्यस्मादौणादिकः कक्प्रत्ययः । उभयथापि दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । स्वाध्यम् । एरनेकाच इति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । जनयत् । जनेर्ण्यंताल्लेट्यडागमः । सूदयत् । षूद क्षरणे पूर्ववल्लेट्यडागमः ॥ ८ ॥

1.71.9
मनो॒ न यो॑ध्व᳚नः स॒द्य एत्येकः᳚ स॒त्रा सूरो॒ वस्व᳚ ईशे ।
राजा᳚ना मि॒त्रावरु᳚णा सुपा॒णी गोषु᳚ प्रि॒यम॒मृतं॒ रक्ष᳚माणा ॥
▶ पदपाठः (Word-by-word)
मनः᳚ । न । यः । अध्व᳚नः । स॒द्यः । एति᳚ । एकः᳚ । स॒त्रा । सूरः᳚ । वस्वः᳚ । ई॒शे॒ ।
राजा᳚ना । मि॒त्रावरु᳚णा । सु॒पा॒णी इति᳚ सु॒॑पा॒णी । गोषु᳚ । प्रि॒यम् । अ॒मृत᳚म् । रक्ष᳚माणा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सूरः सूर्य एक एकाक्यसहायः सन्नध्वनो दिव्यान्मार्गान्सद्य एति आशु गच्छति । असहायत्वं च श्रूयते । सूर्य एकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरतीति । तै । ब्रा । ३-९-५-४ । शीघ्रगमनं च स्मर्यते । योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु त इति । शीघ्रगमने दृष्टांतः । मनो न । यथा मनः शीघ्रं गच्छति तद्वत् । स च शूरो वस्वो धनस्य सत्रा सहैव युगपदेवेशे । ईष्टे । यो हि शीघ्रं गच्छति स बहुदेशेष्टवस्थितानि धनानि प्राप्नोति । तथा राजाना राजमानौ सुपाणी शोभनबाहू मित्रावरुणा मित्रावरुणावस्मदीयासु गोषु प्रियं सर्वेषां प्रीतिकरममृतममृतवत्स्वादुभूतं पयो रक्षमाणा रक्षंतौ वर्तेते । हे अग्ने तत्तद्रूपेण त्वमेवैवं वर्तस इति भावः ॥ वस्वः । लिंगव्यत्ययः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । ईशे । ईश ऐश्वर्ये । लोपस्त आत्मनेपदेष्विति तलोपः । मित्रावरुणा । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वं ॥ ९ ॥

1.71.10
मा नो᳚ अग्ने स॒ख्या पित्र्या᳚णि॒ प्र म᳚र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
नभो॒ न रू॒पं ज᳚रि॒मा मि᳚नाति पु॒रा तस्या᳚ अ॒भिश᳚स्ते॒रधी᳚हि ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒ग्ने॒ । स॒ख्या । पित्र्या᳚णि । प्र । म॒र्षि॒ष्ठाः॒ । अ॒भि । वि॒दुः । क॒विः । सन् ।
नभः᳚ । न । रू॒पम् । ज॒रि॒मा । मि॒ना॒ति॒ । पु॒रा । तस्याः᳚ । अ॒भि॑श᳚स्तेः । अधि᳚ । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पित्र्याणि पितरं वसिष्ठमुपक्रम्यागतानि सख्या सखित्वानि माप्र मर्षिष्ठाः । मा विनाशय । अत्र मृष्यतेरुपसर्गवशादर्थांतरे वृत्तिः । यतस्त्वं कविः क्रांतदर्शी सन् अभ्याभिमुख्येन विदुः सर्वं विद्वान् । नभो न रूपम् । यथांतरिक्षं रूपवंत सूर्यरश्मय अच्छादयंति तद्वदाच्छादयति । जरिमा जरा मिनाति । मां सूक्तद्रष्टारं हिनस्ति । अभिशस्तेर्हिंसाहेतोस्तस्या जराया पुराधीहि । मां बुध्यस्व । सा यथा न प्राप्नोति तथा कुरु । अमृतत्वं प्रयच्छेति यावत् ॥ सख्या । सख्युर्भावः सख्यम् । सख्युर्य इति यः । पित्र्याणि । पितृभ्य आगतानि । पितुर्यच्च (पा ४-३-७९) इति यत्प्रत्ययः । रीङृतः (पा ७-४-२७) इति रीङादेशः । यस्येति चेतीकारलोपः । यतोऽनाव इत्याद्युदात्तत्वम् । मर्षिष्ठाः । मृषतितिक्षायाम् । प्रार्थनायां छांदसो लुङ् । न माङ्योग इत्यडभावः । विदुः । विद ज्ञाने । बहुलमन्यत्रापीत्युसिप्रत्ययः । अत एव बहुलवचनाद्गुणा भावः । छंदसि वाप्राम्रेडितयोः (पा ८-३-४९) इति विसर्जनीयस्य षत्वम् । नभः नहेर्दिवि भश्च (उ ४-२१०) इत्यसुन् । जरिमा । जृष् वयोहासौ । औणादिको भाव इमनिच् प्रत्ययः । मिनाति । मीञ् हिंसायाम् । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । अभिशस्तेः । अभिशस्यते हिंस्यतेऽनयेत्यभिशस्तिः । करणे क्तिन् । तदौ चेति गतेः प्रकृतिस्वरत्वम् । अधीहि । इक् स्मरणे । लोट्यदादित्वाच्छपो लुक् । हेरपित्त्वेन ङित्त्वाद्गुणाभावः ॥ १० ॥