श्रवणम्

1.90.6
मधु॒ वाता᳚ ऋताय॒ते मधु᳚ क्षरन्ति॒ सिन्ध᳚वः ।
माध्वी᳚र्नः स॒न्त्वोष᳚धीः ॥
▶ पदपाठः (Word-by-word)
मधु᳚ । वाताः᳚ । ऋ॒त॒॑य॒ते । मधु᳚ । क्ष॒र॒न्ति॒ । सिन्ध᳚वः ।
माध्वीः᳚ । नः॒ । स॒न्तु॒ । ओष᳚धीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋत्विगाद्यर्थमाहुतं मधुपर्कं मधु वाता इति तृचेन ऋत्विगादिः प्रतिग्रहीताऽवेक्षेत । तथा च सूत्र्यते । मधु वाता ऋतायत इति तृचेनावेक्ष्य । आ । गृ १-२४-१४ । इति ॥

ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय वाता वायवो मधुमाधुर्योपेतं कर्म फलं क्षरंति । वर्षंति । प्रयच्छंतीत्यर्थः । तथा सिंधवः स्यंदनशीला नद्यः समुद्रा वा मधु माधुर्योपेतं स्वकीयं रसं क्षरंति । एवं नोऽस्मभ्यमोषधीः फलपाकांता ओषधयस्ताश्च माध्वीर्माधुर्योपेताः संतु । भवंतु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य लुगकारेकाररेफाश्च वक्तव्याः । पा ४-४-१२८-२ । इति लुक् । ऋतायते । ऋतमात्मन इच्छति । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वदीर्घयोर्निपेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजंताल्लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च (पा ४-४-१२९) इति मत्वर्थीयोऽञ्प्रत्ययः । ऋत्व्यवास्त्व्येत्यादावञु यणादेशो निपात्यते । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाक आसुधीयत इत्योषधयः कर्मण्यधिकरणे चेति किप्रत्ययः । कृदिकारादक्तिन इति ङीप् । जसि पूर्ववत्पूर्वसवर्णदीर्घः । दासीभारादिषउ पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञंतमाद्युदात्तं ॥ ६ ॥