प्रथमं मण्डलम् - सूक्तम् 90

9 ऋचः

ऋषिः: गोतमो राहूगणः देवता: विश्वेदेवाः छन्दः: गायत्री

सूक्तम् 1.90 - सम्पूर्णम्

1 / 9
ऋक्: 1.90.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.90.1
ऋ॒जु॒नी॒ती नो॒ वरु᳚णो मि॒त्रो न᳚यतु वि॒द्वान् ।
अ॒र्य॒मा दे॒वैः स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
ऋ॒जु॒॑नी॒ती । नः॒ । वरु᳚णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् ।
अ॒र्य॒मा । दे॒वैः । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजुनीतीति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्यते । ऋजुनीती नव गायत्रमंत्यानुष्टुबिति । पूर्वत्र वैश्वदेवं त्वित्युक्तत्वात्तुह्यादिपरिभाषयेदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैंगिकः । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रवरुणस्य ऋजुनीती न इत्येषारंभणीया । चतुर्विंश इति खंडे सूत्रितम् । ऋजुनीती नो वरुण इंद्र वो विश्वतस्परि (आ ७-२) इति ॥ अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारंभणीया शंसनीया । सूत्रितं च । आरंभणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव (आ ७-१) इति ॥

अहरभिमानी देवो मित्रो वरुणो रात्र्यभिमानी । मित्रश्च वरुणश्च विद्वान् नेतव्यमुत्तमं स्थानं जानन् नोऽस्मान् ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन नयतु । अभिमतं फलं प्रापयतु । तथा देवैरन्यैरिंद्रादिभिः सजोषाः समानप्रीतिरर्यमाहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु ॥ ऋजुनीती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वं ॥ १ ॥

1.90.2
ते हि वस्वो॒ वस᳚वाना॒स्ते अप्र᳚मूरा॒ महो᳚भिः ।
व्र॒ता र᳚क्षन्ते वि॒श्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
ते । हि । वस्वः᳚ । वस᳚वानाः । ते । अप्र᳚॑मूराः । महः᳚॑भिः ।
व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते हि पूर्वोक्ता मित्रादयो वस्वो वसुनो धनस्य वसवाना वासका आच्छादयितारः । सर्वं जगद्धनेनाच्छादयंतीत्यर्थः । अतस्ते मित्रादयोऽप्रमूरा अप्रमूर्छ्छता अमूढाः प्राज्ञाः संतो महोभिरात्मीयैस्तेजोभिर्विश्वाहा सर्वाण्यहानि । अत्यंतसंयोगे द्वितीया । सर्वेष्टप्यहस्तु व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि रक्षंते । पालयंति ॥ वस्वः । आगमानुशासनस्यानित्यत्वान्नुमभावे जसादिषु छंदसि वावचनमिति घेर्ङितीति गुणस्व विकल्पनादभावे यणादेशः । वसवानाः । वस अच्छादने । अस्मादंतर्भावितण्यर्थाल्लटः शानच् । बहुलं छंदसीति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । मुर्छा मोहसमुच्छ्राययोः । अस्मात्संपदादिलक्षणो भावे क्विप् । राल्लोप इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीर्यो रः । रो रि (पा ८-३-१४) इति रेफलोपः । न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षंते । रक्ष पालने । व्यत्ययेन तङ् ॥ २ ॥

1.90.3
ते अ॒स्मभ्यं॒ शर्म᳚ यंसन्न॒मृता॒ मर्त्ये᳚भ्यः ।
बाध᳚माना॒ अप॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । अ॒स्मभ्य᳚म् । शर्म᳚ । यं॒स॒न् । अ॒मृताः᳚ । मर्त्ये᳚भ्यः ।
बाध᳚मानाः । अप᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृता अमरणधर्माणस्ते विश्वे देवा मर्त्येभ्यो मरणधर्मभ्योऽस्मभ्यमनुष्ठातृभ्यः शर्मामृतलक्षणं सुखं यंसन् । यच्छंतु । प्रयच्छंतु । किं कुर्वंतः । द्विषोऽस्मदीयान्पापलक्षणान् शत्रूनपबाधमानाः विनाशं प्रापयंतः ॥ यंसन् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । अमृताः । मृतं मरणं येषां नास्तीत्यमृताः । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ ३ ॥

1.90.4
वि नः᳚ प॒थः सु᳚वि॒ताय᳚ चि॒यन्त्विन्द्रो᳚ म॒रुतः᳚ ।
पू॒षा भगो॒ वन्द्या᳚सः ॥
▶ पदपाठः (Word-by-word)
वि । नः॒ । प॒थः । सु॒वि॒ताय᳚ । चि॒यन्तु᳚ । इन्द्रः᳚ । म॒रुतः᳚ ।
पू॒षा । भगः᳚ । वन्द्या᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वंद्यासः सर्वैर्वंदनीयाः स्तोतव्या नमस्कर्तव्या वेंद्रादयो देवानोऽस्माकं पथो मार्गान्वि चियंतु । विचिन्वंतु । अशोभनेभ्यो मार्गेभ्यः सकाशात्पृथक्कुर्वंतु । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय ॥ पथः । शसि भस्य टीर्लोप इति टलोपः । उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । सुविताय । इण् गतावित्यस्मात्कर्मणि निष्ठा । तन्वादीनां छंदसि बहुलमुपसंखानमित्युवङ् । गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वम् । चियंतु । चिञ् चयने । बहुलं छंदसीति विकरणस्य लुक् । इयण् । पादादित्वान्निघाताभावः । वंद्यासः । वदि अभिवादनस्तुत्योः । ऋहलोर्ण्यत् । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । आज्जसेरसुक् ॥ ४ ॥

1.90.5
उ॒त नो॒ धियो॒ गोअ᳚ग्रा॒ः पूष॒न्विष्ण॒वेव᳚यावः ।
कर्ता᳚ नः स्वस्ति॒मतः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । धियः᳚ । गो॑अ᳚ग्राः । पूष᳚न् । विष्णो॒ इति᳚ । एव᳚॑यावः ।
कर्त᳚ । नः॒ । स्व॒स्ति॒॑मतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्तोर्यामे संति चत्वार्यतिरिक्तोक्थानि । तत्र चतुर्थेऽच्छावाकातिरिक्तोक्थ उत नो धिय इत्येषानुरूपत्थचस्य वैकल्पिकी तृतीया । सूत्रितं च । उत नो धियो गोअग्रा इति वानुरूपस्योत्तमा । अ ९-११ । इति ॥

हे पूषन् पोषक देव हे विष्णो व्यापनशील देव हे एवयावः । एवैर्गंतृभिरश्वैर्याति गच्छतीत्येवयावा मरुद्गणः । हे मरुद्गण ते सर्वे यूयं नोऽस्माकं धियोऽप्तोर्यामलक्षणानि कर्माणि गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशाद्भ्रष्टैः पशुभिर्युक्तानि कर्त । कुरुत । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते । यस्मात्पशवः । प्रप्रेव भ्रꣲशेरन् स एतेन यजेत । तै ब्रा २-७-१४-२ । इति । उतापि च नोऽस्मान्स्वस्तिमतोऽविनाशिनः कुरुतः ॥ एवयावः । इण् गतौ । इण्शीङ् भ्यां वन्निति वन्प्रत्ययः । अस्मिन्नु पपदे या प्रापण इत्यस्मादातो मनिन्निति वनिप् । संबुद्धौ वन उपसंख्यानम् । पा ८-३-१-१ । इति वकारस्य रुत्वं ॥ ५ ॥

1.90.6
मधु॒ वाता᳚ ऋताय॒ते मधु᳚ क्षरन्ति॒ सिन्ध᳚वः ।
माध्वी᳚र्नः स॒न्त्वोष᳚धीः ॥
▶ पदपाठः (Word-by-word)
मधु᳚ । वाताः᳚ । ऋ॒त॒॑य॒ते । मधु᳚ । क्ष॒र॒न्ति॒ । सिन्ध᳚वः ।
माध्वीः᳚ । नः॒ । स॒न्तु॒ । ओष᳚धीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋत्विगाद्यर्थमाहुतं मधुपर्कं मधु वाता इति तृचेन ऋत्विगादिः प्रतिग्रहीताऽवेक्षेत । तथा च सूत्र्यते । मधु वाता ऋतायत इति तृचेनावेक्ष्य । आ । गृ १-२४-१४ । इति ॥

ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय वाता वायवो मधुमाधुर्योपेतं कर्म फलं क्षरंति । वर्षंति । प्रयच्छंतीत्यर्थः । तथा सिंधवः स्यंदनशीला नद्यः समुद्रा वा मधु माधुर्योपेतं स्वकीयं रसं क्षरंति । एवं नोऽस्मभ्यमोषधीः फलपाकांता ओषधयस्ताश्च माध्वीर्माधुर्योपेताः संतु । भवंतु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य लुगकारेकाररेफाश्च वक्तव्याः । पा ४-४-१२८-२ । इति लुक् । ऋतायते । ऋतमात्मन इच्छति । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वदीर्घयोर्निपेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजंताल्लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च (पा ४-४-१२९) इति मत्वर्थीयोऽञ्प्रत्ययः । ऋत्व्यवास्त्व्येत्यादावञु यणादेशो निपात्यते । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाक आसुधीयत इत्योषधयः कर्मण्यधिकरणे चेति किप्रत्ययः । कृदिकारादक्तिन इति ङीप् । जसि पूर्ववत्पूर्वसवर्णदीर्घः । दासीभारादिषउ पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञंतमाद्युदात्तं ॥ ६ ॥

1.90.7
मधु॒ नक्त᳚मु॒तोषसो॒ मधु᳚म॒त्पार्थि᳚वं॒ रजः᳚ ।
मधु॒ द्यौर᳚स्तु नः पि॒ता ॥
▶ पदपाठः (Word-by-word)
मधु᳚ । नक्त᳚म् । उ॒त । उ॒षसः᳚ । मधु᳚॑मत् । पार्थि᳚वम् । रजः᳚ ।
मधु᳚ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

नक्तं रात्रिर्नोऽस्माकं मधु मधुमती माधुर्योपेतफलप्रदा भवतु । उतापि चोषस उषःकालोपलक्षितान्यहानि च मधुमंति भवंतु । पार्थिवं रजः पृथिव्याः संबंधी लोकोऽस्माकं मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । पिता दृष्टिप्रदानेन सर्वेषां पालयिता द्यौर्द्युलोकोऽपि मधु मधुयुक्तो भवतु ॥ पार्थिवम् । पृथिव्या ञाञौ । पा ४-१-८५-२ । इति प्राग्दीवृतीयोऽञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । लोका रजांस्युच्यंते (नि ४-१९) इति यास्कः । रजंत्यस्मिञ्चना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् । का ६-४-२४-४ । इति रंजेर्नलोपः ॥ ७ ॥

1.90.8
मधु᳚मान्नो॒ वन॒स्पति॒र्मधु᳚मा{4} अस्तु॒ सूर्य᳚ः ।
माध्वी॒र्गावो᳚ भवन्तु नः ॥
▶ पदपाठः (Word-by-word)
मधु᳚॑मान् । नः॒ । वन॒स्पतिः᳚ । मधु᳚॑मान् । अ॒स्तु॒ । सूर्यः᳚ ।
माध्वीः᳚ । गावः᳚ । भ॒व॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्माकं वनस्पतिर्वनानां पालयिता यूपाभिमानी देवो मधुमान् माधुर्योपेतफलवानस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः । सूर्यः सर्वस्य प्रेरकः सविता च मधुमानस्तु । गावोऽग्निहोत्राद्यर्था धेनवश्च नोऽस्माकं माध्वीर्माधुर्योपेतेन पयसा युक्ता भवंतु ॥ वनस्पतिः वनानां पतिर्वनस्पतिः । पारस्करादित्वात्सुट् । वनपतिशब्दावाद्युदात्तौ । उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ८ ॥

1.90.9
शं नो᳚ मि॒त्रः शं वरु᳚ण॒ः शं नो᳚ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु᳚रुरुक्र॒मः ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । मि॒त्रः । शम् । वरु᳚णः । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा ।
शम् । नः॒ । इन्द्रः᳚ । बृह॒स्पतिः᳚ । शम् । नः॒ । विष्णुः᳚ । उ॒रु॒॑क्र॒मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहरभिमानी मित्रो देवो नोऽस्माकं शं सुखकरो भवतु । यद्वा । अस्मदीयानामुपद्रवाणां शमयिता भवतु । रात्र्यभिमानी वरुणश्च शं सुखकरो भवतु । अर्यमाऽहोरात्रयोः ख्यापयिता सूर्यश्च नोऽस्माकं शं सुखकरो भवतु । बृहस्पतिर्बृहतां देवानां पालयितेंद्रश्च नोऽस्माकं शं सुखकरो भवतु । उरुक्रमः । उरु विस्तीर्णं क्रामति पादौ विक्षिपतीत्युरुक्रमः । विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान्पदत्रयरूपेणाक्रांतवान् । अत उरुक्रमो विष्णुश्च नोऽस्माकं शं सुखकर उपद्रवाणां शमयिता वा भवतु ॥ उरुक्रमः । क्रमु पादविक्षेपे । पचाद्यच् । यद्वा । उरून् क्रामतीत्यरुक्रमः । कर्मण्यण् । नोदात्तोपदेशस्य मांतस्येति वृद्धिप्रतिषेधः ॥ ९ ॥