प्रथमं मण्डलम् - सूक्तम् 17

9 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: इंद्रावरुणौ छन्दः: गायत्री

सूक्तम् 1.17 - सम्पूर्णम्

1 / 9
ऋक्: 1.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.17.1
इन्द्रा॒वरु᳚णयोर॒हं स॒म्राजो॒रव॒ आ वृ᳚णे ।
ता नो᳚ मृळात ई॒दृशे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा॒वरु᳚णयोः । अ॒हम् । स॒म्॑राजोः᳚ । अवः᳚ । आ । वृ॒णे॒ ।
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमनुष्ठाता सम्राजोः समीचीनराज्योपेतयोः सम्यग्दीप्यमानयोर्वेंद्रावरुणयोर्देवयोः संबंध्यवो रक्षणमा वृणे । सर्वतः प्रार्थये । ता तौ देवावीदृशे एवंविधेऽस्मदीयवरणे निमित्तभूते सति मृळातः । अस्मान्सुखयतः ॥ इंद्रशब्दो रन्प्रत्ययांतः । वरुणशब्द उनन्प्रत्ययांतः । उभौ नित्त्वादाद्युदात्तौ । समासे देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । उभे युगपदित्यनुपृत्तौ देवताद्वंद्वे चेति युगपदुभयपद प्रकृतिस्वरत्वम् । सम्राजोः । राजृ दीप्तौ । सत्सूद्विषेत्यादिना क्विप् । समो मोऽनुस्वारः (पा ८-३-२३) इत्यनुस्वारे प्राप्ते मोराजि समः क्वौ (पा ८-३-२५) इति मकारादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । कर्तृकर्मणोः कृति (पा २-३-६५) इति कर्तरि षष्ठी । अवः । अव रक्षणादिषु । भावेऽसुन् नित्त्वादाद्युदात्तः । ता । सुपां सुलुगित्यादिना द्विवचनस्य डादेशः । टलोपे विभक्तेरुदात्तनिवृत्तिस्वरः । मृळातः । मृड सुखने । प्रार्थनायां लिङर्थे लेट् । द्विवचनं तस् । लेटोऽडाटावित्याडागमः । तुदादिभ्यः शः । ङित्त्वाल्लघूपधगुणाभावः । ईदृशे । त्यदादिषु दृशोऽनालोचने कञ् च (पा ३-२-६०) इतीदंशब्द उपपदे दृशेः कञ् । उपपदसमास इदंकिमोरीश्की (पा ६-३-९०) इतीदम ईश् । शित्त्वात्सर्वादेशः । कञः कित्त्वाद्गुणाभावः । ञित्त्वादुत्तरपदस्याद्युदात्तत्वम् । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते ॥ १ ॥

1.17.2
गन्ता᳚रा॒ हि स्थो॑व᳚से॒ हवं॒ विप्र᳚स्य॒ माव᳚तः ।
ध॒र्तारा᳚ चर्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
गन्ता᳚रा । हि । स्थः । अव᳚से । हव᳚म् । विप्र᳚स्य । मा॑व᳚तः ।
ध॒र्तारा᳚ । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्रावरुणौ अवसेऽवितुमनुष्ठातारं रक्षितुं मावतो मद्विधस्य विप्रस्य ब्राह्मणर्त्विजो हवमाह्वानं गंतारौ स्थो हि । प्राप्ति शीलौ भवथः खलु । कीदृशौ । चर्षणीनां मनुष्याणां धर्तारौ योगक्षेमसंपादनेन धारयितारौ ॥ गंतारा । गमेस्ताच्छील्ये तृन् । द्विवचनस्य सुपां सुलुगित्यादिनाकारादेशः । ऋदृशोऽङि गुणः (पा ७-४-१६) अप्तृन्नित्यादिनोपधादीर्घत्वम् । तृमो नित्त्वादाद्युदात्तत्वम् । स्थः । अस भुवि । लङ् मध्यमपुरुषद्विवचनं थस् । अदिप्रभृतिभ्यः शप इति शपो लुक् हि चेति निघातप्रतिषेधः । अवसे । अव रक्षणे । तुमर्थे सेसेन्नित्यसेन् (पा ३-४-९) नित्त्वादाद्युदात्तः । हवम् । ह्वेञो बहुलं छंदसीत्यनैमित्तिके संप्रसारणे परपूर्वत्वे च ऋूदोरबित्यप् । गुणावादेशौ । अपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । विप्रस्य । डुवर् बीजतंतुसंताने । अस्य ऋज्रेंद्रेत्यादिना रन् निपातितः । नित्त्वादाद्युदात्तः । मावतः । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । वतुप् । प्रत्ययोत्तरपदयोरस्मदो मपर्यंतस्य मादेशः (पा ७-२-९८) आ सर्वनाम्नः (पा ६-३-९१) इति दकारस्याकारः । सवर्णदीर्घः मतुपः पित्त्वादनुदात्तत्वम् । प्रातिपदिकांतोदात्तत्वे स एव शिष्यते । धर्तारा । धृञ् धारणे । ण्वुल्तृचौ (पा ३-१-१३३) इति तृच् । एकाच उपदेश इतीट् प्रतिषेधः गुणो रपरत्वम् । अप्तृन्नित्यादिनोपधादीर्घः । सुपां सुलुगित्याकारः । तृचश्चित्त्वा दंतोदात्तत्वम् । चर्षणीनाम् । कृषेरादेश्चचः (उ २-१०५) इत्यनिप्रत्ययः । तत्संनि योगेन ककारस्य चकारः । प्रत्ययाद्युदात्तत्वं बाधित्वा छांदसमंतोदात्तत्वम् । अत एव नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । तत्र हि मतुपि यो ह्रस्वांतस्तत उत्तरस्य नाम उदात्तत्वमिति व्याख्यातं ॥ २ ॥

1.17.3
अ॒नु॒का॒मं त᳚र्पयेथा॒मिन्द्रा᳚वरुण रा॒य आ ।
ता वां॒ नेदि᳚ष्ठमीमहे ॥
▶ पदपाठः (Word-by-word)
अ॒नु॒॑का॒मम् । त॒र्प॒ये॒था॒म् । इन्द्रा᳚वरुणा । रा॒यः । आ ।
ता । वा॒म् । नेदि᳚ष्ठम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रावरुणा हे इंद्रावरुणौ अनुकाममस्मदीयाभिलाषमनु रायो धनस्यप्रदानेना तर्पयेथाम् । सर्वतोऽस्मांस्तृप्तान् कुरुतम् । वयं यदा यदा धनं कामयामहे तदा तदा प्रयच्छतमित्यर्थः । ता वां तादृशौ युवां नेदिष्ठमतिशयेन सामीप्यं यथा भवति तथा ईमहे । याचामहे कालविलंबमंतरेण धनं दातव्यमित्यर्थः । सप्तदशसु या च्ञा कर्मस्वीमह इति पठितं ॥ अनुकामम् । कामस्य पश्चादनुकामम् । अथवा कामे कामेऽनुकामम् । अनुरिह पश्चादर्थे । अथवा वीप्सालक्षणे यथार्थे । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति चत्वारो हि यथार्था गृहीताः । अव्ययं विभक्तीत्यादिना (पा २-१-६) अव्ययीभावसमासः । अव्ययीभावश्च (पा १-१-४१) इत्यव्ययसंज्ञायामप्ययादाप्सुपः (पा २-४-८२) इति प्राप्तसै लुकोऽपवादो नाव्ययीभावादतोऽम् । त्वपंचम्याः (पा २-४-८३) इति विभक्तेरमादेशः । समासस्येत्यंतोदात्तत्वम् । तर्पयेथाम् । तृपर्ण्यंताल्लोटो णिचश्च (पा १-३-७४) इत्यात्मनेपदम् । मध्यमद्विवचनमाथाम् । टेरेत्वं आमेतः ॥ पा ३-४-९० । इत्यामादेशः । शपि सत्यतोयेयः (पा ७-२-८०) इत्वाकारस्येयादेशः । आद्गुणो यलोपश्च । इंद्रावरुणा । सुपां सुलुगिति द्विवचनस्याकारः । आमंत्रिताद्युदात्तत्वम् । संहितायामाकारस्य ह्रस्वत्वम् । रायः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ता । सुपां सुलुगिति विभक्तेराकारः । पदात्परत्वाद्युवामित्यस्य वामादेशोऽनुदात्तः । नेदिष्ठम् । अतिशयेनांतिकम् । अतिशायन इष्ठन् । अंतिकवाढयोर्नेदसाधौ (पा ५-३-६३) इति नेदादेशः । यस्येति लोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ई महे । ईङ् गतौ । ङित्त्वादात्मनेपदम् । बहुलं छंदसीति श्शनो लुक् । निघातः ॥ ३ ॥

1.17.4
यु॒वाकु॒ हि शची᳚नां यु॒वाकु᳚ सुमती॒नाम् ।
भू॒याम᳚ वाज॒दाव्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
यु॒वाकु᳚ । हि । शची᳚नाम् । यु॒वाकु᳚ । सु॒॑म॒ती॒नाम् ।
भू॒याम᳚ । वा॒ज॒दाव्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हि यस्मात्कारणाच्छचीनामस्मदीयकर्मणां संबंधि सोमरूपं हर्वियु वाकु वसतीवर्येकधनात्मकैरुदकैः पयः सक्त्वादिद्रव्यांतरैश्च मिश्रितम् । तथा सुमतीनां शोभनबुद्धियुक्तानामृत्विजां स्तोत्ररूपं वचनरूपि युवाकु नानाविधैः स्तुत्यगुर्णैर्मिश्रितम् । तस्मात्कारणात् हे इंद्रावरुणौ तथाविधं हविः स्वीकुर्वतोर्युवयोः प्रसादाद्वयं वाजदान्नामन्नप्रदानां पुरुषाणां मध्ये मुखा भूयाम । भवेम । अपोऽप्न इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शचीशमीति पठितं ॥ युवाकु । यु मिश्रणे । कटकुषिभ्यां काकुः (उ ३-७७) इत्यत्र बाहुलकाद्यौतेरपि काकुः प्रत्ययः । कित्वेन गुणाभावादुकारस्योवङादेशः । प्रत्ययस्वरेण मध्योदात्तत्वम् । शचीशब्दः केषांचिन्मते शार्ङ्गरवादिः । ङीनंतो नित्त्वादाद्युदात्तः (पा ४-१-७३) इत्युभे वनस्पत्यादिषु युगपदित्यत्र । का ६-२-१४० । वृत्तिकृतोक्तम् । सुमतीनाम् । विद्याम सुमतीनाम् । ऋग्वे १-४-३ । इत्यत्रोक्तम् । भूयाम । प्रार्थनायां लिङ् । उत्तमबहुवचने नित्यं ङित इति सकारलोपः । यासुट् परस्मैपदेषूदात्तो ङिच्च (पा ३-४-१०३) इत्यादात्तो यासुडागमः । लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सकार लोपः । बहुलं छंदसीति शपो लुक् । सति शिष्टत्वाद्यासुडुदात्त एव शिष्यते । वाजदाव्नाम् । वाजं ददातीति वाजदावानः । आतो मनि न्नित्यादिन् वनिप् । तस्य पित्त्वाद्धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । आम्यल्लोपोऽनः (पा ६-४-१३४) इत्यकारलोपः । तस्याचः परस्मिन्निति स्थानिवद्भावाल्लोपो व्योर्वलीति वकारलोपो न भवति ॥ ४ ॥

1.17.5
इन्द्र᳚ः सहस्र॒दाव्नां॒ वरु᳚ण॒ः शंस्या᳚नाम् ।
क्रतु᳚र्भवत्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । स॒ह॒स्र॒॑दाव्ना᳚म् । वरु᳚णः । शंस्या᳚नाम् ।
क्रतुः᳚ । भ॒व॒ति॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिंद्रः सहस्रदाव्नां सहस्रसंख्या कधनप्रदानां मध्ये क्रतुर्धनदानस्य कर्ता भवति । प्रभूतं ददातीत्यर्थः । तथा वरुणः शंस्यानां स्तुत्यानां मध्य उक्ध्यः स्तुत्यो भवति । अतिशयेन स्तुत्य इत्यर्थः ॥ वरुणः उनन्प्रत्ययो नित्त्वादा । द्युदात्तः । शंस्यानाम् । शन्सु स्तुतौ । ऋहलोर्ण्यत् । तिस्स्वरित मिति प्राप्त ईडमद वृशंसदुहां ण्यत इत्याद्युदात्तः । क्रतुः । कृञः कतुः (उ १-७८) इति कतुः । कित्त्वाद्गुणाभावे यणादेशः । प्रत्ययस्वरेणाद्युदात्तः । उक्थ्यः । उक्ध्यं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छंदसि (पा ४-४-११०) इति यत् । यस्येति लोपः । अत्र तित्स्वरितमित्येतद्बाधित्वा तीर्थ्याय कूप्यायेत्यादिवत् द्व्यच् त्वाद्यतोऽनाव इति प्राप्तमाद्युदात्तत्वम् । सर्वे विधयश्छंदसि विकल्प्यंत इति न क्रियते । ननु यस्येति लोपात्प्रागेव तित्स्विरितत्वमस्तु न हि तदा यतोऽनाव इत्येतदस्तिद्व्यच् त्वाभावात् । अत एव ह्यूर्म्याय च सूर्म्याय चेत्यादौ स्वरितत्वं दृश्यते । न च परत्वान्नित्यत्वाच्च यस्येति लोपेन प्रथमतो भाव्यमिति वाच्यम् । प्रकृतिप्रत्ययाश्रयाद्बहिरंगाद्यस्येति लोपात्प्रत्ययमात्राश्रयतयांतरंगत्वेन तित्स्वरितमित्येतस्य प्राबल्यात् । अत ऊर्म्यायेत्यादिवदुक्थ्य इत्यत्रापि लक्षणत एव स्वरितत्वं भविष्यतीति । किं छांदस्येन । यत्र हि लोपमंतरेणैव द्व्यच् त्वं तत्र यतोऽनाव इत्येतद्भवति । यथा चीयं येयमिति । लोपनिबंधनद्व्यच् त्वप्रदेशेषु तु स्वरितेनैव भवितव्यमिति । एवं तर्हि तीर्थ्याय कूप्यायेत्यादौ यदाद्युदात्तत्वं तदेव छांदसमस्तु अथात्र तु वर्णादांगं बलीयः । परि ५५ । इत्यंतरंगत्वेऽपि स्वरितत्वं बाधित्वा लोप एव भविष्यति । तर्ह्युक्थ्य ऊर्म्याय सूर्म्यायेत्यादौ च छांदस्यमस्तु । सर्वथैकत्र छांदस्यान्न मुच्यते ॥ ३२ ॥ ५ ॥

1.17.6
तयो॒रिदव᳚सा व॒यं स॒नेम॒ नि च᳚ धीमहि ।
स्यादु॒त प्र॒रेच᳚नम् ॥
▶ पदपाठः (Word-by-word)
तयोः᳚ । इत् । अव᳚सा । व॒यम् । स॒नेम᳚ । नि । च॒ । धी॒म॒हि॒ ।
स्यात् । उ॒त । प्र॒॑रेच᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तयोरित्पूर्वोक्तयोरिंद्रावरुणयोरेवावसा रक्षणेन वयमनुष्ठातारः सनेम । संभजेम धनमिति शेषः । नि धीमहि च । प्राप्ते धने यावदपेक्षितं तावद्भुक्त्वाततोऽवशिष्ठ धनं क्वचिन्निधिरूपेण स्थापयामश्च । उतापि च प्रेरेचनं भुक्तान्निहिताच्च प्रकर्षेणाधिकं धनं स्यात् । संपद्यतां ॥ अवसा । असुन् । नित्त्वादाद्युदात्तः । वयम् । यूयं हि ष्ठा । ऋग्वे । १-१५-२ । इत्यत्र यदुक्तं तदत्र द्रष्वव्यम् । सनेम । आशिषि लिङ् । तस्य मस् । नित्यं ङित इति सकार लोपः । किदाशिषि (पा ३-४-१०४) इति यासुट् । छंदस्युभयथेति सार्वधातुकमप्यस्तीति लिङः सलोपोऽनंत्यस्येति सकारलोपः । अतो येय इतीयादेशः । लोपो व्योर्वलीति यलोपः । लङ्याशिष्यङ् (पा ३-१-८६) इत्यङ् । आद्गुणः । पादादित्वान्न निघातः । धीमहि । डुधाञ् धारणपोषणयोः । आशिषि लिङो महिङ् । तस्य छंदस्युभयथेति सार्वधातुकार्धधातुकसंज्ञे । तत्र सार्वधातुकत्वेन लिङः सलोपोऽनंत्यस्येति सकारलोपः । सार्वधातुकमपिदिति ङित्वं शप् च बहुलं छंदसीतिजुहोत्यादेरपि शपो लुक् । आर्धधातुकत्वादातो लोप इट च (पा ६-४-६४) इत्याकारलोपः । निघातः । सनेमेत्यपेक्षया द्वितीयत्वादत्र चवायोगे प्रथमेति न निषेधः । स्यात् । अस्तेः । प्रार्थनायां लिङ् । तिप् । इतश्चेतीकार लोपः । यासुट् परस्मैपदेषूदात्तो ङिच्चेति यासुड् ङित्त्वे । अदिप्रभृतिभ्यः शपः इति शपो लुक् । श्नसोरल्लोप इत्यकारलोपः । पादादित्वादनिघातः । उत । एवमादीनामंत इत्यंतोदात्तः । इत्याकारलोपः । निघातः । सनेमेत्यपेक्षया द्वितीयत्वादत्र चवायोगे प्रथमेति न निषेधः । स्यात् । अस्तेः । प्रार्थनायां लिङ् । तिप् । इतश्चेतीकार लोपः । यासुट् परस्मैपदेषूदात्तो ङिच्चेति यासुड् ङित्त्वे । अदि प्रभृतिभ्यः शप इति शपो लुक् । श्नसोरल्लोप इत्यकारलोपः । पादादित्वादनिघातः । उत । एवमादीनामंत इत्यंतोदात्तः । प्ररेचनम् । रिचिर् विरेचने । भावे ल्युट् । योरनादेशः । लितीशि प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

1.17.7
इन्द्रा᳚वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध᳚से ।
अ॒स्मान्त्सु जि॒ग्युष᳚स्कृतम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । वा॒म् । अ॒हम् । हु॒वे । चि॒त्राय᳚ । राध᳚से ।
अ॒स्मान् । सु । जि॒ग्युषः᳚ । कृ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रावरुणा हे इंद्रावरुणौ वां युवामुभावहं हुवे । आह्वयामि । किमर्थम् । चित्राय मणिमुक्तादिरूपेण विविधाय राधसे धनाय । तत आहुतौ युवामस्माननुष्ठातृन् सु जिग्युषः । शत्रुविषये सुष्ठु जययुक्तान् कृतं कुरुतं ॥ इंद्रावरुणा । सुपां सुलुगित्यादिना संबोधनस्याकारः । देवताद्वंद्वे चेति पूर्वपदस्यानङ् । आमंत्रिताद्युदात्तत्वम् । संहितायां छांदसं ह्रस्वत्वम् । हुवे । हूयतेर्लुङुत्तमैकवचनमिट् । शप इत्यनुवृत्तौ बहुलं छंदसीति लुक् । हू इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । अचि श्नुधात्वित्यादिनोवङ् (पा ६-४-७७) न च हुश्नुवोरित्यादिना (पा ६-४-८७) यणादेशः । जुहोतेरेव हि प्रतिपदोक्तस्य तत् । न पुनरस्य लाक्षणिकत्वात् । इटः प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वान्ननिघातः । राधसे । असुन् । नित्त्वादाद्युदात्तत्वम् । अस्मान् । शसि द्वितीयायां च (पा ७-२-८७) इत्यात्वम् । शसो नः (पा ७-१-२९) इति नत्वम् । जिग्युषः । जि जये । लिटः क्वसुश्चेति क्वसुः । द्विर्भावः । सन् लिटोर्जेः पा ७-३-५७ । इति द्वितीयस्य कुत्वम् । क्वसोः कित्त्वाद्गुणाभावः क्रादिनियमात्प्राप्तस्येटो वस्वेकाचाद्घसामिति नियमेन निवृत्तिः । द्वितीया बहुवचनं शस् । भसंज्ञायां वसोः संप्रसारणिति संप्रसारणम् । परपूर्वत्वम् । एरनेकाच इति यणादेशः । शासिवसिघसीनां चेति षत्वम् । प्रत्ययस्वरेणोकार उदात्तः । कृतम् । डुकृञ् करणे । लोण्मध्यमद्विवचनस्य लङ्वद्भावात्तमादेशः । शपो बहुलं छंदसीति लुक् । तिङ्ङतिङ इति निघातः ॥ ७ ॥

1.17.8
इन्द्रा᳚वरुण॒ नू नु वां॒ सिषा᳚सन्तीषु धी॒ष्वा ।
अ॒स्मभ्यं॒ शर्म᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । नु । नु । वा॒म् । सिसा᳚सन्तीषु । धी॒षु । आ ।
अ॒स्मभ्य᳚म् । शर्म᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रावरुणा हे इंद्रावरुणौ धीष्वस्मदीयबुद्धिषु वां युवां सिषासंतीषु सनितुं संभक्तुं सम्यक् सेवितुमिच्छंतीषु तदानीमासमंतादस्मभ्यं शर्म सुखं नू नु अतिशयेन क्षिप्रं यच्छतम् । दत्तम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसुनु मक्ष्विति पठितम् । तस्य द्विरावृत्तिबलादतिशयो लभ्यते ॥ इंद्रावरुणा । उक्तम् । नूनु । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । पा । ६-३-१३३ । इति पूर्वस्य दीर्घत्वम् । सिषासंतीषु । वन षण संभक्तौ । धात्वादेः षः सः । इच्छायां सन् । द्विर्भावो हलादिशेषः । सन्यत इतीत्वम् । आदेशप्रत्यययोरिति षत्वम् । सनीवंतेत्यादिना (पा ६-४-४२) इति नकारस्याकारः । उपरि लटः शतृ । कर्तरि शप् । उगितश्चेति ङीप् । शप् श्शनोर्नित्यम् (पा ७-१-८१) इति नुम् । ङीपः शपश्च पित्त्वाच्छतुश्च लसार्वधातुकत्वेनानुदात्तत्वम् । सनो नित्त्वादाद्शुदात्तत्वम् । तदेव शिष्यते । धीषु । सावेकाच इति विभक्तेरुदात्तत्वम् । अस्मभ्यम् । अस्मभ्यमप्रतिष्कुतः । ऋग्वे १-७-६ । इत्य त्रोक्तम् । यच्चतम् । दाण् दाने । शपि पाघ्रेत्यादिना यच्छादेशः ॥ ८ ॥

1.17.9
प्र वा᳚मश्नोतु सुष्टु॒तिरिन्द्रा᳚वरुण॒ यां हु॒वे ।
यामृ॒धाथे᳚ स॒धस्तु᳚तिम् ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । अ॒श्नो॒तु॒ । सु॑स्तु॒तिः । इन्द्रा᳚वरुणा । याम् । हु॒वे ।
याम् । ऋ॒धाथे᳚ इति᳚ । स॒ध॑स्तु᳚तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रावरुणा हे इंद्रावरुणौ यामस्मत्कर्तृकां शोभनस्तुतिं प्रति हुवे युवामुभावाह्वयामि । किंच सधस्तुतिं युवयोरुभयोः साहित्येन क्रियमाणायाः । स्तवक्रियाया यां सुष्टुतिं प्रतिलभ्य ऋधाथे युवां वर्धाथे । तादृशी सुष्टुतिः शोभनस्तुतिहेतुभूत ऋक्समूहो वामश्नोतु । युवा व्याप्नोतु ॥ अश्नोतु । अशू व्याप्तौ । लोटो व्यत्ययेन तिप् । स्वादिभ्यः श्नुः । सुष्टुतिः न विंधे अस्य सुष्टुतिम् । ऋग्वे १-७-७ । इत्यत्रोक्तम् । इंद्रावरुणा । हुवे । उक्ते । अत्र तु यद्वृत्तयोगान्न निघातः । ऋधाथे । ऋधु वृद्धौ । लट् । व्यत्ययेनात्मनेपदम् । मध्यमद्विवचने श्नोर्बहुलं छंदसीति लुक् । प्रत्ययस्वरेणाकार उदात्तः । यच्छब्गयोगान्न निघातः । सधस्तुतिम् । सह स्तुतिर्यस्यां सुष्टुतौ सा सधस्तुतिः । अत्र सुष्टुतिरित्यन्यपदार्थे स्तुतिशब्दस्य स्तूयतेऽनयति करणसाधनत्वेन ऋक्परत्वेऽयं स्तुतिशब्दो भावसाधनतया स्तवनक्रियापरः । तस्मिन्भावसाधनत्वेन क्रियापरेऽयं करणसाधनतया ऋक्पर इति समस्यमानपदार्थादन्यः सहेत्यत्र हकारस्य व्यत्ययेन धकारः । सहशब्द एवमादित्वादंतोदात्तः । बहुव्रीहित्वेन पूर्वपदप्रकृतिस्वरत्वं ॥ ३३ ॥ ४ ॥ ९ ॥