प्रथमं मण्डलम् - सूक्तम् 95

11 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: अग्निरग्निरौषस्योवा छन्दः: त्रिष्टुप्

सूक्तम् 1.95 - सम्पूर्णम्

1 / 11
ऋक्: 1.95.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.95.1 समानपद
द्वे विरू᳚पे चरत॒ः स्वर्थे᳚ अ॒न्यान्या᳚ व॒त्समुप᳚ धापयेते ।
हरि᳚र॒न्यस्यां॒ भव᳚ति स्व॒धावा᳚ञ्छु॒क्रो अ॒न्यस्यां᳚ ददृशे सु॒वर्चा᳚ः ॥
▶ पदपाठः (Word-by-word)
द्वे इति᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । च॒र॒तः॒ । स्वर्थे॒ इति᳚ सु॒॑अर्थे᳚ । अ॒न्या॑अ᳚न्या । व॒त्सम् । उप᳚ । धा॒प॒ये॒ते॒ इति᳚ ।
हरिः᳚ । अ॒न्यस्या᳚म् । भव᳚ति । स्व॒धा॑वा᳚न् । शु॒क्रः । अ॒न्यस्या᳚म् । द॒दृ॒शे॒ । सु॒॑वर्चाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वर्थे स्वरणे शोभनगमनागमने । यद्वा । अर्थः प्रयोजनम् । शोभनप्रयोजनोपेते विरूपे विषमरूपे शुक्लकृष्णतया नानारूपे द्वे अहोरात्रे चरतः । पुनःपुनः पर्यावर्तेते । ते चाहोरात्रे अग्नेः सूर्यस्य च जनन्यौ । तत्र रात्रेः पुत्रः सूर्यः । स हि गर्भवद्रात्रावंतर्हितः सन् तस्याश्चरमभागादुत्पद्यते । अह्नः पुत्रोऽग्निः । स हि तत्र विद्यमानोऽपि प्रकाशराहित्येनासत्कल्पः सन् तस्मादह्नः सकाशान्निर्मुक्तः प्रकाशमानं स्वात्मानं लभते । अनयोरेतयोः पुत्रत्वं च तैत्तिरीयैराम्नायते । तयोरेतौ वत्सौ । अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । ताम्रो अरुण इति । ते चाहोरात्रे वत्सं स्वं स्वं पुत्र मन्यान्या परस्परव्यतिहारेणोप धापयेते । स्वकीयं रसं पाययतः । यद्रात्र्या कर्तव्यं स्वपुत्रस्यादित्यस्य रसस्य पायनं तदहः करोति । यदह्ना कर्तव्यं स्वपुत्रस्याग्ने रसस्य पायनं तद्रात्रिः करोति । एतच्च सायंप्रातःकालीनाहुत्यभिप्रायम् । श्रूयते च । तस्मा अग्नये सायं हूयते । सूर्याय प्रातरिति । यस्मादेवम् । तस्मादन्यस्यां स्वजनन्या अन्यस्यामहरात्मिकायामग्नेर्जनन्यां हरी रसहरणशील आदित्यः स्वधावान् हविर्लक्षणान्नवान्भवति । शुक्रो निर्मलदीप्तिरग्निः स्वजनन्यां अन्यस्यां रात्र्यामादित्यस्य जनन्यां सुवर्चाः शोभनदीप्तियुक्तः सन्धदृशे । दृश्यते ॥ स्वर्थे । ऋ गतौ । उषिकुषिगार्तिभ्यस्थन्निति भावे कर्मणि वा थन्प्रत्ययः नित्त्वादाद्युदात्तत्वम् । शोभनोऽर्थो ययोस्ते । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यम् । समासवच्च बहुलम् । म ८-१-१२-११ । इति द्विर्भावः । बहुलग्रहणात्समासवद्भावाभावे तस्य परमाम्रेडितमिति परस्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । धापयेते । धेट् पाने । आदेच इत्यात्वम् । ततो हेतुमति णिच् । अर्तिह्रीत्यादिना (पा ७-३-३६) धातोः पुगागमः । तत्र हि लक्षणप्रतिपदोक्तपरिभाषा नास्तीति ज्ञापितं शाछासाह्वाव्येति कृतत्वानां निर्देशेन । स हि युक् प्राप्तिख्यापनार्थः । यदि तत्र लक्षणप्रतिपदोक्तपरिभाषया पुग्न प्राप्नोति सोऽनर्थकः स्यात् । तस्मादध्यापयतीत्यादाविव धापयेते इत्यत्रापि पुगागमः सिद्धः । निगरणचलनार्थेभ्यश्च । पा सू १-३-८७ । इति प्राप्तस्य परस्मैपदस्य पादिषु धेट उपसंख्यानम् । पा १-३-८९-१ । इति प्रतिषेधादात्मनेपदम् । हरिः । हृञ् हरणे । औणादिक इन्प्रत्ययः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । भवति । एकान्याभ्यां समर्थाभ्याम् (पा ८-१-६५) इति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । ददृशे । दृशेश्छंदसि लङ् लुङ् लिट इति वर्तमाने लिट् । सुवर्चाः । शोभनं वर्चस्तेचो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

1.95.2
दशे॒मं त्वष्टु᳚र्जनयन्त॒ गर्भ॒मत᳚न्द्रासो युव॒तयो॒ विभृ᳚त्रम् ।
ति॒ग्मानी᳚कं॒ स्वय᳚शसं॒ जने᳚षु वि॒रोच᳚मानं॒ परि᳚ षीं नयन्ति ॥
▶ पदपाठः (Word-by-word)
दश᳚ । इ॒मम् । त्वष्टुः᳚ । ज॒न॒य॒न्त॒ । गर्भ᳚म् । अत᳚न्द्रासः । यु॒व॒तयः᳚ । वि॑भृ᳚त्रम् ।
ति॒ग्म॑अ᳚नी᳚कम् । स्व॑य᳚शसम् । जने᳚षु । वि॒॑रोच᳚मानम् । परि᳚ । सी॒म् । न॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतंद्रासः स्वकार्ये जगतः पोषणेऽनलसा आलस्यरहिताः । जागरूका इत्यर्थः । युवतयो नित्यतरुण्यः । जरामरणरहिता इत्यर्थः । एवंभूता दश प्राच्याद्या दससंख्याका दिशो गर्भं मेघेषु गर्भरूपेणांतर्वर्तमानं त्वष्टुर्दीप्तान्मध्यमाद्वायोः सकाशाज्जनयंत । वैद्युतमग्निमुत्पादयंति । यद्वा । दशसंख्याका अंगुलयस्त्वष्टुर्दीप्तस्य वायोर्गर्भं स्वकारणभूते वायौ गर्भरूपेण वर्तमानम् । अग्नेर्हि वायुः कारणं वायुरग्निरिति श्रुतेः । एवंभूतमिममग्नि मरण्योः सकाशाज्ङनयंत । उत्पादयंति । कीदृश्योऽंगुलयः । अतंद्रासः पुनःपुनः कर्मकरण आलस्यरहिताः । युवतयोऽपृथक्कृत्य वर्तमानाः । एकस्मिन्पाणौ संहत्यावस्थित्नात्यर्थः । कीदृशमग्निम् । विभृत्रम् । सर्वेषु भूतेषु विहृतम् । जाठररूपेण विभज्यइवर्तमानमित्यर्थः । तिग्मानीकं तीक्ष्णमुखं तीक्ष्णतेजसम् । अत एव हि वैद्युतागि दर्शने दृष्टिः प्रतिह्यन्यते । स्वयशसम् । स्वायत्तयशस्कम् । अतिशयेन यशस्विनमित्यर्थः । जनेषु जनपदेषु सर्वदेशेषु विरोचमानं विशेषेण दीप्यमानम् । बहूनामुपकारकमित्यर्थः । एवंभूतं सीमेनमग्निं परि परितः सर्वतो नयंति । स्वस्वोपकाराय सर्वे जनाः स्वकीयं देशं प्रापयंति ॥ त्वष्टुः त्विष दीप्तौ । नप्तृनेष्टृत्वष्टृु इत्यादिना (उ २-९६) उणादिषु तृनंतो निपातितः । अतो नित्त्वादाद्युदात्तत्वम् । विभृत्रम् । हृञ् हरणे । अस्मात्कर्मणि निष्ठा । छांदसो रेफोपजनः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । हृग्रहोर्भ इति भत्वम् । यद्वा । औणादिकः क्त्रप्रत्ययः । तिग्मानीकम् । तिज निशाने । युजिरुचितिजां कुत्वं च (उ १-१४५) इति मक् । अन प्राणने । अनिदृशिभ्यां चेति कीकन् । तिग्मं तीक्ष्ण मनीकं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । परि षीम् । पूर्वपदादिति षत्वं ॥ २ ॥

1.95.3 समानपद
त्रीणि॒ जाना॒ परि᳚ भूषन्त्यस्य समु॒द्र एकं᳚ दि॒व्येक᳚म॒प्सु ।
पूर्वा॒मनु॒ प्र दिशं॒ पार्थि᳚वानामृ॒तून्प्र॒शास॒द्वि द᳚धावनु॒ष्ठु ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । जाना᳚ । परि᳚ । भू॒ष॒न्ति॒ । अ॒स्य॒ । स॒मु॒द्रे । एक᳚म् । दि॒वि । एक᳚म् । अ॒प्॑सु ।
पूर्वा᳚म् । अनु᳚ । प्र । दिश᳚म् । पार्थि᳚वानाम् । ऋ॒तून् । प्र॒॑शास᳚त् । वि । द॒धौ॒ । अ॒नु॒ष्ठु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेस्त्रीणि त्रिसंख्याकानि जाना जननानि जन्मानि परि भूषंति । परितः सर्वतोऽलंकुर्वंति । यद्वा । परीत्येष समित्येतस्य स्थाने । अस्याग्नेस्त्रीणि जन्मानि संभवंति । समुद्रेऽब्दौ वडवानलरूपेणैकं जन्म । दिवि द्युलोक आदित्यात्मनैकम् । अप्सु । आप इत्यंतरिक्षनाम । अंतरिक्षे वैद्युताग्निरूपेणैकम् । एवमग्निस्त्रेधात्मानं विभज्य त्रिषु स्थानेषु वर्तत इत्यर्थः । तत्रादित्यात्मना वर्तमानाः सोऽग्निर्ऋतून्वसंताद्यान् षडृतून्प्रशासत् प्रकर्षेण विभक्ततया ज्ञापयन्पार्थिवानां पृथिव्याः संबंधिनां सर्वेषां प्राणिनां पूर्वां प्राचीं प्रदिशं प्रकृष्टां ककुभम् । अनुष्ठ्वित्येतदव्ययं सम्यक् शब्दसमानार्थं सुष्ठ्विति यथा । सम्यगनुक्रमेण वि दधौ । कृतवान् । स्वतो भेदरहितयोरखंडयोर्दिक्कालयोः प्राच्यादिभेदो वसंतादिभेदश्च सूर्यगत्या निष्पाद्यते । अतः सूर्य एव तयोः कर्तेत्यर्थः ॥ जाना । जनी प्रादुर्भावे । घञ् । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शेश्छंदसि बहुलमिति शेर्लोपः । भूषंति । भूष अलंकारे । भौवादिकः । यद्वा । भवतेर्लेट सिब्बहुलं लेटीति सिप् । आगमानुशासनस्यानित्यत्वादिडभावः, संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावश्च । दिवि । अप्सु । उभयत्रोडिदमिति विभक्तेरुदात्तत्वम् । पार्थिवानाम् । पृथिव्या ञाञाविति प्राग्दीव्यतीयोऽञ् प्रत्ययः । प्रशासत् । शासु अनुशिष्टौ । अस्माल्लटः शतृ । जक्षित्यादयः षडित्यभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुष्ठु । अपदुःसुषु स्थः (उ १-२६) इति विधीयमानः कुप्रत्ययो बहुलवचनात्तिष्ठतेरनुपूर्वदपि भवति ॥ ३ ॥

1.95.4
क इ॒मं वो᳚ नि॒ण्यमा चि᳚केत व॒त्सो मा॒तॄर्ज᳚नयत स्व॒धाभि᳚ः ।
ब॒ह्वी॒नां गर्भो᳚ अ॒पसा᳚मु॒पस्था᳚न्म॒हान्क॒विर्निश्च᳚रति स्व॒धावा᳚न् ॥
▶ पदपाठः (Word-by-word)
कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒॑धाभिः᳚ ।
ब॒ह्वी॒नाम् । गर्भः᳚ । अ॒पसा᳚म् । उ॒प॑स्था᳚त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्यजमाना निण्यं निर्णीतम् । अंतर्हितनामैतस् । अबादिषु गर्भरूपेणांचर्हितम् । तथा च मंत्रांतरम् । गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् । ऋग्वे १-७०-२ । इति । एवंभूतमिममग्निं वो युष्माकं मध्ये क आचिकेत । को जानाति । न कोऽपीत्यर्थः । सोऽयमग्निर्वत्सो मेघस्थानामपां वैद्युताग्निरूपेण पुत्रस्थानीयः सन् मातृस्तस्य मातृस्थानीयानि वृष्ट्युदकानि स्वधाभिर्हविर्लक्षणैरन्नैर्जनयत । उत्पादयति । तथा च स्मर्यते । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । अदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु ३-७६ । इति । अपि च बह्वीनां मेघस्थानामपां गर्भो वैद्युतरूपेण गर्भस्थानीयः सोग्निरपसामुपस्थात् समुद्रान्निश्चरति । औषसाग्निरूपेणादित्यः सन्निर्गच्छति । कीदृशः । महान् तेजसा प्रौढः । कविः । क्रांतदर्शी । स्वधावान् हविर्लक्षणान्नवान् । एक एवाग्निर्होमनिष्पादकलक्षणेन पार्थिवरूपेण वैद्युतात्मनौषसरूपेणादित्यात्मना च विभज्य वर्तत इत्यर्थः ॥ चिकेत । कित ज्ञाने । छांदसो लिट् । जनयत । जनी जृष्कसुरंजोऽमंताश्च । धा १९-६३-६७ । इति । मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम् । पूर्ववच्छांदसो लङ् । बह्वीनाम् । नित्यं छंदसि पा ४-१-४६ । इति बहुशब्दाङ्ङीष् । ङ्याश्छंदसि बहुलम् (पा ६-१-१७८) इति नाम उदात्तत्वम् । अपसाम् । आप्लृ व्याप्तौ । आपः कर्माख्यायां ह्रस्वो नुट्च वा (उ ४-२०७) इति बहुलवचनादकर्माख्यायामप्याप्नोतेरसिप्रत्ययो ह्रस्वश्च । उपस्थात् । उपतिष्ठंत्याप्रोऽत्रेत्युपस्थः । आतश्चोपसर्ग इति कृत्यल्युटो बहुलमिति बहुलवचनादधिकरणे कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥ ४ ॥

1.95.5 समानपद
आ॒विष्ट्यो᳚ वर्धते॒ चारु᳚रासु जि॒ह्माना᳚मू॒र्ध्वः स्वय᳚शा उ॒पस्थे᳚ ।
उ॒भे त्वष्टु᳚र्बिभ्यतु॒र्जाय᳚मानात्प्रती॒ची सिं॒हं प्रति᳚ जोषयेते ॥
▶ पदपाठः (Word-by-word)
आ॒विः॑त्यः᳚ । व॒र्ध॒ते॒ । चारुः᳚ । आ॒सु॒ । जि॒ह्माना᳚म् । ऊ॒र्ध्वः । स्व॑य᳚शाः । उ॒प॑स्थे᳚ ।
उ॒भे इति᳚ । त्वष्टुः᳚ । बि॒भ्य॒तुः॒ । जाय᳚मानात् । प्र॒ती॒ची इति᳚ । सिं॒हम् । प्रति᳚ । जो॒ष॒ये॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आसु मेघस्थास्वप्सु वैद्युतात्मना वर्तमानोऽग्निश्चारुः शोभनदीप्तिः सन् आविष्ट्यो वर्धते । आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति । किं कुर्वन् । जिह्वानां कुटिलानां मेघेषु तिर्यगवस्थितानां तासामपामुपस्थ उत्संगे स्वयशाः स्वायत्तयशस्तोऽग्निरूर्द्ध्व ऊर्ध्वज्वलनः सन् । स्वकारणभूतास्वप्सु तिर्युगवस्थितास्वपि स्वयमूर्ध्वं ज्वलन्नित्यर्थः । तदुक्तं वैशेषिकैः । अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनम् । अणुमनसोराद्यं कर्मैतान्यदृष्टकारितानीति । अपि च । उभे द्यावापृथिव्यौ त्वष्टुर्दीप्ताज्जायमानादुत्पद्यमानात्तस्मादग्नेर्बिभ्यतुः । भयं प्रापतुः । तदनंतरमुत्पन्नं सिंहं सहनशीलमभिभवनशीलं तमग्निं प्रतीची प्रत्यंचंत्यौ प्रतिगच्छंत्यावाभिमुख्येन प्राप्नुवंत्यौ जोषयेते । सेवेते । यास्कस्त्वाह । आविरावेदनात्तत्त्यो वर्धते चारुरासु चारु चरतेर्जिह्वं जिहीतेरूर्द्व उच्छ्रितो भवति स्वयशा आत्मयशा उपस्थ उपस्थान उभे त्वष्टुर्भिर्भ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते द्यावापृथिव्याविति वाहोरात्रे इति वारणी इति वापि चैते प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते (नि ८-१५) इति ॥ आविष्ट्यः आविः शब्दाच्छंदसि । पा ४-२-१०४-१ । इति शैषिकस्त्यप् । ह्रस्वात्तादौ तद्धिते (पा ८-३-१०१) इति षत्वम् । आसु । इदमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम् । न चोडिदमिति विभक्तेरुदात्तत्वं शंकनीयम् । अंतोदात्तदिदंशब्दाद्दि तद्विधीयते । प्रतीची । प्रतिपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्याकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । वा छंदसीति पूर्व सवर्णदीर्घः । जोषयेते । जुषी प्रीतिसेवनयोः । स्वार्थे णिच् ॥ ५ ॥

1.95.6
उ॒भे भ॒द्रे जो᳚षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप᳚ तस्थु॒रेवै᳚ः ।
स दक्षा᳚णां॒ दक्ष᳚पतिर्बभूवा॒ञ्जन्ति॒ यं द᳚क्षिण॒तो ह॒विर्भि᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । भ॒द्रे इति᳚ । जो॒ष॒ये॒ते॒ इति᳚ । न । मेने॒ इति᳚ । गावः᳚ । न । वा॒श्राः । उप᳚ । त॒स्थुः॒ । एवैः᳚ ।
सः । दक्षा᳚णाम् । दक्ष᳚॑पतिः । ब॒भू॒व॒ । अ॒ञ्जन्ति᳚ । यम् । द॒क्षि॒ण॒तः । ह॒विः॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उभे अहश्च रात्रिश्च । यद्वा । उभे द्यावापृथिव्यौ अरणी वा । भद्रे भजनीये शोभनांग्यौ मेने स्त्रियौ जोषयेते न । सेवेते इव । यथा शोभने स्त्रियौ चामरहस्ते राजानमुभयतः सेवेते । एवं द्यावापृथिव्यावेनमग्निमुभयतः सेवेते इत्यर्थः । अपि च वाश्रा हंभारवं कुर्वत्यो गावो न गावो यथैवैः स्वकीयैश्चरित्रैरादरातिशयेन स्वकीयान्वत्सानुप तस्थुः संगच्छंते । तथेममग्निं द्यावापृथिव्यावुपस्थिते भवतः । पूर्वं सेवनमात्रमुक्तम् । इदानीं पुनर्गोनिदर्शनेन तत्रैवादरातिशयो द्योत्यते । अतः सोऽग्निर्दक्षाणां सर्वेषां बलानां दक्षपतिर्बलाधिपतिर्बभूव आसीत् । बलानां मध्ये यदतिशयितं बलं तस्याधिपतिर्बभूवेत्यर्थः । यमग्निं दक्षिणत आहवनीयस्य दक्षिणभागेऽवस्थिता ऋत्विजो हविर्भिश्चरुपुरोडाशादिभिरंजंति । आर्द्रीकुर्वंति तर्पयंति । सोऽग्निरिति पूर्वेणान्वयः ॥ वाश्राः । वाशृ शब्दे । स्थायितंचीत्यादिना रक् । एवैः । इण् गतौ । इण् शीङ् भ्यां वन्निति भावे वन्प्रत्ययः ॥ ६ ॥

1.95.7 समानपद
उद्यं᳚यमीति सवि॒तेव᳚ बा॒हू उ॒भे सिचौ᳚ यतते भी॒म ऋ॒ञ्जन् ।
उच्छु॒क्रमत्क᳚मजते सि॒मस्मा॒न्नवा᳚ मा॒तृभ्यो॒ वस᳚ना जहाति ॥
▶ पदपाठः (Word-by-word)
उत् । य॒म्य॒मी॒ति॒ । स॒वि॒ता॑इ᳚व । बा॒हू इति᳚ । उ॒भे इति᳚ । सिचौ᳚ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् ।
उत् । शु॒क्रम् । अत्क᳚म् । अ॒ज॒ते॒ । सि॒मस्मा᳚त् । नवा᳚ । मा॒तृ॑भ्यः᳚ । वस᳚ना । ज॒हा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवितेव सर्वस्य प्रेरक आदित्यो यथा बाहू बाहुस्थानीयान्रश्मीनुद्गमयति तथायमौषसोऽग्निः स्वकीयानि तेजांस्युद्यंयमिति । भृशमुद्यतान्यूर्द्ध्वाभिमुखानि करोति । तदनंतरं भीमः सर्वेषां भयंकरोऽग्निरुभे सिचावुभे द्यावापृथिव्यौ ऋंजन् प्रसाधयन् स्वतेजसालंकुर्वन्यतते । स्वव्यापारे प्रयतते । तदनंतरं सिमस्मात्सर्वस्माद्भूतजाताच्छुक्रं दीप्तमत्कं सारभूतं रसमुदजते । रश्मिभिरूर्ध्वमादत्ते । अपि च मातृभ्यः स्वमातृस्थानीयेभ्यो वृष्ट्युदकेभ्यः सकाशान्नवा नवानि प्रत्यग्राणि वसना सर्वस्य जगत आच्छादकानि तेजांसि जहाति । उद्गमयति ॥ यंयमीति । यम उपरमे । अस्माद्यङ् लुकि नुगतोऽनुनासिकांतस्य (पा ७-४-८५) इत्यभ्यासस्य नुगागमः । एतच्चानुस्वारोपलक्षणार्थम् । सिचौ । षिचक्षरणे । सिंचतः फलेन संयोजयत इति सिचौ द्यावापृथिव्यौ । क्विप्चेति क्विप् । यतते । यती प्रयत्ने । अत्कम् । अत सातत्यगमने । इण् भीकापाशल्यतिमर्चिभ्यः कन् (उ ३-४३) इति कन् । नित्त्वादाद्युदात्तत्वम् । सिमस्मात् । सिमशब्दः सर्वशब्दपर्यायः । नवा वसना । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । जहाति । ओहाक् त्यागे । जौहोत्यादिकः ॥ ७ ॥

1.95.8 समानपद
त्वे॒षं रू॒पं कृ᳚णुत॒ उत्त᳚रं॒ यत्स᳚म्पृञ्चा॒नः सद᳚ने॒ गोभि᳚र॒द्भिः ।
क॒विर्बु॒ध्नं परि᳚ मर्मृज्यते॒ धीः सा दे॒वता᳚ता॒ समि᳚तिर्बभूव ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । उत्॑त᳚रम् । यत् । स॒म्॑पृ॒ञ्चा॒नः । सद᳚ने । गोभिः᳚ । अ॒त्॑भिः ।
क॒विः । बु॒ध्नम् । परि᳚ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒व॑ता᳚ता । सम्॑इ᳚तिः । ब॒भू॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सदनेऽंतरिक्षे गोभिर्गंत्रीभिरद्भिर्मेघस्थाभिः सह संपृंचानो वैद्युतरूपेण संयुक्तः सन् त्वेषं दीप्तं सर्वैर्द्रष्टुमशक्यमुत्तरमुत्कृष्टतरं रूपं वैद्युतं प्रकाशं यद्यदा कृणुते करोति । तदानीं कविः क्रांतदर्शी धीः सर्वेषां धारकः सोऽग्निर्बुध्नं सर्वस्योदकस्य मूलभूतमंतरिक्षं परि मर्मृज्यते । परितो मार्ष्वि स्वतेजसाच्छादयति । तस्याग्नेः सा देवताता देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता सती समितिर्बभूव । तेजसां संहतिर्भवति ॥ संपृंचानः । पृची संपर्के । रौधादिकः । अस्माल्लटः शानच् । श्नसोरल्लोप इत्यकारलोपः । सीदंत्यस्मिन् गंधर्वादय इति सदनमंतरिक्षम् । अधिकरणे ल्युट् । मर्मृज्यते । मृजूष् शुद्धौ । अस्माद्यङि मर्मृज्यते मर्मृज्यमानास इति चोपसंख्यानम् । पा ७-४-९१-१ । इति निपातनादभ्यासस्य रुगागमः । देवताता । देवेन तता देवताता । तनोतेः कर्मणि निष्ठा । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । व्यत्ययेनात्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.95.9
उ॒रु ते॒ ज्रय॒ः पर्ये᳚ति बु॒ध्नं वि॒रोच᳚मानं महि॒षस्य॒ धाम᳚ ।
विश्वे᳚भिरग्ने॒ स्वय᳚शोभिरि॒द्धो॑द᳚ब्धेभिः पा॒युभि᳚ः पाह्य॒स्मान् ॥
▶ पदपाठः (Word-by-word)
उ॒रु । ते॒ । ज्रयः᳚ । परि᳚ । ए॒ति॒ । बु॒ध्नम् । वि॒॑रोच᳚मानम् । म॒हि॒षस्य᳚ । धाम᳚ ।
विश्वे᳚भिः । अ॒ग्ने॒ । स्वय᳚शः॑भिः । इ॒द्धः । अद᳚ब्धेभिः । पा॒यु॑भिः᳚ । पा॒हि॒ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिषस्य महतस्ते तव ज्रयो राक्षसादीनामभिभावुकं विरोचमानं विशेषेण दीप्यमानमुरु विस्तीर्णं धाम तेजो बुध्नमपां मूलभूतमंतरिक्षं पर्येति । परितो व्याप्नोति । हे अग्ने । इद्धोऽस्माभिः प्रज्वलितः सन् विश्वेभिः सर्वैः स्वयशोभिः स्वकीयैरात्मीयैस्तेजोभिरस्मान्पाहि । रक्ष । कीदृशैः । अदब्धेभी राक्षसादिभिरहिंसितैः । पायुभिः । पालनशक्तैः ॥ ज्रयः । जि । ज्रि अभिभवे । असुन् । अदब्धेभिः । दन्भु दंभे । निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । अनिदितामिति नलोपः । झषस्तथोर्धोऽध इति धत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुलं छंदसीति भिस ऐसभावः ॥ ९ ॥

1.95.10
धन्व॒न्त्स्रोतः᳚ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि᳚र॒भि न᳚क्षति॒ क्षाम् ।
विश्वा॒ सना᳚नि ज॒ठरे᳚षु धत्ते॒॑न्तर्नवा᳚सु चरति प्र॒सूषु᳚ ॥
▶ पदपाठः (Word-by-word)
धन्व᳚न् । स्रोतः᳚ । कृ॒णु॒ते॒ । गा॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मि॑भिः᳚ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् ।
विश्वा᳚ । सना᳚नि । ज॒ठरे᳚षु । ध॒त्ते॒ । अ॒न्तः । नवा᳚सु । च॒र॒ति॒ । प्र॒॑सूषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्वन् नभसि गातुं गमनशीलमूर्मिमुदकसंघमयमग्निः स्रोतः कृणुते । स्रोतसा प्रवाहरूपेण युक्तं करोति । शुक्रैर्निर्मलैरूर्मिभिस्तैर्जलसंघैः क्षां भूमिमभि नक्षति । अभिव्याप्नोति । स्वतेजोभिरंतरिक्षे जलसंघमुत्पाद्य तेन सर्वां भूमिमभिवर्षतीत्यर्थः । पश्चाद्विश्वा सर्वाणि सनानि । अन्ननामैतत् । सर्वाण्यन्नानि जठरेषु धत्ते । अवस्थापयति । तदर्थं नवासु वृष्ट्यनंतरमुत्पन्नासु प्रसूषु सर्वेषामन्नानां प्रसवित्रीष्वोषधीषु पाकार्थमंतश्चरिति । मध्ये वर्तते । अंतरवस्थितेन भौमाग्निना सर्वा ओषधयः पच्यंते ॥ धन्वन् । रिवि रवि धवि गत्यर्थाः । इदित्वान्नुम् । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति सप्तम्या लुक् । धन्वांतरिक्षं धन्वंत्यस्मादाप इति यास्कः (नि ५-५) नित्त्वादाद्युदात्तत्वम् । गातुम् । गाङ् गतौ । कमिमनिजनीत्यादिना तुप्रत्ययः । ऊर्मिं अर्तेरूचेति मिप्रत्ययः । नक्षति । नक्ष गतौ ॥ १० ॥

1.95.11
ए॒वा नो᳚ अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत्पा᳚वक॒ श्रव᳚से॒ वि भा᳚हि ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्॑इधा᳚ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव᳚से । वि । भा॒हि॒ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पावक शोधकाग्ने समिधास्माभिर्दत्तेन समिदादिद्रव्येणैवैवमुक्तप्रकारेण वृधानो वर्धमानः सन् रेवत् रयिमते धनयुक्ताय नोऽस्माकं श्रवसेऽन्नाय वि भाहि । विशेषेण दीप्यस्व । अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः । नोऽस्माकं तदन्नं मित्रादयो ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । उतशब्दः समुच्यये । पृथिवी च द्यौश्चेत्यर्थः ॥ एव । निपातस्य चेति संहितायां दीर्घः । वृधानः । वृधेरंतर्भावितण्यर्थात्ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । चानशः सार्वधातुकत्वेन ङित्त्वाल्लघूपदगुणाभावः । लसार्वधातुकत्वाभावेनानुदात्तत्वाभावे चित्स्वर एव शिष्यते । रेवत् । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रेशब्दाच्च । का ६ १-१७६-१ । इति मतुप उदात्तत्वम् । सुपां सुलुगिति चतुर्थ्या लुक् ॥ ११ ॥