प्रथमं मण्डलम् - सूक्तम् 51

15 ऋचः

ऋषिः: सव्य आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.51 - सम्पूर्णम्

1 / 15
ऋक्: 1.51.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.51.1 समानपद
अ॒भि त्यं मे॒षं पु᳚रुहू॒तमृ॒ग्मिय॒मिन्द्रं᳚ गी॒र्भिर्म᳚दता॒ वस्वो᳚ अर्ण॒वम् ।
यस्य॒ द्यावो॒ न वि॒चर᳚न्ति॒ मानु᳚षा भु॒जे मंहि᳚ष्ठम॒भि विप्र᳚मर्चत ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्यम् । मे॒षम् । पु॒रु॒॑हू॒तम् । ऋ॒ग्मिय᳚म् । इन्द्र᳚म् । गीः॒॑भिः । म॒द॒त॒ । वस्वः᳚ । अ॒र्ण॒वम् ।
यस्य᳚ । द्यावः᳚ । न । वि॒॑चर᳚न्ति । मानु᳚षा । भु॒जे । मंहि᳚ष्ठम् । अ॒भि । विप्र᳚म् । अ॒र्च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशमेऽनुवाके सप्त सूक्तानि । तत्राभि त्यमिति पंचदशर्चं प्रथमं सूक्तम् । अत्रेतिहासमाचक्षते अंगिरा इंद्रसदृशं पुत्रमात्मनः कामयमानो देवता उपासां चक्रे । तस्य सव्याख्येन पुत्ररूपेणेंद्र एव स्वयं जज्ञे जगति मत्तु ल्यः कश्चिन्मा भूदिति । स सव्य आंगिरासोऽस्य सूक्तस्य ऋषिः । चतुर्दशीपंचदश्यौ त्रिष्टुभौ । त्रिष्टुबंतस्य सूक्तस्य शिष्टा जगत्य इति परिभाषयावशिष्टास्त्रयोदशर्चो जगत्यः । इंद्रो देवता । तदेतत्सर्वमनुक्रमण्यामुक्तम् । अभि त्यं पंचोना सव्यो द्वित्रिष्टुबंतमंगिरा इंद्रतुल्यं पुत्रमिच्छन्नभ्यध्यायत्सव्य इतींद्र एवास्य पुत्रोऽजायतेति ॥ अतिरात्रे प्रथमो रात्रिपर्याये होतुः शस्त्र इदं सूक्तं शंसनीयम् । अतिरात्रे पर्यायाणामिति खंडे सूत्रितम् । अभित्यं मेषमध्वर्यवो भरतेंद्राय सोममिति यज्या (आ ६-४) इति । गवामयनस्य मध्य भूते विषुवत्संज्ञ केऽहन्यपि निष्केवल्य इदं सूक्तं शंसनीयम् । तथा च सूत्रितम् । यस्तिग्मशृंगोऽभि त्यं मेषमिंद्रस्यनु वीर्याणीत्येतस्मिन्नैंद्रीं निविदं शस्त्वा । अ ८-६ । इति ॥

त्यं प्रसिद्धं मेषं शत्रुभिः स्पर्धमानम् । यद्वा । कण्वपुत्रं मेधातिथिं यजमानमिंद्रो मेषरूपेणागत्य तदीयं सोमं पपौ । स ऋषिस्तं मेष इत्यवोचत् । अत इदानीमपि मेष इतींद्रोऽभिधीयते । मेधातिथेर्मेषेति सुब्रह्मण्यमंत्रैकदेशस्य व्याख्यानरूपं ब्राह्मणमेवमाम्नायते । मेधातिथिं हि कण्वायनिं मेषो भूत्वाजहारेति । आगत्य सोममपहृतवानित्यर्थः । पुरुहूतं पुरुभिर्यजमानैराहूतं ऋग्मियमृग्भिर्विक्रियमाणम् । स्तूयमानमित्यर्थः । स्तुत्या हि देवता विक्रियते । यद्वा । ऋग्भिर्मियते शब्द्यत इति ऋग्मीः । तम् । वस्वो अणवं धनानामावासभूमिं एवंगुणविशिष्टमिंद्रं हे स्तोतारो गीर्भिः स्तुतिभिरभि मदत । आभिमुख्येन हर्षं प्रापयत । यस्येंद्रस्य कर्माणि मानुषा मनुष्याणां हितानि विचरंति विशेषेण वर्तंते । तत्र दृष्टांतः । द्यावो न । यथा सूर्यरश्मयः सर्वेषां हितकराः । भुजे भोगा मंहिष्ठमतिशयेन प्रवृद्धं विप्रं मेधाविनं तथाविधमिंद्रमभ्यर्चत । अभिपूजयत ॥ मेषं मिष स्पर्धायाम् । इगुपधलक्षणे के प्राप्ते देवसेनमेषादयः पचादिषु द्रष्टव्या इति वचनादच् प्रत्ययः । ऋग्मियम् । तस्य विकार इत्यर्थः एकाचो नित्यं मयटमिच्छंति । का ४-३-१४४ । इति मयट् प्रत्ययः । अकारस्येकारश्छांदसः । प्रत्ययस्वरः । यद्वा । माङ् माने शब्दे च । ऋग्भर्मियत इति ऋग्मीः । क्विपि वलि लोपात्पूर्वमेव परत्वात् घुमास्थेतीत्वम् । अचि श्नुधात्वित्यादिनेयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । मदत । मदी हर्षे । हेतुमिति णिच् । मदी हर्षग्लपनयोरिति घटादिषु पाठात् हर्षार्थे वर्तमानस्य घटादयो मितः । धा । १९-१ । इति मित्त्वे सति मितां ह्रस्वः (पा ६-४-९२) इति ह्रस्वत्वम् । लोण्मध्यमपुरुषबहुवने शपि च्छंदस्युभयथेत्यार्धधातुकत्वात् णेरनिटीतिणिलोपः । तशब्दस्य सार्वधातुकमपिदिति ङित्व्वे ऋचि तुनुघमक्षुतङ् कुत्रोरुष्याणामिति दीर्घः । वस्वः । ङस्यागमानुशासनस्यानित्यत्वान्नु मभावः । जसादिषु च्छंदसि वावचनम् । पा ७-३-१०९-१ । इति वचनात् घेर्ङुति (पा ७-३-१११) इति गुणाभावे यणादेशः । अर्णवम् । अर्णं उदकमस्मिन्नस्तीत्यर्णवः समुद्रः । अर्णसो लोपश्च । का ५-२-१०९-३ । इति मत्वर्थीयो वप्रत्ययः सलोपश्च । तेन शब्देन जलाश्रयवाचिनाश्रयमात्रं लक्ष्यते । प्रत्ययस्वरः । विचरंति । चर गत्यर्थः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गतिरनुदात्ता । यद्वृत्तयोगादनिघातः । मानुषा । शेश्चंदसि बहुलमिति शेर्लोपः । भुजे । भुज पालनाभ्यवहारयोः । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मंहिष्ठम् । महि वहि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्विति तृलोपः । नित्त्वादाद्युदात्तत्वम् । अर्चक । अर्च पूजायाम् । भौवादिकः ॥ १ ॥

1.51.2
अ॒भीम᳚वन्वन्त्स्वभि॒ष्टिमू॒तयो᳚॑न्तरिक्ष॒प्रां तवि᳚षीभि॒रावृ᳚तम् ।
इन्द्रं॒ दक्षा᳚स ऋ॒भवो᳚ मद॒च्युतं᳚ श॒तक्र᳚तुं॒ जव᳚नी सू॒नृतारु᳚हत् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ई॒म् । अ॒व॒न्व॒न् । सु॒॑अ॒भि॒ष्टिम् । ऊ॒तयः᳚ । अ॒न्त॒रि॒क्ष॒॑प्राम् । तवि᳚षीभिः । आ॑वृ᳚तम् ।
इन्द्र᳚म् । दक्षा᳚सः । ऋ॒भवः᳚ । म॒द॒॑च्युत᳚म् । श॒त॑क्र᳚तुम् । जव᳚नी । सू॒नृता᳚ । आ । अ॒रु॒ह॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊतयोऽविशारो रक्षितारो दक्षासो दक्षयितारः प्रवर्धयितार ऋुभवः । उरु भांतीति नैरुक्तव्युत्पत्त्या ऋुभवोऽत्र मरुत उच्यंते । एवंभूता मरुत इंद्रमभीमवन्वन् । आभिमुख्येन खल्वभजंत । वृत्रेण सह युध्यमानमिंद्रं सर्वे देवाः पर्यत्यजन् । मरुतस्तु तथा न पर्यत्याक्षुः । तथा चाम्नास्यते । विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिंद्र सख्यं ते अस्तु । ऋग्वे ८-९६-७ । इति । ब्राह्मणेऽप्याम्नातम् । मरुतो हैनं नाजहुः । ऐ ब्रा ३-२० । इति । कीदृशमिंद्रं स्वभिष्टिं शोभनाभ्येषणवंतम् । शोभनाभिगमनमित्यर्थः । अंतरिक्षप्राम् । अंतरिक्षं द्युलोकं स्वतेजसा प्राति पूरयतीत्यंतरिक्षप्राः । द्वादशस्वादित्ये ष्टिंद्रस्य विद्यमानत्वात् । शाखांतरेऽपि श्रूयते । तस्या इंद्रश्च विवस्वाग् श्चाजायेताम् । तै ब्रा १-१-९-३ । इति । इंद्रश्च विवस्वांश्चेत्येते इति च । तविषीभिरावृतम् । तविषीति बलनाम । तविषी शुष्ममिति तन्नामनु पाठात् । बलैरावृतम् । अति बलिनमित्यर्थः । अत एव मदच्युतं शत्रूणां मदस्य गर्वस्य च्यावयितारम् । किं च शतक्रतुं शतसंख्यानां क्रतूनामाहर्तारं बहुविधकर्माणं वा । पूर्वोक्त तमिंद्र जवनी वृत्रवधं प्रति प्रेरयित्री सूसृता तैर्मरुद्भिः प्रयुक्ता प्रहर भगवो जहि वीरयस्व । ऐ ब्रा ३-२० । इति ब्राह्मणोक्तरूपा प्रियसत्यात्मिका वागप्यारुहत् । आरूढवती । वृत्रवधं प्रति सापि वागिंद्रस्योत्साहकारिण्यभूदित्यर्थः ॥ अवन्वन् । वन षण संभक्तौ । लङि तपि प्राप्ते व्यत्ययेनोप्रत्ययः । स्वभिष्टिम् । इष गतौ । भावे क्तिन्प्रत्ययः । तितुत्रेत्यादिनेट् प्रतिषेधः । एमनादित्वात्पररूपत्वम् । पा ६-१-९४-६ । शोभना अभिष्टयो यस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ऊतयः । अवतेः कृत्य ल्युटो बहुलमिति कर्तरि क्तिन्प्रत्ययः । यद्वा । क्विच् क्तौ च संज्ञायामिति क्तिच् ज्वरत्वरेत्यादिनोट् । चित इत्यंतोदात्तत्वम् । अंतरिक्षप्राम् । प्रा पूरणे । अंतरिक्षं प्राति पूरयतीत्यंतरिक्षप्राः । आतो मनिन्नत्यत्र चशब्दाद्विच् । आवृतं वृञ् वरणे । आव्रियत इत्यावृः । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । दक्षासः । दक्ष वृद्धौ । दक्षंत एभिरिति दक्षाः । करणे घञ् । ञुत्त्वादाद्युदात्तत्वम् । अज्चसेरसुक् । मदच्युतम् । च्युङ् गतौ । अंतर्भावितण्यर्थात् क्विप्चेति क्विप् । ह्रस्वस्य पिति कृतीति तुक् । शतक्रतुम् । शतं क्रतवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवनी । जु इति सौत्रो धातुः । करणे ल्युट् । टड्ढाणञित्यादिना ङेप् । लित्स्वरेण जकारात्परस्योदात्तत्वम् । अरुहत् । अरुहेर्लुङि कृमृदृरुहिभ्यश्चंदसीति च्लेरङादेशः ॥ २ ॥

1.51.3 समानपद
त्वं गो॒त्रमङ्गि᳚रोभ्यो॑वृणो॒रपो॒तात्र᳚ये श॒तदु᳚रेषु गातु॒वित् ।
स॒सेन᳚ चिद्विम॒दाया᳚वहो॒ वस्वा॒जावद्रिं᳚ वावसा॒नस्य᳚ न॒र्तय᳚न् ॥
▶ पदपाठः (Word-by-word)
त्वम् । गो॒त्रम् । अङ्गि᳚रः॑भ्यः । अ॒वृ॒णोः॒ । अप᳚ । उ॒त । अत्र᳚ये । श॒त॑दु᳚रेषु । गा॒तु॒॑वित् ।
स॒सेन᳚ । चि॒त् । वि॒॑म॒दाय᳚ । अ॒व॒हः॒ । वसु᳚ । आ॒जौ । अद्रि᳚म् । व॒व॒सा॒नस्य᳚ । न॒र्तय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं गोत्रमव्यक्तशब्दवंतं वृष्ट्युदकस्यावरकं मेघमंगिरोभ्योऽंगिरसामृषीणामर्थायापावृणोः । अपवरणं कृतवानसि । वृष्टेरावरकं मेघं वज्रेणोद्घाट्य वर्षणं कृतवानसीत्यर्थः । यद्वा । गोत्रं गोसमूहं पणिभिरपहृतं गुहासु निहितमंगिरोभ्य ऋषिभ्योऽपावृणोः । गुहाद्वारोद्घाटनेन प्राकाशयः । उतापि चात्रये महर्षये । कीदृशाय । शतदुरेषु शतद्वारेषु यंत्रेष्वसुर्यैः पीडार्थं प्रक्षिप्ताय । गातुवित् मार्गस्य लंभयिताभूः । तथा विमदाय चित् विमदनाम्ने महर्षयेऽपि ससेनान्नेन । युक्तं वसु धनमवहः । प्रापितवान् । तथाजौ संग्रामे जयार्थं ववसानस्य निवसतो वर्तमानस्यान्यस्यापि स्तोतुरद्रिं वज्रं नर्तयन् रक्षणं कृतवानसीति शेषः । अतस्तव महिमा केन वर्णयितुं शक्यत इति भावः ॥ गोत्रम् । गुङ् अव्यक्ते शब्दे । औणादिकस्त्रप्रत्ययः । यद्वा । खलगोरथादित्यनुवृत्ताविनित्रकट्यचश्च (पा ४-२-५१) इति समूहार्थे त्रप्रत्ययः । शतदुरेषु । शतं दुरा द्वाराण्येषाम् । द्वृ इत्येके । द्वर्यंते संव्रियंत इति दुराः घञर्थे कविधानमिति कप्रत्ययः । छांदसं संप्रसारणं परपूर्वत्वम् । तचयो ह्युभयोः स्थाने भवति स लभतेऽन्यतरेणापि व्यपदेशमित्युरण् रपरः (पा १-१-५१) इति रपरं भवति । यद्वा । द्वारशब्दस्यैव च्छांदसं संप्रसारणं द्रष्टव्यम् । गातुवित् । गाङ् गतौ । अस्मात्कमिमनिजनिभागापायाहिभ्यश्च (उ १-७३) इति तुप्रत्ययः । तं वेदयति लंभयतीति गातुवित् । विद्लृलाभे । अंतर्भावितण्यर्थात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ससेन । ससमित्यन्ननाम । ससं नम आयुरिति तन्नामसु पाठात् । आजिरिति संग्रामनाम । आहव आजाविति तत्र पाठात् । आद्रिम् । अत्ति भक्षयति वैरिणमित्यद्रिर्वज्रः । अदिशदिभूशुभिभ्यः क्रिन्निति क्रिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यास्कस्त्वेवमद्रिशब्दं व्याचख्या । अद्रिरादृणात्यनेनापि वात्तेः स्यात् । नि ४-४ इति । ववसानस्य । वस निवासे कर्तरि शाच्छीलिकश्चानश् । बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषौ । चित्त्वादंतोदात्तत्वं ॥ ३ ॥

1.51.4
त्वम॒पाम᳚पि॒धाना᳚वृणो॒रपाधा᳚रय॒ः पर्व᳚ते॒ दानु᳚म॒द्वसु᳚ ।
वृ॒त्रं यदि᳚न्द्र॒ शव॒साव᳚धी॒रहि॒मादित्सूर्यं᳚ दि॒व्यारो᳚हयो दृ॒शे ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒पाम् । अ॒पि॒॑धाना᳚ । अ॒वृ॒णोः॒ । अप᳚ । अधा᳚रयः । पर्व᳚ते । दानु᳚॑मत् । वसु᳚ ।
वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव᳚सा । अव᳚धीः । अहि᳚म् । आत् । इत् । सूर्य᳚म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वमपामुदकानामपिधानापिधानान्याच्छादकान्मेघानपावृणोः । अपावरीष्ठाः । तथा पर्वते पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीयनिवासस्थाने डानुमत् दानुमतो हिंसायुक्त स्य । यद्वा । दनुरसुरमाता सैव दानुः । तद्वतः । तादृशस्य वृत्रादेर्वसु धनमधारयः । शत्रूञ्जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचिक्षिप इत्यर्थः । यद्वा । दानुमदिति वसुविशेषणम् । शोभनदानयुक्तमित्यर्थः । हे इंद्र त्वं यद्यदा शवसा बलेन वृत्रं त्रयाणां लोकानामावरीतारम् । तथा च शाखांतरे समाम्नातम् । यदिमान् लोकानवृणोत्तद्वृत्रस्य वृत्रत्वम् । तै सं २-४-१२-२ । इति । अहिं आ समंताद्धंतारम् । तथा च वाजसनेयिनः समामनंति । सोऽग्नीषोमावभिसंबभूव सर्वां विद्यां सर्वं यशः सर्वमन्ना दृं सर्वां श्रियं स यत्सर्वमेतत्समभवत्तस्मादहिरिति । एवंभूतमसुरमवधीः वधं प्रापितः । आदित् अनंतरमेव दिवि द्युलोके दृशे द्रष्टुं सूर्यमारोहयः । वृत्रेणावृतं सूर्यं तस्माद्वृत्रादमूमुच इत्यर्थः । अपाम् । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । अपिधाना । अपिधीयत आच्छाद्यत एभिरित्यपिधानानि । करणे लुट् । रितीति प्रत्ययात्पूर्वस्य धात्वाकारस्योदात्तत्वम् । तत एकादेशस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वम् । अधारयः । पादादित्वान्निघाताभावः । पर्वते । पर्ववान् पर्वतः । पर्व पुनः पृणातेः प्रीणातेर्वा नि १-२० । इति यास्कः । दानुमत् । दो अवखंडन इत्यस्माद्वा दाभाभ्यां नुरित्यौणादिको नुप्रत्ययः । असुरविशेषणत्वे सुपां सुलुगिति षष्ठ्या लुक् ॥ ४ ॥

1.51.5 समानपद
त्वं मा॒याभि॒रप᳚ मा॒यिनो᳚॑धमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु᳚ह्वत ।
त्वं पिप्रो᳚र्नृमण॒ः प्रारु᳚ज॒ः पुर॒ः प्र ऋ॒जिश्वा᳚नं दस्यु॒हत्ये᳚ष्वाविथ ॥
▶ पदपाठः (Word-by-word)
त्वम् । मा॒याभिः᳚ । अप᳚ । मा॒यिनः᳚ । अ॒ध॒मः॒ । स्व॒धाभिः᳚ । ये । अधि᳚ । शुप्तौ᳚ । अजु᳚ह्वत ।
त्वम् । पिप्रोः᳚ । नृ॒॑म॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः᳚ । प्र । ऋ॒जिश्वा᳚नम् । द॒स्यु॒॑हत्ये᳚षु । आ॒वि॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं मायाभिर्जयोपायज्ञानैः । मायेति ज्ञाननाम । शची मायेति तन्नामसु पाठात् । यद्वा मायाभिर्लोकप्रसिद्धैः कपटैः । मायिन उक्तलक्षणमायोपेतान्वृत्रादीनसुरानपाधमः । अपाजीगमः । धमतिर्गतिकर्मेति यास्कः (नि ६-२) येऽसुराः स्वधाभिर्हविर्लक्षणैरन्नैः शुप्तावधि शोभमाने स्वकीये मुख एवाजुह्वत आहौषु नाग्नौ । तानसुरानिति पूर्वेण संबंधः । तथा च कौषीतकिभिराम्नायते । असुरा वा आत्मन्न जुहवुरुद्वातेऽग्नौ ते पराभवन्निति । वाजसनेयिभिरप्याम्नातम् । देवाश्च ह वा असुराश्चास्पर्धंत ततो हासुरा अभिमानेन कस्मै च न जुहुम इति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते पराबभूवुरिति । तथा हे नृमणो नृषु यजमानेषु रक्षितव्येष्वनुग्रहबुद्धियुक्त त्वं पिप्रोः पूरयितुरेतन्नाम्नोऽसुरस्य पुरः पुराणि निवासस्थानानि प्रारुजः । प्राभांक्षीः । एवं कृत्वा तेना सुरेणोपद्रुतमृजिश्वानमृजुगमनमेतत्संज्ञ कं स्तोतारं दस्यु हत्येषु दस्यू नामु पक्षपयितृणां हननेन युक्तेषु संग्रामेषु । यद्वा । दस्यूनां हनने निमित्तभूतेषु । प्राविथ । प्रकर्षेण ररक्षिथ । मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् व्रीह्यादिभ्यश्चेति मत्वर्थीय इनिः । शुप्तौ । शुभ दीप्तौ । कर्मणि क्तिन् । तितुत्रेत्यादिनेट् प्रतिषेधः । झषस्तथोरिति धत्वाभावश्छांदसः । खरि च (पा ८-४-५५) इति चर्त्वं अजुह्वत । जुहोतेर्लङि व्यत्ययेनात्मनेपदम् । अदभ्यस्तात् (पा ७-१-४) इति झस्यादेशः । हुत्नुवोः सार्वधातुक इति यणादेशः । पिप्नोः । पृ पालनपूरणयोः । पृभिदिव्यधीत्यादिना । उ २४ । कु प्रत्ययः । उदोष्ठ्यपूर्वस्येत्यत्र बहुलं छंदसीत्युक्तत्वादुत्वाभावः । छांदसं द्विर्वचनम् । अभ्यासस्योरदत्वहलादि शेषाः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वम् । यणादेशः । नृमणः । नृषु मनो यस्य । छंदस्यृदवग्रहात् (पा ८-४-२६) इति णत्वम् । अरुजः । रुजो भंगे । तस्य ङित्त्वाद्गुणाभावः । ऋजिश्वानम् । ऋज्वश्नुते प्राप्नोतीत्यृजिश्वा । पृषोदरादिः । दस्युहत्येषु । हन हिंसागत्योः । हनस्त च (पा ३-१-१०८) इति भावे क्यप्प्रत्ययस्तकारश्चांतादेशः । दस्यूनां हत्या येषु संग्रामेषु । परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तत्पुरुषपक्षे तु कृदुत्तरपदप्रकृतिस्वरत्वम् । आविथ । अव रक्षणे ॥ ५ ॥

1.51.6
त्वं कुत्सं᳚ शुष्ण॒हत्ये᳚ष्वावि॒थार᳚न्धयो॑तिथि॒ग्वाय॒ शम्ब᳚रम् ।
म॒हान्तं᳚ चिदर्बु॒दं नि क्र᳚मीः प॒दा स॒नादे॒व द᳚स्यु॒हत्या᳚य जज्ञिषे ॥
▶ पदपाठः (Word-by-word)
त्वम् । कुत्स᳚म् । शु॒ष्ण॒॑हत्ये᳚षु । आ॒वि॒थ॒ । अर᳚न्धयः । अ॒ति॒थि॒॑ग्वाय᳚ । शम्ब᳚रम् ।
म॒हान्त᳚म् । चि॒त् । अ॒र्बु॒दम् । नि । क्र॒मीः॒ । प॒दा । स॒नात् । ए॒व । द॒स्यु॒॑हत्या᳚य । ज॒ज्ञि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं कुत्सं कुत्ससंज्ञ कमृषिं शुष्णहत्येषु । शुष्णः शोषयिता । एतन्नाम्नॊऽसुरस्य हननयुक्तेषु संग्रामेष्टाविथ । ररक्षिथ । तथातिथिग्वायातिथिभिर्गंतव्याय दिवोदासाय शंबरमेतन्नामानमसुरमरंधः । हिंसां प्रापितः । तथा महांतं चित् अति प्रवृद्धमप्यर्बुदमेतत्संज्ञ कमसुरं पदा पादेन नि क्रमीः । नितरामाक्रमिताभूः । यस्मादेवं तस्मात्सनादेव चिरकालादेवारभ्य दस्युहत्यायो पक्षपयितृणां हननाय जज्ञिषे । सर्वदा त्वं दस्युहननशीलो भवसीत्यर्थः ॥ अरंधयः । रध हिंसासंराड्ध्योः । रधिजभोरचि (पा ७-१-६१) इति धातोर्नुम् । अति थिग्वाय । गमेरौणादिको ड्वप्रत्ययः । क्रमीः । क्रमु पादविक्षेपे । ह्न्यंतक्षण (पा ७-२-५) इति वृद्धिप्रतिषेधः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । पदा । सावेकाच इति वोडिदंपदादीति वा विभक्तेरुदात्तत्वम् । जज्ञिषे । जनी प्रादुर्भावे । लिट गमहनेत्यादिनोपधालोपः ॥ ६ ॥

1.51.7
त्वे विश्वा॒ तवि᳚षी स॒ध्र्य᳚ग्घि॒ता तव॒ राधः᳚ सोमपी॒थाय᳚ हर्षते ।
तव॒ वज्र᳚श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा᳚नि॒ वृष्ण्या᳚ ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । विश्वा᳚ । तवि᳚षी । स॒ध्र्य᳚क् । हि॒ता । तव᳚ । राधः᳚ । सो॒म॒॑पी॒थाय᳚ । ह॒र्ष॒ते॒ ।
तव᳚ । वज्रः᳚ । चि॒कि॒ते॒ । बा॒ह्वोः । हि॒तः । वृ॒श्च । शत्रोः᳚ । अव᳚ । विश्वा᳚नि । वृष्ण्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वे त्वयि विश्वा तविषी सर्वं बलं सध्र्यक् सद्रीचीनं अपराङ्मुखं यथा भवति तथा हिता निहितम् । तथा तव राधो मनः सोमपीथाय सोमपानाय हर्षते । हृष्यति । किंच तव बाह्वोर्हस्तयोर्हितोऽवस्थितो वज्रश्चिकिते अस्माभिर्ज्ञायते । आतः शत्रो शातयितुर्वैरिणो विश्वानि सर्वाणि वृष्ण्या वृष्ण्यानि वीर्याण्यववृश्च । छेदनं कुरु ॥ सहांचतीति सध्र्यक् । अंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । समासे सहस्य सध्रिरिति सहशब्दस्य सध्र्यादेशः । चोः कुरिति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्तेऽद्रिसध्र्योरंतोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् । पा ६-३-९५-१ । इति वचनात्सध्र्यादेशोऽंतोदात्तः । तस्य यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । राधः । राध्नोति समृद्धो भवत्यनेन । राधोऽत्र मन उच्यते । असुनो नित्त्वादाद्युदात्तत्वम् । सोमपीथाय । पा पाने । पातृतुदिवचीत्यादिना थक्प्रत्ययः । घुमास्थेतीत्वम् । हर्षते । हृष तुष्टौ । श्यनि प्राप्ते व्यत्ययेन शप् । आत्मनेपदं च । चिकिते । कित ज्ञाने । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लिट् । बाह्वोः । उदात्तयण इति विभक्तेरुदात्तत्वम् । वृश्च । ओव्रश्चू छेदने । तौदादिकः । ग्रहिज्यादिना संप्रसारणं विकरणस्वरः । संहितायां द्व्यजोऽतस्तिङ इति दीर्घत्वम् । वृष्ण्या । वृष सेचने । औणादिको नक्प्रत्ययः । तत्र भवानि वृष्ण्यानि । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । शेश्छंदसीति शेर्लोपः ॥ ७ ॥

1.51.8 समानपद
वि जा᳚नी॒ह्यार्या॒न्ये च॒ दस्य᳚वो ब॒र्हिष्म᳚ते रन्धया॒ शास᳚दव्र॒तान् ।
शाकी᳚ भव॒ यज᳚मानस्य चोदि॒ता विश्वेत्ता ते᳚ सध॒मादे᳚षु चाकन ॥
▶ पदपाठः (Word-by-word)
वि । जा॒नी॒हि॒ । आर्या᳚न् । ये । च॒ । दस्य᳚वः । ब॒र्हिष्म᳚ते । र॒न्ध॒य॒ । शास᳚त् । अ॒व्र॒तान् ।
शाकी᳚ । भ॒व॒ । यज᳚मानस्य । चो॒दि॒ता । विश्वा᳚ । इत् । ता । ते॒ । स॒ध॒॑मादे᳚षु । चा॒क॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वमार्यान्विदुषोऽनुष्ठातृन्वि जानीहि । विशेषेण बुध्यस्व । ये च दस्यवस्तेषामनुष्ठातृणामुपक्षपयितारः शत्रवस्तानपि वि जानीहीति शेषः । ज्ञात्वा च बर्हिष्मते बर्हिषा यज्ञेना युक्ताय यजमानायाव्रतान् । व्रतमिति कर्मनाम । कर्मविरोधिनस्तान्दस्यून् रंधय । हिसां प्रापय । यद्वा । यजमानस्य वशं गमय । रध्यतिर्वशगमने (नि ६-३२) इति यास्कः । किं कुर्वन् । शासत् । दुष्टानामनुशासनं निग्रहं कुर्वन् । अतः शाकी शक्तियुक्तस्त्वं यजमानस्य चोदिता प्रेरको भव । यज्ञविघातकानसुरांस्तिरस्कृत्य यज्ञान्यजमानैः सम्यगनुष्ठापयेति भावः । अहमपि स्तोता ते तव ता तानि पूर्वोक्तानि कर्माणि विश्वेत् सर्वाण्येव सधमादेषु सहमदनयुक्तेषु यज्ञेषु स्तोतुं चाकन । कामये । जानीहि । ज्ञा अवबॊधने । क्रैयादिकः । ज्ञाजनोर्जेति जादेशः । अत्र प्ली गतौ वृत् । धा ३१-३२ । इति वृत्करणं ल्वादिपरिसमाप्त्यर्थमेव न प्वादिपरिसमाप्त्यर्थमिति येषां दर्शनं तेषां प्वादीनां ह्रस्व इति ह्रस्वत्वेन भवितव्यम् । मैवम् । ज्ञाजनोर्जेति दीर्घोच्चारणसामर्थ्यात् । जनी प्रादुर्भाव इत्यस्य तु दीर्घोच्चारणमंतरणाप्यतो दीर्घो यञि (पा ७-३-१०१) इत्यनेनैव दीर्घः सिध्यति । तस्माद्दीर्घोच्चारणवैयर्थ्यप्रसंगादत्र ह्रस्वो न भवतीति सिद्धम् । बर्हिष्मते । तसौ मत्वर्थ इति भत्वात् रुत्वजश्त्वयोरभावः । रंधय । रध हिंसासंराध्ध्योः । शासत् । शासु अनुशिष्टौ । शतर्यदादित्वाच्छपो लुक् । जक्षित्यादयः षट् (पा ६-१-६) इत्यभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । शाकी । शक्लृ शक्तौ । भावे घञ् । ततो मत्वर्थीय इनिः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वृषादिर्द्रष्टव्यः । विश्वा ता । उभयत्र शेश्छंदसीति शेर्लोपः । सधमादेषु । सह माद्यंत्येष्विति सधमादा यज्ञाः । अधिकरणे घञ्प्रत्ययः । ननु मदोऽनुपसर्ग इत्यप्प्रत्ययेन भवितव्यम् । मैवम् । व्यधजपोरनुपसर्गे (पा ३-३-६१) इत्यत्रैव मद इति वक्तव्ये यन्मदोऽनुपसर्ग इति पृथगुपादानं तद्घञपि पक्षे यथा स्यादिति न्यासकारेण प्रत्यपादीत्यस्माभिर्धातुवृत्तावुक्तम् । सधमादस्थयोश्छंदसीति सहशब्दस्य सदादेशः । चाकन । कन दीप्तिकान्तिगतिषु । अत्र कांत्यर्थः । छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । णलुत्तमो वा (पा ७-१-९१) इति णित्त्वस्य विकल्पनाद्वृद्ध्यभावः । तुजादित्वादभ्यासस्य दीर्घत्वं ॥ ८ ॥

1.51.9
अनु᳚व्रताय र॒न्धय॒न्नप᳚व्रताना॒भूभि॒रिन्द्र᳚ः श्न॒थय॒न्नना᳚भुवः ।
वृ॒द्धस्य᳚ चि॒द्वर्ध᳚तो॒ द्यामिन᳚क्षत॒ः स्तवा᳚नो व॒म्रो वि ज᳚घान सं॒दिहः᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚॑व्रताय । र॒न्धय᳚न् । अप᳚॑व्रतान् । आ॒॑भूभिः᳚ । इन्द्रः᳚ । श्न॒थय᳚न् । अना᳚भुवः ।
वृ॒द्धस्य᳚ । चि॒त् । वर्ध᳚तः । द्याम् । इन᳚क्षतः । स्तवा᳚नः । व॒म्रः । वि । ज॒घा॒न॒ । स॒म्॑दिहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रोऽनुव्रतायानुकूलकर्मणे यजमानायापव्रतानपगतकर्मणो यजमानान् रंधयन् हिंसयन्वशीकुर्वन्वा तथाभूभिः । आभिमुख्येन भवंतीत्याभुवः स्तोतारः । तैरनाभुवस्तद्विपरीतात् श्नथयन्हिंसयन्वर्तते । वृद्धस्य चिद्वर्धतः पूर्वं वृद्धस्यापि पुनर्वर्धमानस्य द्यामिनक्षतः स्वर्गं व्याप्नुवतस्तस्येंद्रस्य स्तवानः स्तुतिं कुर्वाणो वम्रः स्तुत्युद्गिरणशील एतत्संज्ञक ऋुषिः संदिहः सम्यगुपचिता वल्मीकवपा वि जघान । इंद्रेण परिहृतांतरायः सन्पृथिव्याः सारभूतं वल्मीकवपालक्षणं यज्ञ संभारमाहार्षीदित्यर्थः । तथा च शाखांतरे समाम्नातम् । यद्वल्मीकवपासंभारो भवति ऊर्जमेव रसं पृथिव्या अवरुंधे । तै ब्रा १-१-३-४ । इति ॥ अनुव्रताय । अनुकूलं व्रतं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं श्नथयन् । श्नथ हिंसायाम् । णिचि घटादित्वान्मित्त्वे मितां ह्रस्वं इति ह्रस्वत्वम् । वर्धतः । व्यत्ययेन परस्मैपदम् । इनक्षतः । नक्ष गतौ । इकारोपजनश्छांदसः । यद्वा । इनक्षतिर्गत्यर्थः । प्रकृत्यंतरमन्वेष्टव्यम् । स्तवानः । सम्यानच् स्तुवः (उ २-८९) इति स्तौतेर्बहुलवचनान्निरुपपदादस्यानच् प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । जघान । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हंतेर्हकारस्य कुत्वम् । संदिहः । दिह उपचये । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मणि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ९ ॥

1.51.10
तक्ष॒द्यत्त᳚ उ॒शना॒ सह᳚सा॒ सहो॒ वि रोद᳚सी म॒ज्मना᳚ बाधते॒ शवः᳚ ।
आ त्वा॒ वात᳚स्य नृमणो मनो॒युज॒ आ पूर्य᳚माणमवहन्न॒भि श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
तक्ष᳚त् । यत् । ते॒ । उ॒शना᳚ । सह᳚सा । सहः᳚ । वि । रोद᳚सी॒ इति᳚ । म॒ज्मना᳚ । बा॒ध॒ते॒ । शवः᳚ ।
आ । त्वा॒ । वात᳚स्य । नृ॒॑म॒नः॒ । म॒नः॒॑युजः᳚ । आ । पूर्य᳚माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यद्यदोशना काव्यः सहसात्मीयेन बलेन ते सहस्त्वदीयं बलं तक्षत् तनूकृतवान् । सम्यक् तीक्ष्णमकार्षीदित्यर्थः । तदा शवस्त्वदीयं बलं मज्मना सर्वस्य शोधकेन स्वतैक्ष्ण्येन रोदसी द्यावापृथिव्यौ वि बाधते । ते बिभीत इत्यर्थः । तथा चान्यत्राम्नातम् । यस्य शुष्माद्रोदसी अभ्यसेताम् । ऋग्वे । २-१२-१ । इति । यद्वा । रॊदसी यस्माद्वृत्रादेर्बिभीतस्तं बाधत इत्यर्थः । हे नृमणो नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्तेंद्र आ पूर्यमाणं पूर्वोक्तेन बलेका समंतात्पूर्यमाणं त्वा त्वां मनोयुजो मनोव्यापारमात्रेण युक्ता वातस्य वायोः संबंधिनः । तद्वद्वेगेन गच्छंत इत्यर्थः । एवंभूता अश्वाः श्रवोऽभि हविर्लक्षणमन्नमभिलक्ष्यावहन् । अभिमुख्येन प्रापयंतु ॥ तक्षत् । तक्षू त्वक्षू तनूकरणे । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उशना । वश कांतौ । वशे कनसिः (उ ४-२३८) इति कनस् । ग्रहिज्येत्यादिना संप्रसारणम् । ऋदुशनस्पुरुदंशोऽनेहसां च (पा ७-१-९४) इत्यनङादेशः । सर्वनामस्थाने च (पा ६-४-८) इत्युपधादीर्घत्वम् । हल्ङ्यादिनलोपौ मज्माना । टुमस्जो शुद्धौ । औणादिको मनिप्रत्ययः । नृमणः । छंदस्यृदवग्रहादिति णत्वम् । अवहन् । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लङ् ॥ १० ॥

1.51.11
मन्दि᳚ष्ट॒ यदु॒शने᳚ का॒व्ये सचा{4}॒ इन्द्रो᳚ व॒ङ्कू व᳚ङ्कु॒तराधि᳚ तिष्ठति ।
उ॒ग्रो य॒यिं निर॒पः स्रोत᳚सासृज॒द्वि शुष्ण᳚स्य दृंहि॒ता ऐ᳚रय॒त्पुरः᳚ ॥
▶ पदपाठः (Word-by-word)
मन्दि᳚ष्ट । यत् । उ॒शने᳚ । का॒व्ये । सचा᳚ । इन्द्रः᳚ । व॒ङ्कू इति᳚ । व॒ङ्कु॒॑तरा । अधि᳚ । ति॒ष्ठ॒ति॒ ।
उ॒ग्रः । य॒यिम् । निः । अ॒पः । स्रोत᳚सा । अ॒सृ॒ज॒त् । वि । शुष्ण᳚स्य । दृं॒हि॒ताः । ऐ॒र॒य॒त् । पुरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदेंद्र उशने कामयमाने काव्ये सचा सह मंदिष्ट स्तुतोऽभूत् तदानीं वंकू वंकुतराशिशयेन कुटिलं गच्छंतावश्वावधितिष्ठति । रथे संयोज्य तमारोहतीत्यर्थः । यद्वा वंकुतरातिशयेन वक्रं गच्छति रथे वंकू वक्रगमन शीलावश्वौ संयोज्येति योजनीयम् । उग्र उद्गूर्णस्तादृश इंद्रो ययिं गमनयुक्तान्मेघात् स्रोतसा प्रवाहरूपेणापो निरसृजत् । जलानि निरगमयत् । तथा शुष्णस्य सर्वस्य शोषयितुरसुरस्य दृंहिताः प्रवृद्धाः । पुरो नगराणि निवासस्थानानि व्यैरयत् । विविधं प्रेरितवान् ॥ मंदिष्ट । मदि स्तुतिमोदमदस्वप्न कांतिगतिषु । लुङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । उशने । वशेरौणादिकः क्युप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । योरनादेशः । सचा । षच समवाये । संपदादिलक्षणो भावे क्विप् । आङ् याजयारां चोपसंख्यानम् । म ७-१-३९-१ । इति तस्य सानुनासिकत्वम् । वंकू । वंचु गतौ । औणादिक उप्रत्ययः । बहुलवचनात्कुत्वम् । वंकुतरा । अतिशयेन वंकू वंकुतरा । सुपां सुलुगिति विभक्तेराकारः । अत्र गतिसामान्यवाचिना गतिविशेषो लक्ष्यते ययिम् । या प्रापणे । आदृगमहनजन इति किप्रत्ययः । सुपां सुपो भवंतीति लिड्वद्भावात् द्विर्वचनह्रस्वत्वे । आतो लोप इट चेत्याकार लोपः । प्रत्ययस्वरः । पंचम्या अमादेशः । दृंहिताः । दृहि वृद्धौ । इदित्त्वान्नुम् । ऐरयत् । ईर प्रेरणे । चौरादिकः । लङ्याडागमः । आटश्च (पा ६-१-९०) इति वृद्धिः ॥ ११ ॥

1.51.12 समानपद
आ स्मा॒ रथं᳚ वृष॒पाणे᳚षु तिष्ठसि शार्या॒तस्य॒ प्रभृ᳚ता॒ येषु॒ मन्द᳚से ।
इन्द्र॒ यथा᳚ सु॒तसो᳚मेषु चा॒कनो᳚॑न॒र्वाणं॒ श्लोक॒मा रो᳚हसे दि॒वि ॥
▶ पदपाठः (Word-by-word)
आ । स्म॒ । रथ᳚म् । वृ॒ष॒॑पाने᳚षु । ति॒ष्ठ॒सि॒ । शा॒र्या॒तस्य᳚ । प्र॑भृ᳚ताः । येषु᳚ । मन्द᳚से ।
इन्द्र᳚ । यथा᳚ । सु॒त॑सो᳚मेषु । चा॒कनः᳚ । अ॒न॒र्वाण᳚म् । श्लोक᳚म् । आ । रो॒ह॒से॒ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र कौषीतकिन इतिहासमाचक्षते । शार्यातनाम्नो राजर्षेर्यज्ञे भृगुगो त्रोत्पन्नश्च्यवनो महिर्षिराश्विनं ग्रहमगृह्णात् । इंद्रस्तं दृष्ट्वा क्रुद्धोऽभूत् । तमिंद्रमनुनीय पुनः सोमं तस्मै प्रादादिति । आयमर्थोऽस्यां प्रतिपाद्यते ॥ हे इंद्र त्वं वृषपाणेषु । वृष्णः सेचनसमर्थस्य सोमस्य पानानि वृषपाणानि । तेषु निमित्तभूतेषु रथमातिष्ठसि स्म । स्वयमेव रथमारुह्य गच्छसि । न त्वन्यः । कश्चित्प्रवर्तयितेति भावः । एवं च सति येषु सोमेषु त्वं मंदसे हर्षं प्राप्नोषि तादृताः सोमाः शार्यातस्मैतन्नाम्नो राजर्षेः संबंधिनः प्रभृताः । प्रकर्षेण संपादिताः । आभिषवादिसंस्कारैः संस्कृता इत्यर्थः । अतः सुतसोमेष्वभिषुतसोमयुक्तेष्वन्यदीयेषु यज्ञेषु यथा चाकनः यथा कामयसे एवमस्यापि शार्यातस्य सोमान्कामयस्व । तथा सति दिवि द्युलोकेऽनर्वाणं गमनरहितं स्थिरं श्लोकं स्तोत्रलक्षणं वचो यशो वा आ रोहसे । प्राप्नोषि । यद्वा । इमं यजमानं दिवि द्युलोक उक्तलक्षणं यशः प्रापयसि ॥ स्म । निपातस्य चेति दीर्घत्वम् । वृषपाणेषु । पा पाने । भावे ल्युट् । वा भावकरणयोः (पा ८-४-१०) इति पूर्वपदस्थान्निमित्तादुत्तरस्य पानशब्दनकारस्य णत्वम् । प्रभृताः । भृञ् भरणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । मंदसे । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । चाकनः । कन दीप्तिकांतिगतिषु । अत्र कांत्यर्थः । कांतिश्चाभिलाषः । लेट सिप्यडागमः । बहुलं छंदसीति शपः श्लुः । तुजादित्वादभ्यासस्य दीर्घत्वम् । सर्वे विधयश्छंदसि विकल्प्यंत इत्यभ्यस्तस्याद्युदात्तत्वाभावे धातोरिति धात्वंतस्योदात्तत्वम् । अनवार्णम् । अर्तेरन्येभ्योऽपि दृश्यंत इति दृशिग्रहणाद्भावे वनिप् । न ञा बहुव्रीहावम्यर्वणस्त्रसावनञ इति पर्युदासात्तृ आदेशाभावे सर्वनामस्थाने चेत्युपधादीर्घत्वम् । नञ् सुभ्यामित्युत्तर पदांतोदात्तत्वम् । श्लोकम् । श्लोकृ संघाते । श्लोक्यत इति श्लोकः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । रोहसे । रुहेर्व्यत्ययेनात्पनेपदं ॥ १२ ॥

1.51.13
अद᳚दा॒ अर्भां᳚ मह॒ते व᳚च॒स्यवे᳚ क॒क्षीव᳚ते वृच॒यामि᳚न्द्र सुन्व॒ते ।
मेना᳚भवो वृषण॒श्वस्य᳚ सुक्रतो॒ विश्वेत्ता ते॒ सव᳚नेषु प्र॒वाच्या᳚ ॥
▶ पदपाठः (Word-by-word)
अद᳚दाः । अर्भा᳚म् । म॒ह॒ते । व॒च॒स्यवे᳚ । क॒क्षीव᳚ते । वृ॒च॒याम् । इ॒न्द्र॒ । सु॒न्व॒ते ।
मेना᳚ । अ॒भ॒वः॒ । वृ॒ष॒ण॒श्वस्य᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । विश्वा᳚ । इत् । ता । ते॒ । सव᳚नेषु । प्र॒॑वाच्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेयमाख्यायिका । अंगराजः कस्मिंश्चिद्दिवसे स्वकीयाभिर्योषिद्भिः सह गंगायां जलक्रीडां चक्रे । तस्मिन्समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात्किमपि कुर्वन्न शक्नोतीति द्वेषेण गंगामध्ये प्रचिक्षिपे । स च ऋषिः केनचित्प्लवेनांगराजस्य क्रीडादेशं प्रति समाजगाम । स च राजा सर्वज्ञं तमृषिमगत्य प्लवादवतार्यैवमवोचत् । हे भगवत् मम पुत्रो नास्ति । एषा महिषी । अस्यां कंचित्पुत्रमुत्पादयेति । स च तथेत्यब्रवीत् । सा महिषी तु राजानं प्रति तथेत्युक्त्वायं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुध्ध्या स्वकीयामुशिक्संज्ञां दासीं प्राहैषीत् । तेन च सर्वज्ञेन ऋषिणा मंत्र पूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नि बभूव । तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः स एव राज्ञः पुत्रोऽभूत् । स च बहुविधेन राजसूयादिनेजे । तस्मै राज्ञे तत्कृतैर्यज्ञैः परितुष्ट इंद्रो व्यचयाख्यां तरुणां योषितं प्रादात् । अयमर्थः । पूर्वार्धे प्रतिपाद्यते ॥ हे इंद्रो व्यचयाख्यां तरुणां योषितां प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते ॥ हे इंद्र त्वं महते प्रवृद्धाय वचस्यवे श्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते सुन्वते श्वदेवताकेषु यज्ञेषु सोमाभिषवं कुर्वते कक्षीवत एतन्नाम्ने राज्ञे वृचयां वृचयाख्यामर्धामल्पाम् । युवतिमित्यर्थः । एवंभूतां स्त्रियमददाः । तथा सुक्रुतो शोभनकर्मन् शोभनप्रज्ञ वा हे इंद्र त्वं वृषणश्वस्मैतदाख्यस्य राज्ञो मेनाभवः । मेना नाम कन्यकाभूः । तथा च शाट्यायनिभिः सुब्रह्मण्यामंत्रै कदेशव्याख्यानरूपम् । ब्राह्मणमेवमाम्नायते । वृषणश्वस्य मेन इति वृषणत्वस्य मेना भूत्वा मघवा कुल उवासेति । तां च प्राप्तयौवनां स्वयमेवेंद्रश्चकमे । तथा च तांडिभिराम्नातम् । वृषणश्वस्य मेना नाम दुहितास । तामिंद्रश्चकम इति । अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि ते ता त्वदीयानि तानि विश्वेत् सर्वाण्येव सवनेषु यज्ञेषु प्रवाच्या । प्रकर्षेण वक्तव्यानि । स्तुतिभिः स्तोतव्यानीत्यर्थः ॥ महते । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । वचस्यवे । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः कक्षीवते । अश्वबंधनहेतवो रज्जवः । कक्ष्याः । कक्षीवान् कक्ष्यावान् नि ६-१० । इति यास्कः । आसंदीवदष्ठीवच्चक्रीवत्कक्षीवत् (पा ८-२-१२) इति संप्रसारणं मतुपो वत्वं संज्ञायां निपात्यते । मेनेति स्त्रीनाम । मेना ग्ना इति पाठात् । मन ज्ञाने । मन्यते गृहकृत्यं जानातीति मेना । पचाद्यच् । नशिमन्योरलिट्येश्वं वक्तव्यम् । पा ६-४-१२०-५ । इत्येत्वम् । वृषादिर्द्रष्टव्यः । मेना । मानयंत्येना इति यास्कः ि ३-२१ । सवनेषु सवनमिति यज्ञनाम । सूयतेऽभिषूयत एष्वित्यधिकरणे ल्युट् । प्रवाच्या । वच परिभाषणे । ण्यति यजयाचरुचप्रवचर्चश्च (पा ७-३-६६) इति कुत्वाभावः । तित्स्वरितेप्राप्ते व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वाचयतेरचो यदिति यश् । यतोऽनाव इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १३ ॥

1.51.14 समानपद
इन्द्रो᳚ अश्रायि सु॒ध्यो᳚ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः᳚ ।
अ॒श्व॒युर्ग॒व्यू र᳚थ॒युर्व᳚सू॒युरिन्द्र॒ इद्रा॒यः क्ष᳚यति प्रय॒न्ता ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । अ॒श्रा॒यि॒ । सु॒॑ध्यः᳚ । नि॒रे॒के । प॒ज्रेषु᳚ । स्तोमः᳚ । दुर्यः᳚ । न । यूपः᳚ ।
अ॒श्व॒॑युः । ग॒व्युः । र॒थ॒॑युः । व॒सु॒॑युः । इन्द्रः᳚ । इत् । रा॒यः । क्ष॒य॒ति॒ । प्र॒॑य॒न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रो देवः सुध्यः शोभनकर्मणो यजमानान् शोभनप्रज्ञान्वा निरेके नैर्धन्ये निमित्तभूते सति तान्रक्षितुमश्रायि । असेविष्ट । पज्रेषु । पज्रा इत्यंगिरसामाख्या । तथा च शाट्यायनिभिराम्नातम् । पज्रा वा अंगिरसः पशुकामास्तपोऽतप्यंतेति । येषु यजमानेष्वंगिरःसु स्तोमः स्तोत्रं निश्चलं तिष्ठति दुर्यो न यूपो द्वारि निखाता स्थूणेव । तान्सुध्य इति पूर्वेणान्वयः । तस्मादिदानीमपि रायः प्रयंता धनस्य प्रदातेंद्र इत् इंद्र एव यजमानानां दातुमश्वयुरश्वानिच्छन् तथा गव्युर्गा इच्छन् रथयू रथानिच्छन् वसूयुरेवमन्यदपि यद्धनमस्ति तदपीच्छन् क्षयति वर्तते ॥ अश्रायि । श्रिञ् सेवायाम् । कर्तरि लुङि व्यत्ययेन च्लेश्चिणादेशः । सुध्यः । धीरिति कर्मनाम । शोभना धीर्येषाम् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । शसि छंदस्युभयथा (पा ६-४-८६) इति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । निरेके । नितरां रेचनं निरेकः । रिचिर् विरेचने । भावे घञ् । थाथादिनोत्तरपदांतोदात्तत्वम् । दुर्यः । दुरे भवो दुर्यः । भवे घंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । यूपः । यु मिश्रणे । यूयते युज्यतेऽस्मिन्नितियूपः । कुयुभ्यां च (उ ३-२७) इति पप्रत्ययः । दीर्घ इत्यनुवृत्तेदीर्घत्वम् । अश्वयुः । यजमानेभ्योऽश्वानिच्छन् । छंदसि परेच्छायाम् । का ३-१-८-२ । इति क्यच् । न छंदस्यपुत्रस्येतीत्वदीर्घयोर्निषेधः । अश्वाघस्यादित्यात्वं तु छांदसत्वान्न भवति । क्याच्छंदसीत्युप्रत्ययः । एवमुत्तरत्रापि । एशावांस्तु विशेषः । गव्युरित्यत्र वांतो यि प्रत्यय इत्यवादेशः । यास्कस्त्वेवं व्याचष्टे । इदंयुरिदं कामयमानोऽथापि तद्वदथे भाष्यते । वसूयुरिंद्रो वसुमानित्यर्थः । आश्वयुर्गव्यू रथयुर्वसूयुरित्यपि निगमो भवति (नि ६-३१) इति । क्षयति । क्षि क्षये । भौवादिकः । प्रयंता । यम उपरमे । तृच्येकाच इतीट् प्रतिषेधः । चित इत्यंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १४ ॥

1.51.15
इ॒दं नमो᳚ वृष॒भाय᳚ स्व॒राजे᳚ स॒त्यशु᳚ष्माय त॒वसे᳚॑वाचि ।
अ॒स्मिन्नि᳚न्द्र वृ॒जने॒ सर्व᳚वीरा॒ः स्मत्सू॒रिभि॒स्तव॒ शर्म᳚न्त्स्याम ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । नमः᳚ । वृ॒ष॒भाय᳚ । स्व॒॑राजे᳚ । स॒त्य॑शु᳚ष्माय । त॒वसे᳚ । अ॒वा॒चि॒ ।
अ॒स्मिन् । इ॒न्द्र॒ । वृ॒जने᳚ । सर्व᳚॑वीराः । स्मत् । सू॒रि॑भिः᳚ । तव᳚ । शर्म᳚न् । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं पुरोवर्ति नमः स्तुतिलक्षणं वचो हे इंद्र तुभ्यमवाचि । अस्माभिः प्रायोजि । कीदृशाय । वृषभाय । वर्षणशीलाय । स्वराजे । स्वकीयेन तेजसा राजमानाय । सत्यशुष्माय । शुष्ममिति बलनाम शत्रूणां शोषकत्वात् । आवितथबलयुक्ताय । तवसेऽअत्यंतं प्रवृद्धाय । यस्मादेवं तस्मादस्मिन्वृजने वर्जनवति संग्रामे सर्ववीराः । विशेषेणेरयंत्यमित्रानिति वीरा भटाः । तादृशैः सर्वैर्भटैरुपेता वयम् । स्मदिति निपातः सुशब्दार्थः । तव स्मत् शर्मन् त्वया दत्ते शोभने गृहे सूरिभिर्विद्वद्भिः पुत्रादिभिः सह स्याम । भवेम । निवसेमेत्यर्थः । यद्वा त्वत्संबंधिनि शोभने यज्ञगृहे सूरिभिर्विद्वद्भिर्ऋत्विग्भिः सह स्याम । तर्मेति गृहनाम । शर्म वर्मेति पठितत्वात् ॥ स्वराजे । राजृ दीप्तौ । सत्सूद्विषेति क्विप् । सत्यशुष्माय । सत्यं शुष्मं बलं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तवसे । तवतिः सौत्रो धातुः । अस्मादौणादिकोऽसिप्रत्ययः । वृजने । वृजी वर्जने । कृपृवृजिमंदिनिधाञ् भ्यः क्युः (उ २-८१) इति क्युः प्रत्ययः । शर्मन् । रुपां सुलुगिति सप्तम्या लुक् न ङिसंबुद्ध्योः (पा ८-२-८) इति नलोपप्रतिषेधः । स्याम । नश्च (पा ८-३-३०) इति संहितायां सकारस्य धुडागमः । खरि चेति चर्त्वम् । चयो द्वितीयाः शरि पौष्करसादेः । पा ८-४-४८-३ । इति तकारस्य फकारः ॥ १५ ॥