प्रथमं मण्डलम् - सूक्तम् 8

10 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.8 - सम्पूर्णम्

1 / 10
ऋक्: 1.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.8.1
एन्द्र᳚ सान॒सिं र॒यिं स॒जित्वा᳚नं सदा॒सह᳚म् ।
वर्षि᳚ष्ठमू॒तये᳚ भर ॥
▶ पदपाठः (Word-by-word)
आ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् । स॒॑जित्वा᳚नम् । स॒दा॒॑सह᳚म् ।
वर्षि᳚ष्ठम् । ऊ॒तये᳚ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ऊतयेऽस्मद्रक्षार्थं रयिं धनमा भर । अहर । कीदृशं रयिंसानसिं संभजनीयं सजित्वानं समानशत्रुजयशीलम् । धनेन हि शूरान्छृत्यान्सेंपाद्य शत्रवो जीयंते । सदासदं सर्वदा शत्रूणामभिभवहेतुं वर्षिष्ठं अतिशयेन वृद्धम् । प्रभूतमित्यर्थः ॥ सानसि । वन षण संभक्तावित्यस्मादसिप्रत्ययॊवृद्धिरंतोदात्तत्वं च सानसिधर्णसीत्यादिना । उ ४ । १०७ । निपात्यते । रयिम् । प्राति । पदिकस्वरेणांतोदात्तः । सजित्वानम् । समानानरीञ्जेतुं शीलमस्य । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति क्वनिप् । उपपदसमासः । समानस्य च्छंदस्यमूर्धप्रभृत्युदर्केषु (पा ६-२-८४) इति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरेण धातुस्वर एव शिष्यते । वर्षिष्ठम् । वृद्धशब्दादशिशायने तमबिष्ठनौ (पा ५-३-५५) इतीष्ठन् प्रियस्थिरेत्यादिना (पा ६-४-१५७) वृद्धशब्दस्य वर्षादेशः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ऊतये । उदात्त इत्यनुवृत्तावूतियूतिजुूतिसातीत्यादिना क्तिन्नुदातो प्राग्धातोः । पा । १-४-८० । इति धातोः प्राक्प्रयोक्तव्यस्याङो व्यवहिताश्च (पा १-४-८२) इति छंदसि व्यवहितप्रयोगः ॥ १ ॥

1.8.2
नि येन᳚ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा᳚महै ।
त्वोता᳚सो॒ न्यर्व᳚ता ॥
▶ पदपाठः (Word-by-word)
नि । येन᳚ । मु॒ष्टि॒॑ह॒त्यया᳚ । नि । वृ॒त्रा । रु॒णधा᳚महै ।
त्वा॑ऊ᳚तासः । नि । अर्व᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन धनेन संपादितानां भटानां नि मुष्टिहत्यया नितरां मुष्टिप्रहारेण वृत्रा शत्रून्नि रुणाधामहै निरुद्धा न्करवाम तादृशं धनमाहरेत्यर्थः । त्वोतासस्त्वया रक्षिता वयमर्वतास्मदीयेनाश्वेन नि रुणधामहा इत्यनुषंगः । पदातियुद्धेनाश्व युद्धेन च शत्रून्विनाशयामेत्यर्थः ॥ मुष्टिहत्यया । हनस्त च (पा ३-१-१०८) इतिसुबंतउपपदे क्यप् । तत्संनियोगेन नकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते परादिश्छंदशि बहुलं ॥ पा ६-२-१९९ । इति बहुलग्रहणेन त्रिचक्रादीनां छंदस्यंतोदात्तत्त्वाभिधानात् । पा ६-२-१९९-१ । अंतोदात्तत्वम् । नि । आख्यातसंबंधस्यापि नेरुपसर्गस्य व्यहिताश्चेति व्यवहितप्रयोगः । वृत्रा । शेश्चंदसि बहुलम् । पा ६-१-७० श्नसोरल्लोपः (पा ६-४-१११) इत्यकारलोपो न भवति । पित्त्वादेव चाख्यातस्यानु । दात्तत्वेन विकरणस्य श्नम एवोदात्तत्वं शिष्यते । ननु तिङ्ङतिङ इति निघातेन भवितव्यम् । न । द्वे ह्यत्र तिङ्विभक्ती । निविडया मुष्व्या निरुणधामहा इत्यत्र श्रुतैका । अर्वता । निरुणधामहा इत्यत्रानुषक्ता द्वितीया । तयोः समुच्चयार्थश्चकारो लुप्यते तेन चादिलोपे विभाषा (पा ८-१-६३) इति प्रथमेयं तिङ्विभक्तिर्न निहन्यते । यथा नात्मना तृप्यति नान्यस्मै ददाति । तै । सम् । २-५-४-३ । इत्यत्र हि समुच्चयार्थस्य चशब्दस्य लोपात्तृप्यतीति प्रथमा तिङ्विभक्तिर्न निहन्यते ददातीति द्वितीया तु निहन्यत एव । ननु तत्र द्वे तिङ्विभक्ती श्रूयेते । इह पुनरेकैव श्रुता । सैवोत्तरत्रानुषज्यते नान्या श्रूयत इति द्वितीयाभावात्कथमियं प्रथमा । न । अनुषंगलब्धद्वितीयापेक्षमपि प्राथम्यमुपजीव्य निघातनिषेधदर्शनात् । पुरोडाशं चादिश्रयत्याज्यं च । तै सं १-६-९-३ । प्रोक्षणीश्चासादयत्याज्यं च । तै सं १-६-९-४ । इत्यत्र ह्यधिश्रयत्यासादयतीत्याख्यातयोः प्रथमवाक्यद्वयश्रुतयोरुत्तरवाक्यद्वयेऽनुषंगमपेक्ष्यैव प्राथम्यस्वीकारेण चवायोगे प्रथमा (पा ८-१-५९) इति निघातनिषेधो दृष्व इति । त्वयोता रक्षितास्त्वोतासः । प्रत्ययोत्तरपदयोश्च (पा ७-२-९८) इति मपर्यंतस्य त्वादेशे दकारलोपश्छांदसः । अवतेर्निष्ठायामिडभावश्च । ज्वरत्वरस्रिव्यविमवामुपधायाश्च (पा ६-४-२०) इत्यूट् । एत्येधत्यूट्सु (पा ६-१-५९) इति वृद्ध्यभावश्छांदसः । तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरेणाकार उदात्तः । एकादेश उदात्तेनोदात्त इत्युदात्त ओकारः । अर्वता । अर्वति गच्छतीत्यर्वा । अर्व गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप्प्रत्ययः । नेड्वशि कृति (पा ७-२-८) इतीट् प्रतिषेधः । लोपो व्योर्वलि (पा ६-१-६६) इति वकारलोपः । अर्वणस्त्रसावनञः (पा ६-४-१२७) इति तकारः । वनिपः पित्त्वाद्धातुस्वर एव ॥ २ ॥

1.8.3
इन्द्र॒ त्वोता᳚स॒ आ व॒यं वज्रं᳚ घ॒ना द᳚दीमहि ।
जये᳚म॒ सं यु॒धि स्पृधः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । त्वा॑ऊ᳚तासः । आ । व॒यम् । वज्र᳚म् । घ॒ना । द॒दी॒म॒हि॒ ।
जये᳚म । सम् । यु॒धि । स्पृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वोतासस्त्वया पालिता वयं घना घनं शत्रुप्रहरणायात्यंतः दृढं वज्रमायुधमा ददीमहि । स्वीकुर्मः । तेन च वज्रेण युधि युद्धे स्पृधः स्पर्धमानांच्छत्रून्सं जयेम ॥ त्वोतासः । उक्तम् । वज्रम् । वज व्रज गतौ । ऋज्रेंद्राग्रेत्यादिना रन्प्रत्ययांतो निपातः । घन । घनः काठिन्यम् । तदस्यास्तीत्यर्श आदित्वादच् (पा ५-२-१२७) चित्त्वादंतोदात्तः । सुपां सुलुगिति डादेशः । ददीमहि डुदाञ् दाने प्रार्थनायां लिङ् । क्रियाफलस्य कर्तृगामित्वात्स्वरितञितः (पा १-३-७२) इत्यात्मनेपदोत्तमपुरुषबहुवचनं महिङ् । जुहोत्यादित्वाच्छपः श्लुः पा २-४-७५ । श्लौ । पा ६-१-१० इति द्विर्भावः । लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सलोपः । श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । जयेम । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वराद्धातुस्वर एव शिष्यते । छंदसि परेऽपि (पा १-४-८१) इति समः परः प्रयोगः । युधि । युध संप्रहारे । संपदादित्वाद्भावे क्विप् । पा ३-३-१०८-९ । सावेकाच इति विभक्तेरुदात्तत्वम् । स्पर्धंत इति स्पृधः । स्पर्ध संघर्षे । क्विप्च (पा ३-२-७६) इति क्विप् । बहुलं छंदसीति रेफस्य संप्रसारणमृकारः । अकारलोपश्च ॥ ३ ॥

1.8.4
व॒यं शूरे᳚भि॒रस्तृ᳚भि॒रिन्द्र॒ त्वया᳚ यु॒जा व॒यम् ।
सा॒स॒ह्याम᳚ पृतन्य॒तः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । शूरे᳚भिः । अस्तृ᳚॑भिः । इन्द्र᳚ । त्वया᳚ । यु॒जा । व॒यम् ।
सा॒स॒ह्याम᳚ । पृ॒त॒न्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं कर्मानुष्ठातारः शूरेभिः शौर्ययुक्तैरस्तृभिरायुधानां प्रक्षेप्तृभिर्भटैः संयुज्येमहीति शेषः । हे इंद्र तादृशा भटसहिता वयं युजा सहायभूतेन त्वया पृतन्यतः सेनामिच्छतः शत्रून्सासहाृम । अतिशयेनाभिभवेम ॥ शूरेभिः । शु श्रु गतौ । क्रन्नित्यनुवृत्तौ शुषिचिमीनां दीर्घश्च (उ २-२५) इति क्रन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । बहुलं छंदसीत्यैसो निषिद्धत्वाद्बहुवचने झल्येदित्येवम् । सहयोगे तृतीयाबलाद्वयमित्यस्मत्पदसमभिव्याहाराच्च वयं संयुज्येमहीति गम्यम् । विनापि सहशब्देन वृद्धो यूना (पा १-२-६५) इति निपातनादिति ह्युक्तम् (पा २-३-१९) अस्तृभिः । शस्त्रास्त्रप्रक्षेपणशीलैः । तद्धर्मभिस्तत्साधुकारिभिर्वा । असु क्षेपणे । तृन् (पा ३-२-१३५) इति शाच्छील्यादिषु तृन् । नित्त्वादाद्युदात्तः । रधादिभ्यश्च (पा ७-२-४५) इति विकल्पविधानादयं पक्ष इडभावः । त्वया । युष्यसिभ्यां मदिक् (उ १-१३८) कित्त्वाद्गुणाभावः । युष्मदः प्रत्यय स्वरेणाकार उदात्तः । तृतीयैकवचनं टा (पा ४-१-२) त्वमावेकवचने (पा ७-२-९७) इति मपर्यंतस्य त्वादेशः । अतो गुणे (पा ६-१-९७) इति पररूपत्वम् । एकादेश उदात्तेनोदात्त इत्युदात्तः । युजा । अंचुयुजिक्रुंचां च (पा ३-२-५९) इति क्विन् । सावेकाच इति विभक्तेरुदात्तत्वम् । सासह्याम । भृशं पुनः पुनः सहेमहि । षह मर्षणे । धात्वादेः षः सः । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (पा ३-१-२२) यङोऽपि च (पा २-४-७४) इति लुक् सन्यङोः (पा ६-१-९) इति द्विर्भावः । हलादिशेषः (पा ७-४-६०) दीर्घोऽकितः (पा ७-४-८३) इति दीर्घः । प्रार्थनायां लिङ् । चर्करीतं परस्मैपदमदादिवच्च द्रष्टव्यमिति परस्मैपदोत्तमपुरुषबहुवचनं मस् । कर्तरि शप् । अदादिवद्भावाल्लुक् । नित्यं ङितः (पा ३-४-९९) इत्यंत्यसकारलोपः । यासुट् परस्मैपदेषूदात्तो ङिच्च (पा ३-४-१०३) इति यासुट् । लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सकारलोपः । सति शिष्टत्वाद्यासुट एवोदात्तत्वं शिष्यते । पादादित्वान्न निघातः । पृतन्यतः । योद्धुं पृतनामात्मन इच्छतः । सुप आत्मनः क्यजिन क्यच् । सनाद्यंता धातवः (पा ३-१-३२) इति धातुसंज्ञायां सुपो धातुप्रातिपदिकयोः (पा २-४-७१) इति सुपो लुक् । क्यचि च (पा ७-४-३३) इत्यनुवृत्तौ कव्यध्वरपृतनस्यर्चि लोपः (पा ७-४-३९) इत्याकारलोपः । पृतन्यधातुश्चित्त्वादंतोदात्तः । उपरि लटः शत्रादेशः । कर्तरि शप् । पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेणोदात्तेन सहेकादेश उदात्तेनोदात्त इति पृतन्यच्छब्दोंऽतोदात्तः । शसः सुप्स्वरेणानुदात्तस्यांतोदात्तादित्यनुवृत्तौ शतुरनुमो नद्यजादी (पा ६-१-१७३) इत्युदात्तत्तं ॥ ४ ॥

1.8.5
म॒हा{4} इन्द्रः᳚ प॒रश्च॒ नु म᳚हि॒त्वम᳚स्तु व॒ज्रिणे᳚ ।
द्यौर्न प्र᳚थि॒ना शवः᳚ ॥
▶ पदपाठः (Word-by-word)
म॒हान् । इन्द्रः᳚ । प॒रः । च॒ । नु । म॒हि॒॑त्वम् । अ॒स्तु॒ । व॒ज्रिणे᳚ ।
द्यौः । न । प्र॒थि॒ना । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिंद्रो महान् शरीरेण प्रौढः परश्च गुणैरुत्कृष्टोऽपि । नु किंच वज्रिणे वज्रयुक्तायेंद्राय महित्वं पूर्वोक्तं द्विविधमाधिक्यं सर्वदास्तु । स्वभावसिद्धस्यापि भक्त्या प्रार्थनमेतत् । किंच । द्यौर्न द्युलोक इव शवो बलमिंद्रस्य सेनारूपं प्रथिना प्रथिम्ना पृथुत्वेन युज्यतामिति शेषः । यथा द्युलोकः प्रभूत एवमस्य सेना प्रभूता । नुशब्दो यद्यपि क्षिप्रनामसु नु मक्ष्विति पठितस्तथाप्यत्र तस्यान्वयाभावान्निपातत्वेनानेकार्थत्वसंभवाच्च समुच्चयार्थोऽत्र गृहीतः । नुशब्दो लोके प्रतिषेदार्थ एव । स्वाध्याये तु प्रतिषेधार्थ उपमानार्थश्चेति द्विविधः । येन पदेनान्वीयते तस्मात्पूर्वं प्रयुज्यमानः प्रतिषेधार्थ उपरिष्वात्प्रयुज्यमान उपमार्थः । तथा च यास्क उदाहरति । उभयमन्वध्यायं नेंद्रं देवममंसतेति प्रतिषेधार्थीयः पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति । दुर्मदासो न सुरायामित्युपमार्थीय उपरिष्वादुपाचारस्तस्य येनोपमिमीते (नि १-४) इति । अत्रोपमेयवाचिनो द्युशब्दस्यापि प्रयुक्तत्वादुपमार्थः स्वीकृतः । अष्टाविंशतिसंख्याकेषु बलनामस्वोजः पाजः शव इति पठितं ॥ महानिति नकारस्य संहितायां दीर्घादट समानपादे (पा ८-३-९) इति रुत्वम् । आतोऽट नित्यम् (पा ८-३-३) इति पूर्वस्याकारस्यानुनासिकः । भोभगोअघोअपूर्वस्य योऽशि । पा ८-१७ । इति यकारः । तस्य लोपः (पा ८-३-१९) तस्यासिद्धत्वात् (पा ८-२-१) स्वरसंधिर्न भवति । महेरिन् (उ ४-११७) इत्यौणादिक इन् । महेर्भावो महित्वम् । त्व इति प्रत्ययस्वरेणोदात्तः । स एव शिष्यते । वज्रिणे । इकारः प्रत्ययस्वरेणोदात्तः । द्यौः । द्योशब्दः प्रातिपदिकस्वरेणांतोदात्तः । गोतोणित् (पा ७-१-९०) इति विभक्तेर्णित्त्वादचो ञ्णिति (पा ७-२-११५) इति वृद्धिरांतरतम्यादुदात्तैव भवति । प्रथिना । प्रथिम्ना । पृथोर्भाव इत्यर्थे पृथ्वादिभ्य इमनिज्वा (पा ५-१-१२२) इतीमनिच् । र ऋतो हलादेर्लघोः (पा ६-४-१६१) इति ऋकारस्य रभावः । तुरिष्ठेमेयःसु (पा ६-४-१५४) इत्यनुवृत्तौ टीः (पा ६-४-१५५) इति टलोपः । प्रथिमन्शब्दश्चित्त्वादंतोदात्तः । तृतीयै कवचने भत्वादल्लोपोऽनः (पा ६-४-१३४) इत्यकारलोपः । छांदसो मकारलोपः । अनुदात्तस्य च यत्रोदात्तलोप इति विभक्तेरुदात्तत्वम् । शवः । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वं ॥ १५ ॥ ५ ॥

1.8.6
स॒मो॒हे वा॒ य आश᳚त॒ नर᳚स्तो॒कस्य॒ सनि᳚तौ ।
विप्रा᳚सो वा धिया॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑ओ॒हे । वा॒ । ये । आश᳚त । नरः᳚ । तो॒कस्य᳚ । सनि᳚तौ ।
विप्रा᳚सः । वा॒ । धि॒या॒॑यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये नरः पुरुषाः समोहे संग्रामे तोकस्यापत्यस्य सनितौ वा लाभे वाशत । व्याप्तवंतः । इंद्रं स्तुत्येति शेषः । वा अथवा विप्रासो मेधाविनो धियायवः प्रज्ञाकामाः संत आशत ते सर्वे लभंत इत्यध्याहारः । रण इत्यादिषु षट्चत्वारिंशत्संग्रामनामसु समोहे समिथ इति पठितम् । पंचदशस्वपत्यनामसु तुक् तोकमिति पठितं ॥ समोहे । प्रातिपदिकांतोदात्तत्वम् । वा चादयोऽनुदात्त इत्यनुदात्तः । अशत । अशू व्याप्तौ । छांदसश्च्लेर्लोपः । आडागम उदात्तः (पा ६-४-७२) सति शिष्टत्वेन स एव शिष्यते । नरः । प्रातिपदिकस्वरः । सनितौ । स्त्रियां क्तिन् । तितुत्रेष्वग्रहादीनामिति वचनात् । पा ७-२-९-१ । निगृहीतिर्निपठितिरितिवदिडाागमः । विप्रासः । ऋच्रेंद्रेत्यादिना विप्रशब्दो रन्प्रत्ययांतो निपातितः । धियायुवः । धि धारणे । धीयते धार्यतेऽवबुद्ध्यते श्रुतमर्थजातमनयेति धिया प्रज्ञा । तामात्मन इच्छंतीति क्यच् । क्याच्छंदसि (पा ३-२-१७०) इत्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणांतोदात्तः ॥ ६ ॥

1.8.7
यः कु॒क्षिः सो᳚म॒पात᳚मः समु॒द्र इ᳚व॒ पिन्व᳚ते ।
उ॒र्वीरापो॒ न का॒कुदः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । कु॒क्षिः । सो॒म॒॑पात᳚मः । स॒मु॒द्रः॑इ᳚व । पिन्व᳚ते ।
उ॒र्वीः । आपः᳚ । न । का॒कुदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः कुक्षिरस्येंद्रस्योदरप्रदेशः सोमपातमोऽतिशयेन सोमस्य पातास कुक्षिः समुद्र इव पिन्वते । वर्धते । सेचनार्थो धातुरौचित्येन वृद्धिं लक्षयति । काकुदो मुखसंबंधिन्य उर्वीर्बह्व्य अपो न जलानीव । जिह्वासंबंधमास्योदकं यथा कदाचिदपि न शुष्यति तथेंद्रस्य कुक्षिः सोमपूरितो न शुष्यतीत्यर्थः । यद्यपि श्लोक इत्यादिषु सप्तपंचाशत्सु वाङ्नामसु काकुज्जिह्वेति पठितं तथाप्युदक संबंधसिद्ध्यर्थमत्र काकुच्छब्धेन मुखमुपलक्ष्यते । संबंधवाचिनस्तद्धितस्यात्र छांदसो लोपो द्रष्टव्यः ॥ सोमपातमः । सोमं पिबतीति सोमपाः । आकारो धातुस्वरेणोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । तमपः पित्त्वादनुदात्तत्वम् । समुद्रशब्दः प्रातिपदिकत्वादंतोदात्तः । इवेन विभक्त्यलोपः पूर्वपदप्रक्कृतिस्वरत्वं च । पा २-१-४-२ । इति प्रकृतिस्वरः । पिन्वते । पिवि सेचने । इदितो नुम् धातोरिति नुमागमः । शपः पित्त्वेनानुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । उर्वीः । उरुशब्दोंऽतोदात्तः । वोतो गुणवचनात् (पा ४-१-४४) इति ङीष् । यणादेशः । उदात्तयणो हल्पूर्वात् (पा ६-१-१७४) इतीकार उदात्तः । जसा सहैकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । आपः । प्रातिपदिकस्वरः । काकुदः । प्रातिपदिकस्वरेणांतोदात्तः ॥ ७ ॥

1.8.8
ए॒वा ह्य᳚स्य सू॒नृता᳚ विर॒प्शी गोम᳚ती म॒ही ।
प॒क्वा शाखा॒ न दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । हि । अ॒स्य॒ । सू॒नृता᳚ । वि॒॑र॒प्शी । गो॑म᳚ती । म॒ही ।
प॒क्वा । शाखा᳚ । न । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिप्लवषडहगतेषूक्थ्येषु तृतीतयसवने ब्राह्मणाच्छंसिन एवा ह्यस्य सूनृतेत्यनुरूपस्तृचः । एह्यूषु ब्रवाणि त इति खंडे अथ ब्राह्मणाच्छंसिन इत्युपक्रम्य एवा ह्यसि वीरयुरेवा ह्यत्य सूनृता (आ ७-८) इति सूत्रितं ॥

अस्येंद्रस्य सूनृता प्रियसत्यरूपा वाग्दाशुषे हविर्दत्तवते यजमानाय तदर्थमेवा हि एवं खलु । अनंतरपदवक्ष्यमाणगुणोपेता भवतीत्यर्थः । कीदृशी । विरप्शी विविधरपणोपेतवाक्ययुक्ता । बहुविधोपचारवादिनीत्यर्थः । गोमती बह्वीभिर्गोभिरुपेता । गोप्रदेत्यर्थः । अत एव मही महती पूज्या । यथोक्तवाचो दृष्टांतः । पक्वा शाखा न । यथा बहुभिः पक्वैः फलैरुपेता पनसवृक्षादिशाखा प्रीतिहेतुस्तद्वत् । यद्यपि महन्नामसु व्राधन् विरप्शीति पठितं तथाप्यत्र महीत्यनेन पुनरुक्तिप्रसंगादवयवार्थो गृहीतः ॥ एव एवमादीनामंत इत्यंतोदात्तः संहितायां निपातस्य चेति दीर्घः । हि । निपात आद्युदात्तः । अस्य । प्रकृतस्येंद्रस्य परामर्शादिदमोऽन्वादेश इत्यादिनाशादेशोऽनुदात्त इति सर्वानुदात्तः । सूनृता । ऊन परिहाणे । सुतरामूनयत्यप्रियमिति सून् । सा चासावृता सत्या चेति सूनृता प्रियसत्या वाक् । परादिश्छंदसि बहुलमित्युृकार उदात्तः । विरप्शी । विचित्रं रपणं विरप् । रप लप व्यक्तायां वाचि । संपदादित्वाद्भावे क्विप् । तदेषामस्तीति विरप्शानि वाक्यानि । तानि यस्यां वाचि संति सा वाग्विरप्शिनी । अत इनिठनावितीनिः । यस्येति च (पा ६-४-१४८) इत्यकारलोपः । अन्नेभ्यो ङीप् (पा ४-१-५) इति ङीप् । इकारः प्रत्ययस्वरेणोदात्तः । नकारलोपश्छांदसः । सवर्णदीर्घ एकादेश उदात्तेनोदात्त इत्युदात्तः । गावोऽस्यां संतीति गोमती । मतुब्ङीपौ पित्त्वादनुदात्तौ । प्रातिपदिकस्वर एव शिष्यते । मही । महती । उगितश्च (पा ४-१-६) इति ङीप् । तस्य पित्त्वादनुदात्तत्वे प्राप्ते शतुरनुमो नद्यजादी इत्यत्र बृहन्महतोरुपसंख्यानम् । पा ६-१-१७३-१ । इत्युदात्तत्वम् । अच्छब्दलोपश्छांदसः । पक्वा । डुपचष् पाके । निष्ठा (पा ३-२-१०२) इति क्तप्रत्ययः । पचो वः (पा ८-२-५२) इति वत्वम् । चोः कुः (पा ८-२-३०) इति कुत्वम् । प्रत्ययस्वरेणांतोदात्तः । टापा सह सवर्णदीर्घ एकादेश उदात्तेनोदात्त इत्युदात्तः । शाखा । शाखृ श्लाखृ व्याप्तौ । पचाद्यच् । चित्त्वादंतोदात्ते प्राप्ते वृषादेराकृतिगणत्वाद्वृषादित्वादाद्युदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान्साह्वान्मीढ्वांश्च (पा ६-१-१२) इति निपातनात्क्वसाविडभावो द्वर्वचनाभावश्च । चतुर्थ्येकवचने यचि भम् (पा १-४-१८) इति भसंज्ञायां वसोः संप्रसारणम् (पा ६-४-१३१) इति संप्रसारणं वकारस्योकारः । परपूर्वत्वम् । शासिवसिघसीनां च (पा ८-३-६०) इति षत्वम् । प्रत्ययस्वरेणोकार उदात्तः ॥ ८ ॥

1.8.9
ए॒वा हि ते॒ विभू᳚तय ऊ॒तय᳚ इन्द्र॒ माव᳚ते ।
स॒द्यश्चि॒त्सन्ति᳚ दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । हि । ते॒ । वि॑भू᳚तयः । ऊ॒तयः᳚ । इ॒न्द्र॒ । मा॑व᳚ते ।
स॒द्यः । चि॒त् । सन्ति᳚ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ते तव विभूतय ऐश्वर्यविशेषा एवा हि एवं विधाः खलु । किं विधा इति तदुच्यते । मावते मत्सदृशाय दाशुषे हविर्दत्तवते यजमानायोतयस्त्वदीयरक्षारूपाः सद्यश्चित्संति । यदा कर्मानुष्ठितं तदैव भवंति ॥ मावते । मत्सदृशाय । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । इत्यस्मच्छब्दाद्वतुप् । मपर्यंतस्य प्रत्ययोत्तरपदयोश्च । पा ७-२-९८ इति मादेशः । अद् शब्देन सहातो गुणे (पा ६-१-९७) इति पररूपत्वम् । दृग्दृश वतुषु (पा ६-३-८९) इत्यनुवृत्तावा सर्वनाम्नः (पा ६-३-९१) इति दकारस्याकारः । सवर्णदीर्घत्वम् । वतुपः पित्त्वात्प्रातिपदिकस्वर एव शिष्यते । सद्यः । समाने द्यवीत्यर्थे सद्यः परुत्परार्यैषमः (पा ५-३-२२) इत्यादिना निपातितम् । प्रत्ययस्वरेणांतोदात्तत्वम् । चित् । चादयोऽनुदात्ता इत्यनुदात्तः । संति । अस भुवि । लटः स्थाने झि । झोंतः (पा ७-१-३) अदिप्रभृतिभ्यः शप इति शपो लुक् । तिङः प्रत्ययाद्युदात्तत्वम् । प्रत्ययलोपे प्रत्ययलक्षणम् (पा १-१-६२) इति शबकारमाश्रित्य लसार्वधातुकानुदात्तत्वं न भवति । वर्णाश्रयविधौ प्रत्ययलक्षणं नास्ति । परि २१ । इति निषेधात् । दाशुषे । गतमंत्रे गतं ॥ ९ ॥

1.8.10
ए॒वा ह्य᳚स्य॒ काम्या॒ स्तोम᳚ उ॒क्थं च॒ शंस्या᳚ ।
इन्द्रा᳚य॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
ए॒व । हि । अ॒स्य॒ । काम्या᳚ । स्तोमः᳚ । उ॒क्थम् । च॒ । शंस्या᳚ ।
इन्द्रा᳚य । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येंद्रस्य स्तोमः सामसाध्यं स्तोत्रमुक्थं चर्क्साध्यं शस्त्रमुप्येवा ह्येते उभे एवंविधे खलु । किंविधे इति तदुच्यते । काम्या कामयितव्ये शंस्या ऋत्विग्भिः शंसनीये । किमर्धं शंसनमिति तदुच्यते । इंद्राय सोमपीतये । इंद्रस्य सोमपानार्थ ॥ एवा ह्यस्य । व्यवहितमंत्रे गतम् । काम्या । कमेर्णीङंतादचो यत् (पा ३-१-९७) णेरनिट (पा ६-४-५१) इति णिलोपः । तित्स्वरितमिति स्वरिते प्राप्ते यतोऽनावः (पा ६-१-२१३) इत्याद्युदात्तत्वम् । सुपो डादेशः । स्तोमः । अर्तिस्तुस्वित्यादिना (उ १-१३९) मन्प्रत्ययः उक्थम् । वच परिभाषणे । पातृतुदिवचिरचिसिचिभ्यस्थक् (उ २-७) इति थक् । कित्त्वात्संप्रसारणम् । परपूर्वत्वगुणाभावौ । शंस्या । शन्सु स्तुतौ । ण्यंतादचो यत् । यतोऽनाव इत्याद्युदात्तत्वम् । सुपो डादेशः । सोमस्य पीति सोमपीति । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अथवा सोमस्य पीतिर्यस्येंद्रस्येति सोमपीतिरिंद्रः । बहुव्रीहौ प्रकृत्या पूर्वपदम् (पा ६-२-१) इति पूर्वपदप्रकृतिस्वरत्वं ॥ १० ॥