श्रवणम्

1.90.2
ते हि वस्वो॒ वस᳚वाना॒स्ते अप्र᳚मूरा॒ महो᳚भिः ।
व्र॒ता र᳚क्षन्ते वि॒श्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
ते । हि । वस्वः᳚ । वस᳚वानाः । ते । अप्र᳚॑मूराः । महः᳚॑भिः ।
व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते हि पूर्वोक्ता मित्रादयो वस्वो वसुनो धनस्य वसवाना वासका आच्छादयितारः । सर्वं जगद्धनेनाच्छादयंतीत्यर्थः । अतस्ते मित्रादयोऽप्रमूरा अप्रमूर्छ्छता अमूढाः प्राज्ञाः संतो महोभिरात्मीयैस्तेजोभिर्विश्वाहा सर्वाण्यहानि । अत्यंतसंयोगे द्वितीया । सर्वेष्टप्यहस्तु व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि रक्षंते । पालयंति ॥ वस्वः । आगमानुशासनस्यानित्यत्वान्नुमभावे जसादिषु छंदसि वावचनमिति घेर्ङितीति गुणस्व विकल्पनादभावे यणादेशः । वसवानाः । वस अच्छादने । अस्मादंतर्भावितण्यर्थाल्लटः शानच् । बहुलं छंदसीति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । मुर्छा मोहसमुच्छ्राययोः । अस्मात्संपदादिलक्षणो भावे क्विप् । राल्लोप इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीर्यो रः । रो रि (पा ८-३-१४) इति रेफलोपः । न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षंते । रक्ष पालने । व्यत्ययेन तङ् ॥ २ ॥