द्वाविति॒ प्लुषी॒ इति॒ न्य१॒᳚दृष्टा᳚ अलिप्सत ॥
पदपाठः (Word-by-word)
द्वौ । इति᳚ । प्लुषी॒ इति᳚ । इति᳚ । नि । अ॒दृष्टाः᳚ । अ॒लि॒प्स॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
कङ्कतः अल्पविषः कश्चिन्नकङ्कतः तद्विपरीतः अनल्पविषोमहारोगादिः तकतेर्गत्यर्थस्यवर्ण- व्यत्ययेनकङ्कतइतिसरन् भवति अथोअपिचसतीनकङ्कतः सतीनमित्युदकनाम सतीनंगहनमिति- तन्नामसुपाठात् उदकचारीअल्पविषवान् कश्चित् डुंडुभादिः एवंद्वावितिअल्पविषमहाविषभेदेनजल- स्थलभेदेन्वाद्विप्रकारौइतिप्लोषणावितिप्रकारद्वैविध्यदाहकत्वयोः प्रतिपादनायेतिकारद्वयं तथाअदृ- ष्टाअदृश्यमानरूपाः एतत्संज्ञकाश्चकेचित् विषधराएवमुक्तप्रकारायेसन्ति तेनूनंमान्यलिप्सत निः- शेषेणलिंपन्ति सर्वाण्यङ्गानिविषमावृणोति केनैवंकृतमितिनज्ञायतेइतिभावः ॥ १ ॥