प्रथमं मण्डलम् - सूक्तम् 108

13 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: इंद्राग्नी छन्दः: त्रिष्टुप्

सूक्तम् 1.108 - सम्पूर्णम्

1 / 13
ऋक्: 1.108.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.108.1 समानपद
य इ᳚न्द्राग्नी चि॒त्रत᳚मो॒ रथो᳚ वाम॒भि विश्वा᳚नि॒ भुव᳚नानि॒ चष्टे᳚ ।
तेना या᳚तं स॒रथं᳚ तस्थि॒वांसाथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यः । इ॒न्द्रा॒ग्नी॒ इति᳚ । चि॒त्र॑त᳚मः । रथः᳚ । वा॒म् । अ॒भि । विश्वा᳚नि । भुव᳚नानि । चष्टे᳚ ।
तेन᳚ । आ । या॒त॒म् । स॒॑रथ᳚म् । त॒स्थि॒॑वांसा᳚ । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्राग्नी इति त्रयोदशर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैंद्राग्नम् । तथा चानुक्रांतम् । य इंद्राग्नी सप्तोनैंद्राग्नं त्विति । विनियोगो लैंगिकः ॥

हे इंद्राग्नी चित्रतमोऽतिशयेन चायनीयो वा युवयोः संबंधी यो रथो विश्वानि भुवनानि भूतजातान्यभिचष्टे अभिमुख्येन पश्यति । सुवर्णमयत्वात् रत्नखचितत्वाच्च स्वप्रभाभिः कृत्स्नं जगद्भासयतीत्यर्थः । तेन रथेना यातम् । अस्मद्यज्ञमागच्छतम् । तत्किं पर्यायेण । नेत्याह । सरथं समानमेकं रथं तस्थिवांसा युगपदेवास्थितवंतौ युवामागच्छतम् । न पर्यायेणेत्यर्थः । अथागमनानंतरं सुतस्य ऋत्विग्भिरभिषुतं सोमस्य सोमं स्वांशलक्षणं तदेकदेशं वा पिबतं ॥ वां ॥ युष्मदस्मदोः षष्ठीचतुर्थीत्यादिना (पा ८-१-२०) षष्ठीद्विवचनस्य । वामादेशः । सर्वानुदात्तत्वम् । चष्टे । चक्षिङ् व्यक्तायां वाचि । अत्य प्रकाशनार्थः । अदादित्वाच्छपो लुक् । स्कोः संयोगाद्योरिति कलोपः । तास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । सरथम् । समानश्चासौ रथश्च सरथः । समानस्य छंदसीति सभावः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तस्थिवांसा । ष्ठा गतिनिवृत्तौ । लिटः क्वसुः । द्विर्वचनम् । शर्पूर्वाः खयः । वस्वेकाजाद्घसामितीडागमः । अतो लोप इट चेत्याकारलोपः । सुपां सुलुगित्याकारः । सोमस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ १ ॥

1.108.2
याव᳚दि॒दं भुव᳚नं॒ विश्व॒मस्त्यु᳚रु॒व्यचा᳚ वरि॒मता᳚ गभी॒रम् ।
तावा{4}᳚ अ॒यं पात᳚वे॒ सोमो᳚ अ॒स्त्वर᳚मिन्द्राग्नी॒ मन᳚से यु॒वभ्या᳚म् ॥
▶ पदपाठः (Word-by-word)
याव᳚त् । इ॒दम् । भुव᳚नम् । विश्व᳚म् । अस्ति᳚ । उ॒रु॒॑व्यचा᳚ । व॒रि॒मता᳚ । ग॒भी॒रम् ।
तावा᳚न् । अ॒यम् । पात᳚वे । सोमः᳚ । अ॒स्तु॒ । अर᳚म् । इ॒न्द्रा॒ग्नी॒ इति᳚ । मन᳚से । यु॒व॑भ्या᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वं सर्वमिदं भुवनं जगद्यावदस्ति यावत्प्रमाणं भवति । कीदृसं उरुव्यचा । विस्तीर्णव्यापनम् । सर्वव्यापकमित्यर्थः । तथा वरिमता वरिम्णोरुत्वेनात्मीयेन गौरवेण गभीरं गांभीर्योपेतम् । हे इंद्राग्नी पातवे युवाभ्यां पातुं सोमस्तावानस्तु । तावत्प्रमाणो भवतु । तथा मनसे युवयोरंतःकरणायारं स सोमः पर्याप्तो भवतु ॥ उरुव्यचा । व्यच व्याजीकरणे । असुन् । व्यचेः कुटादित्वमनसीति वचनात् ङित्त्वाभावेन संप्रसारणाभावः । स्वमोर्नपुंसकात् (पा ७-१-२३) इति सोर्लुकि प्राप्ते सुपां सुलुगिति व्यत्ययेन डादेशः । वरिमता । पृथ्वादिभ्य इमनिज्वेत्युरुशब्दात्तस्य भाव इत्यर्थ इमनिच् । प्रियस्थिरेत्यादिनोरुशब्दस्य वरादेशः । पुनरपि भावप्रत्ययोत्पत्तिश्छांदसी । सुपां सुलुगिति । तृतीयायालुक् । यद्वा । तृतीयायाश्छांदसस्तुडागमः । तावान् । तत्परिमाणमस्य । यत्तदेतेभ्यः परिमाणे वतुप् (पा ५-२-३९) आ सर्वनाम्न इत्यात्वम् । पातवे । पा पाने । तमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्तृम् । अरम् । वालमूलघ्वलमंगुलीनां वा लो रमापद्यत इति वक्तव्यम् (म ८-२-१८) इति लत्वविकल्पः । युवभ्याम् । व्यत्ययेनात्वाभावे शेषे लोप इति दकारलोपः ॥ २ ॥

1.108.3 समानपद
च॒क्राथे॒ हि स॒ध्र्य१॒᳚ङ्नाम᳚ भ॒द्रं स᳚ध्रीची॒ना वृ᳚त्रहणा उ॒त स्थ᳚ः ।
तावि᳚न्द्राग्नी स॒ध्र्य᳚ञ्चा नि॒षद्या॒ वृष्ण॒ः सोम᳚स्य वृष॒णा वृ᳚षेथाम् ॥
▶ पदपाठः (Word-by-word)
च॒क्राथे॒ इति᳚ । हि । स॒ध्र्य᳚क् । नाम᳚ । भ॒द्रम् । स॒ध्री॒ची॒ना । वृ॒त्र॒॑ह॒नौ॒ । उ॒त । स्थः॒ ।
तौ । इ॒न्द्रा॒ग्नी॒ इति᳚ । स॒ध्र्य᳚ञ्चा । नि॒॑सद्य᳚ । वृष्णः᳚ । सोम᳚स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी भद्रं कल्याणं नाम स्वकीयं नामधेयं सध्र्यक् सहगतमिंद्राग्नी इत्येवं संयुक्तं चक्राथे । युवां कृतवंतौ । उतापि च हे वृत्रहणौ वृत्रस्यासुरस्य हंताराविंद्राग्नि सध्रीचीना सहांचंतौ वृत्रवधार्थं संगतौ स्थः । भवथः । हि यस्मादेवं तस्माद्धे वृषणा कामानां वर्षिताराविंद्राग्नी तौ युवां सध्र्यंचौ सहितावेव संतौ निषद्य वेद्यामुपविश्य वृष्णः सेक्तुः सोमस्यात्मीयं भागमा वृषेथाम् । स्वकीय उदरे आसिंचेथां ॥ सध्र्यक् । सहशब्दोपपदादंचतेर्यत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । सहस्य सध्रिः । अद्रिसध्र्योरंतोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । पा ६-३-९५-१ । इति वचनात्सध्र्यादेशोऽंतोदात्तः । यणादेश उदात्तस्वरितयोर्यण इति स्वरितत्वम् । सध्रीचीना । विभाषांचेरदिक् स्त्रियामिति स्वार्थे खः । सुपां सुलुगित विभक्तेराजादेशः । वृत्रहणौ । संहितायामावादेशे लोपः शाकल्यस्येति वलोपः । वृषेथाम् । वृष सेचने । व्यत्ययेन श आत्मनेपदं च ॥ ३ ॥

1.108.4
समि᳚द्धेष्व॒ग्निष्वा᳚नजा॒ना य॒तस्रु᳚चा ब॒र्हिरु᳚ तिस्तिरा॒णा ।
ती॒व्रैः सोमै॒ः परि᳚षिक्तेभिर॒र्वागेन्द्रा᳚ग्नी सौमन॒साय᳚ यातम् ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धेषु । अ॒ग्निषु᳚ । आ॒न॒जा॒ना । य॒त॑स्रु᳚चा । ब॒र्हिः । ऊं॒ इति᳚ । ति॒स्ति॒रा॒णा ।
ती॒व्रैः । सोमैः᳚ । परि᳚॑सिक्तेभिः । अ॒र्वाक् । आ । इ॒न्द्रा॒ग्नी॒ इति᳚ । सौ॒म॒न॒साय᳚ । या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निषु गार्हपत्यादिष्टन्वाधानादिना समिद्धेषु सम्यगिद्धेषु दीप्तेषु सत्स्वानजाना हवींष्याज्येनांजंतौ यतस्रुचा तदनंतरं यागार्थं गृहीतस्रुचौ बर्हिरु वेद्यां बर्हिरपि तिस्तिराणा आस्तीर्णं कृतवंतावध्वर्युप्रतिप्रस्थातारावेवंभूतावभूताम् । तथा सति हे इंद्राग्नी तीव्रैः क्षिप्रं मदकरैः परिषिक्तेभिः परितः सर्वेषु ग्रहचमसादिष्टासिक्तैः सोमैर्हेतुभूतैरर्वागस्मदभिमुखमा यातम् । आगच्छतम् । किमर्थम् । सौमनसाय सौमनस्याय । अस्माकमनुग्रहायेत्यर्थः ॥ आनजाना । अंजू व्यक्तिम्रक्षणगतिषु । लिटः कानच् । अनिदितामिति नलोपः । द्विर्भावेऽत आदेरित्यभ्यासस्य दीर्घः । तस्मान्नुड् द्विहल इत्यद्विहलोऽपि व्यत्ययेन नुट् । तिस्तिराणा । स्त ॄञ् आच्छादने । पूर्ववत्कानच् ऋूत इद्धातोरितीत्वम् । द्विर्वचने शपूर्वाः खयः । सुपां सुलुगिति विभक्तेराकारः । चित्त्वादंतोदात्तत्वं ॥ ४ ॥

1.108.5
यानी᳚न्द्राग्नी च॒क्रथु᳚र्वी॒र्या᳚णि॒ यानि᳚ रू॒पाण्यु॒त वृष्ण्या᳚नि ।
या वां᳚ प्र॒त्नानि᳚ स॒ख्या शि॒वानि॒ तेभि॒ः सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यानि᳚ । इ॒न्द्रा॒ग्नी॒ इति᳚ । च॒क्रथुः᳚ । वी॒र्या᳚णि । यानि᳚ । रू॒पाणि᳚ । उ॒त । वृष्ण्या᳚नि ।
या । वा॒म् । प्र॒त्नानि᳚ । स॒ख्या । शि॒वानि᳚ । तेभिः᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी यानि वीर्याणि वृत्रवधादिरूपाणि चक्रथुः कृतवंतौ युवां यानि च रूपाणि निरूप्यमाणानि गवाश्वादीनि भूतजानानि कृतवंतौ । इंद्राग्निभ्यां हि सर्वं जगत्सृज्यते । इंद्रः सूर्यात्मना वृष्टिं सृजत्यग्निश्चाहुतिद्वारा वृष्ट्युत्पादकः । वृष्टेः सकाशात्सर्वे प्राणिन उत्पद्यंते । उतापि च यानि वृष्ण्यानि वृष्णिभवानि वृष्टिप्रदानादिरूपाणि कर्माणि कृतवंतौ । तथा वां युवयोः संबंधीनि प्रत्नानि चिरंतनानि शिवानि शोभनानि या यानि सख्या सखित्वानि संति । तेभिस्तैः सर्वैः सहितौ युवां सुतस्य सोमस्याभिषुतं सोमं पिबतं ॥ सख्या । सख्युर्भावः सख्यं सख्युर्य इति यप्रत्ययः । शेश्छंदसि बहुलमिति शेर्लोपः । तेभिः । बहुलं छंदसीति भिस ऐसभावः । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः ॥ ५ ॥

1.108.6
यदब्र᳚वं प्रथ॒मं वां᳚ वृणा॒नो॒३॒᳚॑यं सोमो॒ असु᳚रैर्नो वि॒हव्य᳚ः ।
तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अब्र᳚वम् । प्र॒थ॒मम् । वा॒म् । वृ॒णा॒नः । अ॒यम् । सोमः᳚ । असु᳚रैः । नः॒ । वि॒॑हव्यः᳚ ।
ताम् । स॒त्याम् । श्र॒द्धाम् । अ॒भि । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी प्रथमं कर्मोपक्रम एव वां युवां वृणानः संभजमानो यदब्रवं सोमेन प्रीणयिष्यामीति यदवोचं सत्यां यथार्थां तां श्रद्धां श्रद्धयादरातिशयेन कृतामुक्तिमभ्यभिलक्ष्याहि यातम् । आगच्छतमेव नोदासाथा । अथागमनानंतरमभिषुतं सोमं पिबतम् । तथा सुरैर्हविषां प्रक्षेपकैर्ऋत्विग्भिरयं नोऽस्माकं सोमो विहव्यो विशेषेण होतव्यो भवति । इतरथा व्यर्थः स्यात् । तस्मादिंद्राग्नी आगच्छतमित्यर्थः ॥ वृणानः । वृञ् संभक्तौ । लटः शानच् । श्नाभ्यस्तयोरात इत्याकारलोपः । असुरैः । असु क्षेपणे । असेरुरन् (उ १-४३) इत्युरन्प्रत्ययः । विहव्यः । हुदानादनयोः । अचो यत् । गुणः । धातोस्तन्निमित्तस्यैवेत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

1.108.7
यदि᳚न्द्राग्नी॒ मद᳚थ॒ः स्वे दु᳚रो॒णे यद्ब्र॒ह्मणि॒ राज᳚नि वा यजत्रा ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । मद᳚थः । स्वे । दु॒रो॒णे । यत् । ब्र॒ह्मणि᳚ । राज᳚नि । वा॒ । य॒ज॒त्रा॒ ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजत्रा यष्वव्यौ हे इंद्राग्नी स्वे दुरोणे स्वकीये गृहे निवासस्थाने यद्यदि मदथः हृष्यथः । यद्यदि वा ब्रह्मणि ब्राह्मणेऽन्यस्मिन्यजमाने हविःस्वीकरणायागत्य हृष्यथः । यदि वा राजनि क्षत्रिये युद्धे सहाय्यं कर्तुमागत्य हृष्यथः । अतः परि परितोऽस्मात्सर्वस्मात्स्थानात् हे वृषणौ कामानां वर्षिताराविंद्राग्नी आ यातं हि । आगच्छतमेव । औदासीन्यं मा कार्ष्वम् । अन्यत्पूर्ववत् ॥ मदथः । मदी हर्षे । व्यत्ययेन शप् । यजत्रा । अमिनक्षीत्यादिना यजतेः कर्मण्यत्रन् । सुपां सुलुगिति विभक्तेराकारः ॥ ७ ॥

1.108.8
यदि᳚न्द्राग्नी॒ यदु᳚षु तु॒र्वशे᳚षु॒ यद्द्रु॒ह्युष्वनु᳚षु पू॒रुषु॒ स्थः ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । यदु᳚षु । तु॒र्वशे᳚षु । यत् । द्रु॒ह्युषु᳚ । अनु᳚षु । पू॒रुषु᳚ । स्थः ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र यदुष्टित्यादीनि पंच मनुष्यनामानि । हे इंद्राग्नी यद्यदि यदुषु नियतेषु परेषामहिंसकेषु मनुष्येषु स्थः भवथः वर्तेथे । यदि वा तुर्वशेषु हिंसकेषु मनुष्येषु वर्तेथे । यद्यदि वा द्रुह्युषु द्रोहं परेषामुपद्रवमिच्छत्सु मनुष्येषु वर्तेथे । यदि वानुषु प्राणत्सु सफलैः प्राणैर्युक्तेषु ज्ञातृष्वनुष्ठातृषु मनुष्येषु । अन्येषां हि प्राणा निफ्फला ज्ञानहीनत्वादनुष्ठानाभावाच्च । तेषु यदि भवधः । तथा पूरुषु कामैः पूरयितव्येष्वन्येषु स्तोतृजनेषु यदि भवथः । अतः सर्वस्मात्स्थानात् । हे कामाभिवर्षकाविंद्राग्नी आगच्छतम् । अनंतरमभिषुतं सोमं पिबतं ॥ यदुषु । यम । उपरमे । नियम्यंत इंद्रियाण्येभिरिति यदवः । यमेर्दुक् चेति कुप्रत्ययो दुगागमश्च । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तुर्वशेषु । तुर्वी हिंसार्थः । औणादिकोऽशप्रत्ययः । द्रुह्युषु । द्रुह जिघांसायाम् । संपदादिलक्षणो भावे क्विप् । द्रुहं परेषामिच्छंति । छंदसि परेच्छायामपीति क्यच् । क्याच्छंदसीत्युप्रत्ययः । अनुषु अन प्राणने । अणश्च (उ १-८) इति विधीयमान उप्रत्ययो बहुलवचनादस्मादपि भवति । निदित्यनुवृत्तेराद्युदात्तत्वम् । पूरुषु । पूरी आप्यायने । पूर्यंत इति पूरवः । औणादिक उप्रत्ययः ॥ ८ ॥

1.108.9
यदि᳚न्द्राग्नी अव॒मस्यां᳚ पृथि॒व्यां म᳚ध्य॒मस्यां᳚ पर॒मस्या᳚मु॒त स्थः ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । अ॒व॒मस्या᳚म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या᳚म् । प॒र॒मस्या᳚म् । उ॒त । स्थः ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी अवमस्यां पृथिव्यां सन्निकृष्टायामस्यां भूम्यां यद्यदि स्थः । वर्तमानौ भवथः । यदि वा मध्यमस्यां पृथिव्यामंतरिक्षलोके । अत्र पृथिवीशब्दस्त्रिष्वपि लोकेषु वर्तते । यथा यो द्वितीयस्यां तृतीयस्यां पृथिव्यामस्यायुषा नाम्ने ति । उतापि च परमस्यामुत्कृष्टायां दूरे वर्तमानायां पृथिव्यां द्युलोके यदि वा वर्तेथे । अतः सर्वस्मात्स्थानात् हे वृषणावागच्छतम् । आगमानंतरं सुतं सोमं पिबतं ॥ अवमस्याम् । अवमशब्दादुत्तरस्य ङीर्व्यत्ययेन स्याडागमः । एवमुत्तरत्रापि ॥ ९ ॥

1.108.10
यदि᳚न्द्राग्नी पर॒मस्यां᳚ पृथि॒व्यां म᳚ध्य॒मस्या᳚मव॒मस्या᳚मु॒त स्थः ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । प॒र॒मस्या᳚म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या᳚म् । अ॒व॒मस्या᳚म् । उ॒त । स्थः ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्ववद्व्याख्येयम् । एतावांस्तु विशेषः । पूर्वं भूम्यादिषु त्रिषु लोकेषु याविंद्राग्नी तावागच्छतामित्युक्तम् । इदानीं तु द्युप्रभृतिष्ववरोहक्रमेण वर्तमानेषु त्रिषु लोकेषु याविंद्राग्नी वर्तेते तावागच्छतामिति प्रार्थ्यते ॥ १० ॥

1.108.11
यदि᳚न्द्राग्नी दि॒वि ष्ठो यत्पृ᳚थि॒व्यां यत्पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । दि॒वि । स्थः । यत् । पृ॒थि॒व्याम् । यत् । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी दिवि द्युलोके यद्यदि स्थः भवथः । यदि वा पृथिव्यां भूलोके यदि वा पर्वतेषु मेर्वादिषु मेघेषु वा । तथा ओषधीषु तिलमाषव्रीह्यादिष्वप्सूदकेषु चानुग्राहकतयायदि वा स्थः । हे कामाभिवर्षकौ युवामतः सर्वस्मात्स्थानादागच्छतम् । आगत्य चाभिषुतं सोमं पिबतं ॥ पृथिव्याम् । उदात्तयण इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषः पाक आसु धीयत इति ओषधयः । कर्मण्यधिकरणे चेति किप्रत्ययः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञंतमाद्युदात्तम् । ओषधेश्च विभक्तावप्रथमायामिति दीर्घः ॥ ११ ॥

1.108.12
यदि᳚न्द्राग्नी॒ उदि᳚ता॒ सूर्य᳚स्य॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दये᳚थे ।
अत॒ः परि᳚ वृषणा॒वा हि या॒तमथा॒ सोम᳚स्य पिबतं सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्रा॒ग्नी॒ इति᳚ । उत्॑इ᳚ता । सूर्य᳚स्य । मध्ये᳚ । दि॒वः । स्व॒धया᳚ । मा॒दये᳚थे॒ इति᳚ ।
अतः᳚ । परि᳚ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ᳚ । सोम᳚स्य । पि॒ब॒त॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी उदिता उदितस्योदयं प्राप्तस्य सूर्यस्यादित्यस्य संबंधिनो दिवो द्योतमानस्यांतरिक्षस्य मध्ये मध्यभागे स्वधयात्मीयेन तेजसा हविर्लक्षणेनान्नेन वा यद्यस्मात्कारणान्मादयेथे तृप्तौ भवथः । तस्मात्कारणादतः सर्वस्मादंतरिक्षभागात् हे कामाभिवर्षकाविंद्राग्नी आगच्छतम् । आगमनानंतरमभिषुतं सोमं पिबतं ॥ उदिता । सुपां सुलुगिति षष्ठ्या डादेशः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । मादयेथे । मद तृप्तियोगे । चुरादिरात्मनेपदी ॥ १२ ॥

1.108.13
ए॒वेन्द्रा᳚ग्नी पपि॒वांसा᳚ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज᳚यतं॒ धना᳚नि ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
ए॒व । इ॒न्द्रा॒ग्नी॒ इति᳚ । प॒पि॒॑वांसा᳚ । सु॒तस्य᳚ । विश्वा᳚ । अ॒स्मभ्य᳚म् । सम् । ज॒य॒त॒म् । धना᳚नि ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी सुतस्याभिषुतं सोममेवैवं पपिवांसा पीतवंतौ युवामस्मभ्यं विश्वा सर्वाणि धनानि सं जयतम् । प्रयच्छतम् । यदनेन सूक्तेन प्रार्थितं तन्मित्रादयो ममहंताम् । पूजयंतु ॥ पपिवांसा । पा पाने । लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः ॥ १३ ॥