प्रथमं मण्डलम् - सूक्तम् 161

14 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: ऋभवः छन्दः: जगती

सूक्तम् 1.161 - सम्पूर्णम्

1 / 14
ऋक्: 1.161.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
1.161.1
किमु॒ श्रेष्ठ॒ः किं यवि᳚ष्ठो न॒ आज᳚ग॒न्किमी᳚यते दू॒त्यं१॒᳚ कद्यदू᳚चि॒म ।
न नि᳚न्दिम चम॒सं यो म᳚हाकु॒लो॑ग्ने᳚ भ्रात॒र्द्रुण॒ इद्भू॒तिमू᳚दिम ॥
▶ पदपाठः (Word-by-word)
किम् । ऊं॒ इति᳚ । श्रेष्ठः᳚ । किम् । यवि᳚ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य᳚म् । कत् । यत् । ऊ॒चि॒म ।
न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒॑कु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः᳚ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभवोनामसुधन्वनस्त्रयः पुत्रः ऋभुर्विभ्वावाजइति तेचमनुष्याः सन्तः सुकर्मणादेवत्वंप्राप्य कदाचित्कर्मकाले सोमपानायप्रवृत्ताः तान्प्रति देवैः प्रेरितोऽग्निः परस्परसमानरूपान्दृष्ट्वा स्वयम- पितदाकारंधृत्वा तेषुमध्ये स्वयंचतुर्थः सन्पातुंप्रबृत्तः तेचऋभवः आगतंतंसमानरूपं अवलोक्य विवे- क्तुंअसमर्थाः परस्परमेवंसंदिहते—अयंकिमुश्रेष्ठः किंनुखलुअस्मत्तोऽयंप्रशस्यतमः वयसाश्रेष्ठः सोऽ– स्मानाजगन् आगमत्प्राप्तः गमेर्लङिछान्दसः शपः श्लुः हल्ङ्यादिलोपेमोनोधातोरितिनत्वं अजगन्नि- तिगतिकर्मा अगन्नजगन्नितितन्नामसुपाठात् किंयविष्ठः किंवा नःअस्माकं युवतमः अस्मतः कनीयान् आजगन्प्राप्तः किंवा दूत्यं दूतकर्मदेवसंबन्धिईयते गच्छति देवैः प्रेरितोदूतोऽस्मानागतोवा दूतस्यभा- गकर्मणीइतियत् यदूचिम यदेतद्ब्रूमः तत्कथंनिश्चेतव्यमित्यर्थः वयं तावन्त्रयएव इदानींचत्वारःस- मानरूपावर्तामहे तस्मादयमधिकः किमुश्रेष्ठइति विचिकित्सा एवंसंदिह्य कथंचित्स्वतोऽन्यं निश्चि- त्यतंप्रत्यपरोक्षेणब्रुवते—हेअग्नेभ्रातः भ्रातृवत् भागार्ह भ्रातायथाबलात् स्वकीयंभागंस्वीकरोति तद्व- त्समानरूपमाश्चित्य बलाच्चमसपानायप्रवृत्तइतिभ्रातरित्युक्तं हेतादृशाग्ने चमसंननिंदिम अधिकः समागतइतिपानमकृत्वाचमसंनदूषयामः णीदिकुत्सायां छंदसिवेतिवक्तव्यमितिद्विर्वचनाभावः अदू- ष्यत्वेकारणमाह—यश्चमसोमहाकुलः महाकुलोत्पन्नः त्वष्ट्रानिर्मितत्वात् वक्ष्यतिच—त्वष्टाग्नास्वंत- र्न्यानजइति । अतः कारणादुणः विकारेप्रकृतिशब्दः ततश्चतस्थे तच्छब्दः इवाधारणे दारुविकारच- मसस्यभूतिं प्राप्तिं ऊदिम ब्रूमः विदेश्छान्दसेलिटि वचिस्वपीतिसंप्रसारणं क्रादिनियमादिट् ॥ १ ॥

1.161.2
एकं᳚ चम॒सं च॒तुरः᳚ कृणोतन॒ तद्वो᳚ दे॒वा अ᳚ब्रुव॒न्तद्व॒ आग᳚मम् ।
सौध᳚न्वना॒ यद्ये॒वा क᳚रि॒ष्यथ᳚ सा॒कं दे॒वैर्य॒ज्ञिया᳚सो भविष्यथ ॥
▶ पदपाठः (Word-by-word)
एक᳚म् । च॒म॒सम् । च॒तुरः᳚ । कृ॒णो॒त॒न॒ । तत् । वः॒ । दे॒वाः । अ॒ब्रु॒व॒न् । तत् । वः॒ । आ । अ॒ग॒म॒म् ।
सौध᳚न्वनाः । यदि᳚ । ए॒व । क॒रि॒ष्यथ᳚ । सा॒कम् । दे॒वैः । य॒ज्ञिया᳚सः । भ॒वि॒ष्य॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवंपृष्टोऽग्निः तान्प्रत्युवाच—हेसौधन्वनाः सुधन्वनःपुत्राः यूयंएकंचमसं त्वष्ट्रासंपादितंपूर्वमेक- मेवसंतंचमसं चतुरःकृणोतन चतुःसंख्याकान्कुरुत चतुरःशसीत्यन्तोदात्तत्वं पूर्ववत्तनप् यथाउपरित- ने ज्येष्ठआहचमसाद्वाकरेतीत्युपक्रम्य कनिष्ठआहचतुरस्करेतीति चतुष्ट्वंनिर्धारितं नकेवलमहमेव- ब्रवीमि किंतुवोयुष्मान्प्रति तदुक्तंचतुर्धाकरणरूपंकर्मउत्तरत्रवक्ष्यमाणं अश्वरथादिकरणरूपंचकर्म देवाइन्द्रादयः अब्रुवन् देवत्वप्राप्त्युपायत्वेनतत्तादृशंकर्म वोयुष्माकंवक्तुमहमागमं प्राप्तोऽस्मि यस्मा- देवंतस्माद्यूयंद्येवाकरिष्यथ यद्येवंमदुक्तप्रकारेणकर्तुंश्क्रुथ तथाचेद्देवैः साकंसह यज्ञियासोभविष्य- थइतितैरुक्तमित्यर्थः ॥ २ ॥

1.161.3
अ॒ग्निं दू॒तं प्रति॒ यदब्र᳚वीत॒नाश्व॒ः कर्त्वो॒ रथ᳚ उ॒तेह कर्त्व᳚ः ।
धे॒नुः कर्त्वा᳚ युव॒शा कर्त्वा॒ द्वा तानि᳚ भ्रात॒रनु᳚ वः कृ॒त्व्येम᳚सि ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । दू॒तम् । प्रति᳚ । यत् । अब्र᳚वीतन । अश्वः᳚ । कर्त्वः᳚ । रथः᳚ । उ॒त । इ॒ह । कर्त्वः᳚ ।
धे॒नुः । कर्त्वा᳚ । यु॒व॒शा । कर्त्वा᳚ । द्वा । तानि᳚ । भ्रा॒तः॒ । अनु᳚ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआगतदेव अग्निंअंगनादिगुणविशिष्टंदूतं दूतकर्मप्राप्तवन्तं त्वांप्रतियद्यत्कार्थं अब्रवीतन अब्रुवन्- व्यत्ययेनमध्यमः पूर्ववत्तनप् किमिति अश्वः कर्त्वः एकस्मादश्वात् अश्वांतरंकर्तव्यमित्यर्थः अश्वादश्व- मतक्षतेतिवक्ष्यमाणत्वात् कृत्यार्थेतवैकेनितित्वन्प्रत्ययः उत अपिच रथः कर्त्वः कर्तव्यः धेनुः कर्त्वा- चर्मरहितागौः नित्यदोग्ध्रीपुनर्नूतनाकार्या तदुत्तरत्र निश्चर्मणोगमरिणीतधीति भिरितिवक्ष्यमाण- त्वात् तथा द्वा द्वौपितरौजीर्णौसंतौ पुनर्युवशा युवानौ शयानौ प्रकृष्टयौवनोपेतौ कर्त्वा कर्तव्यौ हेभ्रा- तरग्ने तानि वः युष्माकंदेवानां तैरुक्तानिकर्माणिकृत्वा अनु पश्चात् कृत्वी कृत्व्याकर्मणा एमसि एमः आभिमुख्येनप्राप्नुमः इण् गतौ इदन्तोमसिः यद्वा ऋषेरिदंवाक्यं हे ऋभवोयूयंआगतं अग्निंदूतंप्रतिय- दब्रवीतन यत्कार्यं वक्ष्यमाणरूपंकर्तव्यत्वेनवदथ अङ्गीकुरुथ तानिसर्वाणिसंपाद्य हेभ्रातरग्ने कृत्व्या कर्मणा एमसीति ब्रूथेतिऋषिराह ॥ ३ ॥

1.161.4
च॒कृ॒वांस᳚ ऋभव॒स्तद᳚पृच्छत॒ क्वेद᳚भू॒द्यः स्य दू॒तो न॒ आज᳚गन् ।
य॒दावाख्य᳚च्चम॒साञ्च॒तुरः᳚ कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या᳚नजे ॥
▶ पदपाठः (Word-by-word)
च॒कृ॒॑वांसः᳚ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । क्व᳚ । इत् । अ॒भू॒त् । यः । स्यः । दू॒तः । नः॒ । आ । अज᳚गन् ।
य॒दा । अ॒व॒॑अख्य᳚त् । च॒म॒सान् । च॒तुरः᳚ । कृ॒तान् । आत् । इत् । त्वष्टा᳚ । ग्नासु᳚ । अ॒न्तः । नि । आ॒न॒जे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋभवः तत्कार्यंयथाचकृवांसः कृतवन्तोयूयंअपृच्छत प्रश्नंकुरुत करोतिर्लिटः क्वसुः अत्रयद्यपि- ऋभुरितित्रयाणांमध्येएकस्यनाम तथापितस्यप्राथम्याच्छत्रिणोगच्छन्तीतिवत्सर्वेप्यृभवउच्यन्ते किमिति स्यः सदूत्ः क्वेदभूत् कुत्रगतः सइत्युक्तंकइत्याह—यः योदूतोनोऽस्मानाजगन् आगमत्प्राप्तः एवंभूतेसति यदायंत्वष्टाचतुरःकृतान् चमसान् अवाख्यत् अभिपश्यति ख्यातेर्लुङि अस्यतिवक्तिख्या- तीतिच्लेरङादेशः आदित् अनन्तरमेव त्वष्टातस्य चमसस्योत्पादकएतन्नामकोदेवः ग्नासु स्त्रीषु मेना- ग्नाइतिस्त्रीणामितिनिरुक्तं अंतर्मध्येन्यानजे न्यक्तोभूत् स्त्रियमात्मानममन्यतेत्यर्थः अंजेर्लिटितस्मान्नु- ट् छान्दसोऽनुनासिकलोपः ॥ ४ ॥

1.161.5 समानपद
हना᳚मैना{4}॒ इति॒ त्वष्टा॒ यदब्र᳚वीच्चम॒सं ये दे᳚व॒पान॒मनि᳚न्दिषुः ।
अ॒न्या नामा᳚नि कृण्वते सु॒ते सचा{4}᳚ अ॒न्यैरे᳚नान्क॒न्या॒३॒᳚ नाम᳚भिः स्परत् ॥
▶ पदपाठः (Word-by-word)
हना᳚म । ए॒ना॒न् । इति᳚ । त्वष्टा᳚ । यत् । अब्र᳚वीत् । च॒म॒सम् । ये । दे॒व॒॑पान᳚म् । अनि᳚न्दिषुः ।
अ॒न्या । नामा᳚नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा᳚ । अ॒न्यैः । ए॒ना॒न् । क॒न्या᳚ । नाम᳚॑भिः । स्प॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनान्वक्ष्यमाणान्हनामेति यद्यदाअब्रवीत् त्वष्टा पूजार्थंबहुवचनं एतच्छब्दस्यप्रकृतपरामर्शक- त्वात् ऋभूणांप्रकृतत्वात् तेषांहननप्रसक्तिंदर्शयति येदेवपानं देवैःपातव्यं चमसंयेऋभवोऽनिन्दिषुः निंदांअकुर्वन् देवयोग्यंत्वाष्ट्रचमसंमनुष्याऋभवः स्वीकृत्यचतुर्धाव्यभजन् तान्हनामेति यदाब्रवीदि- त्यर्थः तदाप्रभृतिमनुष्याः सुतेअभिषुतेसोमेपानायप्रस्तुतेसतिसचासहपरस्परंअन्यानमानि अन्या- निहोत्रध्वर्यूद्गात्रादीनिकृण्वेकुर्वन्ति पूर्वंनामप्रच्छाद्योपहवकालेअध्वर्यउपह्वयस्वहोतरुपह्वयस्वे- त्येवमन्यैरेवनामभिः आत्मानंत्वष्टृवधभीत्याप्रख्यापयन्तीत्यर्थः पूर्वमन्यानिनामानिकथंप्रसक्तानी- त्यतआह—एनान्नरान्कन्यास्वोत्पादयित्रीमाता अन्यैरेवनामभिः स्परत् प्रीणयति स्पृप्रीतिपालनयोः लेट्यडागमः ॥ ५ ॥

1.161.6 समानपद
इन्द्रो॒ हरी᳚ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत ।
ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वा{4} अ᳚गच्छत॒ स्वप᳚सो य॒ज्ञियं᳚ भा॒गमै᳚तन ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । हरी᳚ । यु॒यु॒जे । अ॒श्विना᳚ । रथ᳚म् । बृह॒स्पतिः᳚ । वि॒श्व॑रू᳚पाम् । उप᳚ । आ॒ज॒त॒ ।
ऋ॒भुः । वि॑भ्वा᳚ । वाजः᳚ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒॑अप᳚सः । य॒ज्ञिय᳚म् । भा॒गम् । ऐ॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वंसृष्टानांक्रमेणविनियोगमाह—इन्द्रोहरीयुयुजे एतन्नामानावश्वौरथेयोजितवान् तथा अश्वि- नाअश्विनौ रथंयोजितवन्तौ तथाबृहस्पतिः बृहतोमन्त्रस्य पालयिता एतन्नामकोदेवो विश्वरूपां नानारूपोपेतांगांउपाजत उपागमत् स्वीकृतवानित्यर्थः यद्यप्यत्रगौरितिविशेषोनश्रुतः तथापिपूर्वं धेनुःकर्त्वेत्युक्तत्वात् परस्ताच्चयेधेनुंविश्वजुवं विश्वरूपामितिवक्ष्यमाणत्वाच्च विश्वरूपागौरित्येवा- ध्यवसीयते अतएवविश्वरूपामितिचतस्याश्वपंक्तिमितिकेचनव्याचक्षते ततदसत् युष्मत्संपादितानि रथादीनींद्रादयः स्वभागत्वेनाकल्पयन् तस्मादृभुर्विभ्वावाजश्च यूयं देवानिंद्रादीनगच्छत गत्वाच हेस्वपसः शोभनाश्वरथयोकर्मवन्तोयूयं यज्ञियं यज्ञार्हं यज्ञसंबंधिनंभागं सोमरूपं देवत्वंप्राप्तैः सेव- नीयं ऎतन प्राप्नुत कर्मसामर्थ्येनहविर्भुजोभवतेत्यर्थः इत्येवमृषिराह ॥ ६ ॥

1.161.7
निश्चर्म᳚णो॒ गाम᳚रिणीत धी॒तिभि॒र्या जर᳚न्ता युव॒शा ताकृ᳚णोतन ।
सौध᳚न्वना॒ अश्वा॒दश्व᳚मतक्षत यु॒क्त्वा रथ॒मुप᳚ दे॒वा{4} अ᳚यातन ॥
▶ पदपाठः (Word-by-word)
निः । चर्म᳚णः । गाम् । अ॒रि॒णी॒त॒ । धी॒ति॑भिः᳚ । या । जर᳚न्ता । यु॒व॒शा । ता । अ॒कृ॒णो॒त॒न॒ ।
सौध᳚न्वनाः । अश्वा᳚त् । अश्व᳚म् । अ॒त॒क्ष॒त॒ । यु॒क्त्वा । रथ᳚म् । उप᳚ । दे॒वान् । अ॒या॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसौधन्वनाः यूयं निश्चर्मणा मृतायागोः सकाशादुत्कृत्ताच्चर्मणः गांनूतनां निररिणीत निरगमयत उत्पादितवन्तः तेनैवचर्मणासंवीतांतत्सदृशीमन्यांधेनुंकृतवन्तइत्यर्थः यद्यपिपूर्वमेवाश्वादीनां विनि- योगउक्तः तथापितेषामत्यन्तदुःखसंपादत्वज्ञापनाय पुनराह—नकेवलं गोकरणमेव अपिच या जरं- ता यौजीर्णौ पितरौ ता तौ युवशा युवानौ कृणोतन अकुरुत किंच अश्वादश्वं एकेनविद्यमानेनाश्वेना- श्वान्तरमतक्षत प्रयत्नेनसंपादितवन्तः यस्मादेवं कृतवंतस्तस्माद्रथं युष्मदीयंयुक्त्वाश्वैर्योजयित्वादे- वानिन्द्रादीनुपायातन देवसमीपंप्राप्नुत ॥ ७ ॥

1.161.8
इ॒दमु᳚द॒कं पि᳚ब॒तेत्य᳚ब्रवीतने॒दं वा᳚ घा पिबता मुञ्ज॒नेज᳚नम् ।
सौध᳚न्वना॒ यदि॒ तन्नेव॒ हर्य᳚थ तृ॒तीये᳚ घा॒ सव᳚ने मादयाध्वै ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति᳚ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒॑नेज᳚नम् ।
सौध᳚न्वनाः । यदि᳚ । तत् । न॑इ᳚व । हर्य᳚थ । तृ॒तीये᳚ । घ॒ । सव᳚ने । मा॒द॒या॒ध्वै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमृषिर्देवैरुक्तमर्थंतान्संबोध्य यूयंऋभूनेवमुक्तवन्तःस्थेत्यनुवाचयति हेसौधन्वनाः सुधन्वनः पुत्राः यूयं इदमुदकं सोद्मलक्षणं पिबत इत्यब्रवीतन इत्युक्तवन्तः ब्रवीतेर्लङिमध्यमबहुवचनस्यतस्य- तनबादेशे पित्त्वाद्ब्रुवईट् एतत्प्रातः सवनिकाभिप्रायं वा अथवा घेत्यनर्थकः प्रसिद्भ्यर्थोवा इदंमुंज- नेजनं मुंजवान्नामपर्वतः सोमोत्पत्तिस्थानं ततआहृतत्वात्तेनमुंजतृणेनशोधितं अपगततृणमित्यर्थः इदंसोमरसरूपमुदकं पिबतेत्यब्रवीतन एतन्माध्यंदिनसवनाभिप्रायं हेऋभवः यूयंतत् उभयसवनसं- बन्धि सोमपानकार्यं नेवहर्यथ नैवकामयथ हर्यतिःकान्तिकर्मा हर्यतिउशिगितितत्कर्मसुपाठात् तृती- यसवनेतु मादयाध्वै अत्यर्थं तृप्ताभवथ ऋभवोदेवाःसोमस्य मत्सन्नितितृतीयसवने तेषांसोमपानस- द्भावात् एवंयूयमृभूनुक्तवन्तः अथवा ऋभून्प्रति तस्यैवेदं वाक्यं हेसौधन्वनाः यूयंदेवत्वंप्राप्य देवय- जनंप्रतिसोमपानायरथेनागत्य श्रांतानश्वान् प्रातः सवनेइदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन तत्र- दिनेच्छथ इदंवा मुंजनेजनं मुंजेनदूषितं वाजिनं पिबतेत्यब्रवीतन पश्चात्तद्वयंयदिनेवहर्यथ हेअश्वाः यूयं तृतीयसवने मादयाध्वै तत्रापिवाजिनप्रचारात् ॥ ८ ॥

1.161.9
आपो॒ भूयि᳚ष्ठा॒ इत्येको᳚ अब्रवीद॒ग्निर्भूयि᳚ष्ठ॒ इत्य॒न्यो अ᳚ब्रवीत् ।
व॒ध॒र्यन्तीं᳚ ब॒हुभ्य॒ः प्रैको᳚ अब्रवीदृ॒ता वद᳚न्तश्चम॒सा{4} अ᳚पिंशत ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । भूयि᳚ष्ठाः । इति᳚ । एकः᳚ । अ॒ब्र॒वी॒त् । अ॒ग्निः । भूयि᳚ष्ठः । इति᳚ । अ॒न्यः । अ॒ब्र॒वी॒त् ।
व॒धः॒॑यन्ती᳚म् । ब॒हु॑भ्यः᳚ । प्र । एकः᳚ । अ॒ब्र॒वी॒त् । ऋ॒ता । वद᳚न्तः । च॒म॒सान् । अ॒पिं॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चमसचतुर्धाकरणकालेकिमितिसत्यंमदन्तोव्यभजन्नितितदाह—एकस्त्रयाणामन्यतमः आपोभू- यिष्ठाइत्यब्रवीत् नह्युदकात्प्रशस्तंलोकोपकारकंतत्वान्तरमस्त्यतआपोभूयिष्ठाइत्येवमवादीत् अपा- मेवश्रेष्ठत्वमपएवससर्जादावित्यादिशास्त्रात् तथान्योऽग्निर्भूयिष्ठइत्यब्रवीत् आंतरंबाह्यं चदाहपाकभु- क्तजरणादिव्यापारेणाग्नेरेवजगन्निर्वाहकत्वात् अग्नेरेवभूयिष्ठत्वमित्येवमन्यते तथा वधर्यन्तींवधरि- तिरेफान्तोऽपिवज्रनाम वधः अर्कइतितन्नामसुपाठात् तदिच्छतिवृष्ट्यर्थंवज्रेणहन्यमानत्वात् तदि- च्छतीत्युपचर्यते यद्वा बहुभ्यस्तेषामर्थाय वधर्यन्तींवधमात्मनइच्छन्तींभूमिं छान्दसोरेफोपजनः ता- मेवैकःबहुभ्यः संवांदभ्यः श्रेष्ठतमामब्रवन्तः चमसान् अपिंशतअवयविनोऽकुरुत चतुर्धाव्यभजतेत्यर्थः पिशिअवयवे शेमुचादीनामितिनुम् इदमेवऋतवदनंअपेक्ष्यऋभुशब्दंव्याचक्षाणोयास्कः—ऋभवउ- रुभान्तीतिवर्तेनभवन्तीत्युक्तवान् ॥ ९ ॥

1.161.10
श्रो॒णामेक᳚ उद॒कं गामवा᳚जति मां॒समेकः᳚ पिंशति सू॒नयाभृ᳚तम् ।
आ नि॒म्रुच॒ः शकृ॒देको॒ अपा᳚भर॒त्किं स्वि᳚त्पु॒त्रेभ्य᳚ः पि॒तरा॒ उपा᳚वतुः ॥
▶ पदपाठः (Word-by-word)
श्रो॒णाम् । एकः᳚ । उ॒द॒कम् । गाम् । अव᳚ । अ॒ज॒ति॒ । मां॒सम् । एकः᳚ । पिं॒श॒ति॒ । सू॒नया᳚ । आ॑भृ᳚तम् ।
आ । नि॒॑म्रुचः᳚ । शकृ᳚त् । एकः᳚ । अप᳚ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः᳚ । पि॒तरौ᳚ । उप᳚ । आ॒व॒तुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रऋभवएवऋत्विग्रूपेणस्थित्वासर्वत्रयज्ञंनिर्वहंतीत्याह श्रोणांशोणं वाछन्दसीतिपररूपाभावः शोणवर्णमुदकंरुधिरं एकः ऋभुषुमध्येऋत्विग्गामवाजति वाह्यभूमिंप्रतिगमयति रक्षोभागत्वेनस्था- पयति तथा एकोमांसं सूनया छेदनसाधनेन स्वधितिनाआभृतं संपादितंपिंशति हृदयजिह्वावक्षआ- द्याकारेणआहृतंसंपादितंमांसंपिंशति अवयवीकरोति स्वधितिनातत्तदवयवान्विभजतीत्यर्थः अथै- कोनिम्रुचः निःशेषेणछिन्नान्मांसात् शकृत् कुक्षिस्थंजरत्तृणं ऊवध्यनामकं अपाभरत् अपाहरत् निर- सनाय एवं ऋत्विग्रूपेणस्थितेभ्यःपुत्रेभ्यः पुरुत्रातृभ्यः पुत्रस्थानीयेभ्यः ऋभुभ्यः सर्वेष्वनुष्ठितेषु पि- तरायज्ञस्यपालयितारौजायापती किंस्विदुपावतुः किंनु खलुप्राप्नुतः अवतेःप्राप्त्यर्थाच्छान्दसोलिट् सं- र्वतैरेवानुष्ठितमिति तयोर्नकिंचित्कृत्यमस्तीत्यर्थः अथवायमर्थः एकस्तेषामन्यतमः श्रोणां पंगुक्रांगां उदकं प्रत्यवगमयति अपरः सूनयामां सविक्रयिण्याभृतंसंपादितंमांसंपिंशति पित्रोरर्थे अपरआनिम्नु-चः अस्तमयादर्वागेव शकृद्गोपुरीषंहरति एवमृभुभिरनुष्ठितेसति किंस्वित् एतस्मात्परिचरणादन्यत् पुत्रेभ्यः पितरौउपावतुः उपगच्छेतामिति ॥ १० ॥

1.161.11
उ॒द्वत्स्व᳚स्मा अकृणोतना॒ तृणं᳚ नि॒वत्स्व॒पः स्व᳚प॒स्यया᳚ नरः ।
अगो᳚ह्यस्य॒ यदस᳚स्तना गृ॒हे तद॒द्येदमृ᳚भवो॒ नानु᳚ गच्छथ ॥
▶ पदपाठः (Word-by-word)
उ॒द्वत्॑सु᳚ । अ॒स्मै॒ । अ॒कृ॒णो॒त॒न॒ । तृण᳚म् । नि॒वत्॑सु᳚ । अ॒पः । सु॒॑अ॒प॒स्यया᳚ । न॒रः॒ ।
अगो᳚ह्यस्य । यत् । अस᳚स्तन । गृ॒हे । तत् । अ॒द्य । इ॒दम् । ऋ॒भ॒वः॒ । न । अनु᳚ । ग॒च्छ॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुराणप्रसिद्धान्सुधन्वनः पुत्रान्कर्मणादेवत्वंप्राप्तवतोऋभून्स्तुत्वावेदप्रसिद्ध्या सूर्यरश्मिरूपानृ- भूनिदानींस्तौति तथाचयास्कोनिरुक्तेपुराणप्रक्रियासिद्धानृभून्बहुधानिरुच्यतदुदाहरणत्वेनविष्ट्वी- शमीत्येतामुदाहृत्यादित्यरश्मयोऽप्यृभवउच्यन्तइत्युक्त्वातस्मिन्नर्थेएतामृचमुदाजहार—हेऋभवः उरुप्रभूतं भासमानाः ऋतेनादित्येनभासमानावाऋतेनोदकेनउदकार्थमुत्पन्नावारश्मीनामुरुभासमा- नत्वंप्रसिद्धम् तथाआदित्यादुत्पत्तिरपिउदकार्थंभवनमपिरश्मीनांघर्मकालेभूमिगतंसारमादायपुनर्व- र्षकालेप्रवर्षंतीतिप्रसिद्धम् आदित्याच्चायतेवृष्टिरितिशास्त्रात् तथाविधानरः प्रकाशवृष्ट्युदकादेर्नेता- रोयूयं उद्वत्सुउन्नतेषुप्रदेशेषुमेर्वादिषु तृणंव्रीहियवादिरूपं अस्मैप्राणिजातायउपद्कारार्थंअकृणोतन कृतवन्तःस्थ उपसर्गाच्छन्दसिधात्वर्थेइतिवतिः तथा निवत्सुप्रवणदेशेषु अस्माएवअपउदकान्यकृणो- तन अकुर्वत किंस्वभोगार्थं नेत्याह स्वपस्ययाशो भनकर्मेच्छया शोभनंकर्मैभिः कृतमितियजमानाः स्तुवन्तितदिच्छयेत्यर्थः किंच यूयंअगोह्यस्याग्राह्यस्यादित्यस्यगृहेमण्डलेयत् यावत्कालंअसस्तनसुप्त- वन्तःस्थ रात्रौनिर्व्यापारास्तिष्ठथ षसस्वप्ने अस्माल्लङिपूर्ववत्तस्यतनबादेशः अदादित्वाच्छपोलुक् तत्तावन्तंकालं अद्याहनिइदंइदानीं नानुगच्छथअनुसृत्यनगच्छथ यावन्तंकालंरात्रौ सूर्येनिगूढावर्तध्वे तावन्तमेवकालमहन्यपिनानुगच्छथेत्यर्थः यद्वा अगोपनीयस्यतस्यगृहेअन्तरिक्षेयत् यावन्तंकालंअस- स्तन वृष्टिमदत्त्वास्वापमकुरुत तत्तावंतंकालं अद्येदानींवर्षसमये इदंसस्याभिवर्धनवृष्टिप्रवाहरूपंक- र्मनानुगच्छथअनुसृत्यनप्राप्नुथ यावन्तंकालंविवर्षथ तावन्तमेवकालंप्रवर्षथेत्यर्थः ॥ ११ ॥

1.161.12
स॒म्मील्य॒ यद्भुव᳚ना प॒र्यस᳚र्पत॒ क्व᳚ स्वित्ता॒त्या पि॒तरा᳚ व आसतुः ।
अश᳚पत॒ यः क॒रस्नं᳚ व आद॒दे यः प्राब्र᳚वी॒त्प्रो तस्मा᳚ अब्रवीतन ॥
▶ पदपाठः (Word-by-word)
स॒म्॑मील्य᳚ । यत् । भुव᳚ना । प॒रि॒॑अस᳚र्पत । क्व᳚ । स्वि॒त् । ता॒त्या । पि॒तरा᳚ । वः॒ । आ॒स॒तुः॒ ।
अश᳚पत । यः । क॒रस्न᳚म् । वः॒ । आ॒॑द॒दे । यः । प्र । अब्र᳚वीत् । प्रो इति᳚ । तस्मै᳚ । अ॒ब्र॒वी॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋभवोरश्मयोयूयं यत् यदाभुवनाभूतजातानि संमील्यसंमीलनंक्रुत्वाजलधरपटलैराच्छाद्यप- र्यसर्पत परितःसर्पणंकुरुथ वर्षथेत्यर्थः तदा ता त्या ता तौ तायमानेवृष्ट्युदके यद्वा तात्या तासु व- र्षासु छान्दसस्त्यप्रत्ययोदकारस्यात्वंच अथवा पितृविशेषणं तात्या तत्कालीनौ पितरा पितरौ ज- गतः पालकौसूर्याचन्द्रमसौ क्वस्विदासतुः कुत्रखलुतिष्ठतः अस्तेर्लिटि व्यत्ययेनभूभावाभावः यद्वा अ- सतेर्गत्यर्थस्यलिट्येतद्रूपं अहोरात्राविभागेनप्रवर्षथेत्यर्थः किंच ईदृशान्वोयुष्मान्यःकोऽपि वृष्टिप्रति- बंधकारीराक्षसादिः करस्नं बाहुनामैतत् करस्नौबाहूइत्युक्तत्वात् अत्रत्वकारान्तं युष्मदीयंहस्तंआददे- गृह्णाति प्रतिरोधंकरोति तमशपत नाशयथ यश्चप्राब्रवीत् प्रकर्षेणवाचानिरूंधेतस्मै प्रो प्रैवाब्रवीतन प्रकर्षेणभर्त्सनादिशब्दंकुरुथ यद्वा योनूनंस्तौति तंप्रकर्षेणस्तुतेत्यर्थः ॥ १२ ॥

1.161.13 समानपद
सु॒षु॒प्वांस᳚ ऋभव॒स्तद᳚पृच्छ॒तागो᳚ह्य॒ क इ॒दं नो᳚ अबूबुधत् ।
श्वानं᳚ ब॒स्तो बो᳚धयि॒तार᳚मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य᳚ख्यत ॥
▶ पदपाठः (Word-by-word)
सु॒षु॒प्वांसः᳚ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो᳚ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् ।
श्वान᳚म् । ब॒स्तः । बो॒ध॒यि॒तार᳚म् । अ॒ब्र॒वी॒त् । सं॒व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋभवः रश्म्यात्मकायूयं सुषुप्वांसः आदित्यमण्डले स्वपन्तोवर्षणाय स्वपेर्लिटः क्वसुः तत् तमादित्यं तद्वाक्यमपृच्छथ प्रश्नंकुरुथ किंतदितिचेदुच्यते हेगोह्य केनचिदगोपनीयादित्यस्वामिन् नोऽस्मदीयमिदंकर्मवर्षणरूपंकः अबूबुधत् बोधयति प्रेरयति साहाय्यंकरोति बुधेर्ण्यन्ताल्लुङिचङि- रूपं बस्तः सर्वस्यवासयिता आदित्यः वसेरौणादिकस्तप्रत्ययः बवयोरभेदात् बत्वं बोधयितारंप्रेर- यितारंश्वानमब्रवीत् अंतरिक्षेश्वसंतंवायुंप्रावादीत् असौयुष्मान्प्रेरयतीति अथवा वायुसाहाय्येनवर्ष- न्तोयूयंसंवत्सरेपूर्णेअद्येदानींइदंजगत् व्यख्यत विविधंप्रकाशितवन्तः पूर्वंसूर्याचन्द्रमसौयथानदृश्येते तथावर्षित्वेदानींवर्षकालेतीतेविश्वंजगद्भ्यक्तंकुरुथेत्यर्थः ख्यातेर्लुङ्यस्यतिवक्तिख्यातीत्यङ् ॥ १३ ॥

1.161.14
दि॒वा या᳚न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो᳚ अ॒न्तरि᳚क्षेण याति ।
अ॒द्भिर्या᳚ति॒ वरु᳚णः समु॒द्रैर्यु॒ष्मा{4} इ॒च्छन्त᳚ः शवसो नपातः ॥
▶ पदपाठः (Word-by-word)
दि॒वा । या॒न्ति॒ । म॒रुतः᳚ । भूम्या᳚ । अ॒ग्निः । अ॒यम् । वातः᳚ । अ॒न्तरि᳚क्षेण । या॒ति॒ ।
अ॒त्॑भिः । या॒ति॒ । वरु᳚णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः᳚ । श॒व॒सः॒ । न॒पा॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशवसोवृष्टिकार्यस्यबलस्य नपातोनपातयितारः ऋभवः युष्मान् इच्छन्तः वृष्ट्यनुकूलचिकीर्ष- या युष्मानेवेच्छन्तः सर्वेदेवाः आयांति कस्मादितितदुच्यते मरुतः वृष्ट्यनुकूलादेवाः दिवा द्युलोका- दन्तरिक्षात् यान्तिआगच्छन्ति सावेकाचइतितृतीया विभक्तेरुदात्तत्वं भूम्याः भूमेः सकाशादग्निर्याति आगच्छति अयंवातः सर्वदासंचारीवायुः अन्तरिक्षेणयातिअन्तरिक्षादायाति तथावरुणः आवरकोज- लाभिमानीदेवः समुद्रैः समुन्दनस्वभावैरद्भिः ताभ्यआयाति यद्वा पूर्वं वृष्टिसाहाय्यायागताःएतेदेवाः कृतकार्याःसंतः पुनर्युष्मान्कामयमानाः स्वस्वदेशंप्रतियान्तीत्यर्थः ॥ १४ ॥

मानोमित्रइतिद्वाविंशत्यृचंपंचमंसूक्तं दैर्घतमसं तृतीयाषष्ठ्यौजगत्यौ शिष्टास्त्रिष्टुभः अश्वस्यस्तू- यमानत्वाद्यातेनोच्यतेसादेवतेतिन्यायेनाश्वोदेवता अत्रानुक्रमणिका—मानिद्भ्यधिकाश्वस्तुतिस्तु तृ- तीयाषष्ठ्यौजगत्याविति । अश्वमेधस्यमध्यमेहन्यध्रिगुप्रैषे अध्रिगोशमीध्वमितिशिष्ट्वाषड्विंशति- रस्यवंक्रयइतिअस्मात्पुरस्ताद्वैतत्सूक्तमावपेत् त्रीणिसुत्यानिभवन्तीतिखण्डेसूत्रितम्—अध्रिगोशमी- ध्वमितिशिष्ट्वाषड्विंशतिरस्यवंक्रयइतिवामानोमित्रइत्यावपेतेति ।