अ॒न्यस्य᳚ चि॒त्तम॒भि सं᳚च॒रेण्य᳚मु॒ताधी᳚तं॒ वि न᳚श्यति ॥
पदपाठः (Word-by-word)
अ॒न्यस्य᳚ । चि॒त्तम् । अ॒भि । स॒म्॑च॒रेण्य᳚म् । उ॒त । आ॑धी᳚तम् । वि । न॒श्य॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
परिदेवनप्रकारः प्रतिपाद्यते इन्द्रआह—अद्यतनंयदस्तितन्नूनमद्यनास्ति नूनमत्रविचिकित्सार्थे अत्राद्येतियद्यपिनास्ति तथाप्युत्तरवाक्येश्वइतिदर्शनादत्राद्येतिगम्यते तथाश्वोपिनूनंनोउशब्दोऽव- धारणे श्वस्तनमपिनैव नास्ति अद्ययथास्मदर्थंनिरुप्तमस्मभ्यंनास्तिकिल श्वःकथंलप्स्यतइतिभावः यदद्भुतंअन्यस्मैनिरुप्यान्यस्मैदत्तमितियदस्ति वैपरीप्यंतत्कोवेद यद्वा यदद्भुतं भाविकार्यंयदस्ति- तत्कोवेद अद्यश्वोवालभ्यतइतिआशानकार्येत्युक्तंभवति तदेवाह—अभिसञ्चरेण्यंसर्वतःसञ्चारि अन्य- स्यचित्तंमानसंकोवाजानातीतिशेषः उतअपिच आधीतंआध्यातंचिन्तितमपिविनश्यति किमुसकृ- त्स्मृतंनश्यतीति ॥ १ ॥