तक्ष᳚न्पि॒तृभ्या᳚मृ॒भवो॒ युव॒द्वय॒स्तक्ष᳚न्व॒त्साय᳚ मा॒तरं᳚ सचा॒भुव᳚म् ॥
पदपाठः (Word-by-word)
तक्ष᳚न् । पि॒तृ॑भ्या᳚म् । ऋ॒भवः᳚ । युव᳚त् । वयः᳚ । तक्ष᳚न् । व॒त्साय᳚ । मा॒तर᳚म् । स॒चा॒॑भुव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
तक्षन्निति पंचर्चं षष्ठं सूक्तं कुत्सस्यार्षमार्भवम् । पंचमी त्रिष्टुप् । रिष्टाश्चतस्रो जगत्यः । तथा चानुक्रांतम् । तक्षन् पंचांत्या त्रिष्टुबिति अग्निष्टोमे वैश्वदेवशस्त्र इदं सूक्तमार्भवं निविद्थानम् । सूत्रितं च । तक्षन्रथमयं वेनश्चोदयत्प्रश्निगर्भा (आ ५-१८) इति ॥
विद्मनापस उत्कृष्टेन ज्ञानेन निप्पाद्यकर्माणो लाभवत्कर्माणो वा ऋभवो रथमश्विनोरारोहणार्थं सुवृतं शोभनवर्तनं सुचक्रं वा तक्षन् । अकुर्वन् । तथेंद्रवाहा इंद्रस्य वाहनभूतौ हरी हरणशीलावेतत्संज्ञिकावश्वौ तक्षन् । कृतवंतः । कीदृशौ । वृषण्वसू । सेचनसमर्थेन दृढतरेण धनेन बलेन वा युक्तौ । अपि च पितृभ्यां स्वकीयाभ्यां मातापितृभ्यां वृद्धाभ्यां युवद्यौवनोपेतं वय आयुर्ऋभवस्तक्षन् । कृतवंतः । तथा वत्साय मातरं गां सचाभुवं सहभुवं सह वर्तमानां तक्षन् । अकुर्वन् । तक्षन् ॥ तक्षू त्वक्षू तनूकरणे । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । सुवृतम् । शोभनं वर्तत इति सुवृत् । वृतु वर्तने । क्विप्चेति क्विप् । विद्मनापसः । विद ज्ञाने । अन्येभ्योऽपि दृश्यंत इति दृशिग्रहणाद्भावे मनिन् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । बहुलवचनाद लुक् । यद्वा । विद्लृ लाभे । औणादिको भावे मक् । ततः पामादिलक्षणो नप्रत्ययः । विद्मनं लाभवदपः कर्म येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । छांदसः पूर्वसवर्णदीर्घः इंद्रवाहा । इंद्रं वहत इतींद्रवाहौ । वहश्चेति ण्विप्रत्ययः । अत उपधाया इति वृद्धिः । सुपां सुलुगिति विभक्तेराकारः । वृषण्वसू । वृष सेचने । कनिन्युवृषितक्षीत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । वृषण्वस्वश्वयोरुपसंख्यानम् । पा १-४-१८-४ । इति वसुशब्द उत्तरपदे वृषण् भावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युवत् । अत्र युवञ्शब्दः सामर्थ्यात्प्रवृत्तिनिमित्तं युवत्वमात्रमाचष्टे । तदस्मिन्नस्तीति युवत् । छांदसो वर्णलोकः ॥ १ ॥