प्रथमं मण्डलम् - सूक्तम् 114

11 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: रुद्रः छन्दः: जगती

सूक्तम् 1.114 - सम्पूर्णम्

1 / 11
ऋक्: 1.114.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.114.1
इ॒मा रु॒द्राय᳚ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ᳚रामहे म॒तीः ।
यथा॒ शमस᳚द्द्वि॒पदे॒ चतु᳚ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚ अ॒स्मिन्न᳚नातु॒रम् ॥
▶ पदपाठः (Word-by-word)
इ॒माः । रु॒द्राय᳚ । त॒वसे᳚ । क॒प॒र्दिने᳚ । क्ष॒यत्॑वी᳚राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः ।
यथा᳚ । शम् । अस᳚त् । द्वि॒॑पदे᳚ । चतुः᳚॑पदे । विश्व᳚म् । पु॒ष्टम् । ग्रामे᳚ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमा रुद्रायेत्येकादशर्चं नवमं सूक्तं कुत्सस्यार्षम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । रुद्रो देवता । तथा चानुक्रांतम् । इमा एकादश रौद्रं द्वित्रिष्टुबंतमिति । शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया । तथा च सूत्रितम् । कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् । आ गृ ४-९-२१ । इति ॥

रुद्राय । रोदयति सर्वमंतकाल इति रुद्रः । यद्वा रुत्संसाराख्यं दुःखम् । तद्द्रावयत्यपगमयति विनाशयतीति रुद्रः । यद्वा । रुतः शब्दरूपा उपनिषधः । ताभिर्द्रूयते गम्यते प्रतिपाद्यत इति रुद्रः । यद्वा । रुत् शब्दात्मिका वाणी तत्प्रतिपाद्यात्मविद्या वा । तामुपासकेभ्यो राति ददातीति रुद्रः । यद्वा । रुणद्व्यावृणोतीति रुदंधकारादि । तद्दृणाति विदारयतीति रुद्रः । यद्वा । कदाचिद्देवसुरसंग्रामेऽग्न्यात्मको रुद्रो देवैर्निक्षिप्तं धनमपहृत्य निरगात् । असुराञ्जित्वा देवा एनमन्विष्य दृष्ट्वाधनमपाहरन् । तदानीमरुदत् । तस्माद्रुद्र इत्याख्यायते । तथा च तैत्तिरीयकम् । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । तै सं १-५-१-१ । इति । तस्मैरुद्राय मतीर्मननीया इमा स्तुतीः प्र भरामहे । प्रकर्षेण निष्पादयामः । कीदृशाय । तवसे प्रवृद्धाय कपर्दिने जटलाय क्षयद्वीराय क्षयंतो विनश्यंतो वीरा यस्मिन् तादृशाय । यद्वा । क्षयतिरैश्वर्यकर्मा । क्षयंतः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै । यथा येन प्रकारेण शं शमनीयानां रोगाणामुपशमनं द्विपदेऽस्मदीयाय मनुष्याय चतुष्पदे गवाश्वप्रभृतये चासत् । भवेत् तेन प्रकारेण स्तुतीः कुर्म इत्यर्थः । अतोऽस्मिन्नस्मदीये ग्रामे वर्तमानं विश्वं सर्वं प्राणिजातमनातुरम् । आतुरा रुग्णाः । तै रहितं सत् पुष्टं प्रवृद्धं भवतु ॥ रुद्राय । रोदेर्णिलुक्च (उ २-२२) इति रक् तवसे । तवशिर्वृद्ध्यर्थः । सौत्रो धातुः । औणादिकोऽसिप्रत्ययः । क्षयद्वीराय । क्षि क्षये । लटः शतृ । छंदस्युभयथेति शतुरार्धधातुकत्वेनादुपदेशाल्लसार्वधातुकानुदात्तत्वाभावात्तस्यैव स्वरः शिष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असत् अस भुवि । लेट्यडागमः । इतश्च लोप इतीकारलोपः । द्विपदे । द्वौपादावस्य । संख्यासुपूर्वस्येति पादशब्दस्यांत्यलोपः समासांतः । चतुर्थ्येकवचने भसंज्ञायां पादः पदिति पद्भावः । एकदेशविकृतस्यानन्यत्वात् । परि ३७ । द्वित्रिभ्यां पाद्दन्मूर्द्ध सु बहुव्रीहावित्युत्तरपदाद्युदात्तत्वम् । चतुष्पदे । स्वरवर्जं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च न्रः संख्यायाः (फि २-५) इत्याद्युदात्तं ॥

1.114.2
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय᳚स्कृधि क्ष॒यद्वी᳚राय॒ नम᳚सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु᳚राये॒जे पि॒ता तद᳚श्याम॒ तव᳚ रुद्र॒ प्रणी᳚तिषु ॥
▶ पदपाठः (Word-by-word)
मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः᳚ । कृ॒धि॒ । क्ष॒यत्॑वी᳚राय । नम᳚सा । वि॒धे॒म॒ । ते॒ ।
यत् । शम् । च॒ । योः । च॒ । मनुः᳚ । आ॒॑ये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव᳚ । रु॒द्र॒ । प्र॑नी᳚तिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुद्रदेवत्ये पशौ वपापुरोडाशयोर्मृळा नो रुद्रेत्यादिके द्वे अनुवाक्ये । तथा च सूत्रितम् । मृळा नो रुद्रोत नो मयस्कृधीति द्वे आ ते पितर्मरुतां सुम्नमेतु (आ ३-८) इति ॥

हे रुद्र नोऽस्मभ्यमस्मदर्थं मृळ । त्वं सुखयिता भव । उतापि च तदनंतरं नोऽस्माकं मयः सुखं कृधि । कुरु । वयं च क्षयद्वीराय क्षपितसर्ववीरं प्राप्तैश्वर्यैर्मरुद्भिर्युक्तं वा ते त्वां नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा विधेम । परिचरेम । विधतिः परिचरणकर्मा । अपि च । पितोत्पादको मनुः स्वकीयाभ्यः प्रजाभ्यः शं रोगाणां शमनं योश्च भयानां यावनं च यदेतद्द्वयमायेजॆ देवेभ्यः सकाशात्प्राप्य दत्तवान् हे रुद्र तव प्रणीतिषु प्रकृष्टनयनेषु सत्सु तद्वयमश्याम । व्याप्नुयाम ॥ मृळ । मृड सुखने । तौदादिकः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । कृधि । करोतेर्लोट बहुलं छंदसीति विकरणस्य लुक् । श्रुशृणुपॄकृवृभ्यश्चंदसीति हेर्धिः । अतः कृकमीति मयसो विसर्जनीयस्य सत्वम् । क्षयद्वीराय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । विधेम । विध विधाने । तौदादिकः । आयेजे । यज देवपूजासंगतिकरणदानेषु । लिट संज्ञापूर्वकस्य विधेरनित्यत्वात्संप्रसारणाभाव एत्वा भ्यासलोपौ । अश्याम । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् ॥ २ ॥

1.114.3
अ॒श्याम᳚ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव᳚ रुद्र मीढ्वः ।
सु॒म्ना॒यन्निद्विशो᳚ अ॒स्माक॒मा च॒रारि᳚ष्टवीरा जुहवाम ते ह॒विः ॥
▶ पदपाठः (Word-by-word)
अ॒श्याम᳚ । ते॒ । सु॒॑म॒तिम् । दे॒व॒॑य॒ज्यया᳚ । क्ष॒यत्॑वी᳚रस्य । तव᳚ । रु॒द्र॒ । मी॒ढ्वः॒ ।
सु॒म्न॒॑यन् । इत् । विशः᳚ । अ॒स्माक᳚म् । आ । च॒र॒ । अरि᳚ष्ट॑वीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मीढ्वः सेक्तः कामाभिवर्षक नित्यतरुण वा रुद्र क्षयद्वीरस्य क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा तव सुमतिं शोभनां कल्याणीमनुग्रहात्मिकां बुद्धिं ते त्वत्संबंधिनो वयं देवयज्यया देवयागेन त्वद्देवत्येन यज्ञेनाश्याम । प्राप्नवाम । त्वं चास्माकं विशः प्रजा अभिलक्ष्याचर । आगच्छ । किं कुर्वन् । सुम्नायन्नित् । सुम्नमिति सुखनाम । तासां प्रजानां सुखमिच्छन्नेव । सुखप्रद एव भवेत्यर्थः । ततो वयमरिष्टवीराः । वीर्याज्जायंत इति वीराः प्रजाः । अरिष्टा अहिंसिता वीरा येषां तथाभूताः संतस्ते तुभ्यं हविश्चरुपुरोडाशादिकं जुहवाम । चोदित आधारे प्रक्षिपाम ॥ सुमतिम् । मतिर्मननम् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । देवयज्यया । छंदसि निष्टर्क्येत्यादौ यजेर्यप्रत्ययो निपात्यते स्त्रीलिंगता च । मीढ्वः । मिह सेचने । दास्वान् साह्वान् मीढ्वानिति क्वसुप्रत्ययांतो निपातितः । संबुद्धौ मतुवसो रुरिति रुत्वम् । सुम्नायन् । सुम्नं परेषामिच्छति । छंदसि परेच्छायामपीति क्यच् । न छंदस्य पुत्रस्येतीत्वदीर्घयोर्निषेधः । देवसुम्नयोर्यजुषि काठके (पा ७-४-३८) इति विधीयमानमात्वं व्यत्ययेनात्रापि द्रष्टव्यं ॥ ३ ॥

1.114.4
त्वे॒षं व॒यं रु॒द्रं य᳚ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव᳚से॒ नि ह्व᳚यामहे ।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो᳚ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒॑साध᳚म् । व॒ङ्कुम् । क॒विम् । अव᳚से । नि । ह्व॒या॒म॒हे॒ ।
आ॒रे । अ॒स्मत् । दैव्य᳚म् । हेळः᳚ । अ॒स्य॒तु॒ । सु॒॑म॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवसे रक्षणाय रुद्रं महादेवं नि ह्वयामहे । नितरामाह्वयामः । कीदृशम् । त्वेषं दीप्तं यज्ञसाधं यज्ञस्य साधयितारम् । एष हि यज्ञं स्विष्टं करोति । तथा च तैत्तिरीयके देवा वै यज्ञाद्रुद्रमंतरायन्नित्युपक्रम्याम्मातम् । स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति तत्स्विष्टकृतः स्विष्टकृत्त्वम् । तै । सं २-६ ८-३ । इति । वंकुम् । कुटलगंतारं कविं क्रांतदर्शिनम् । स च रुद्रो दैव्यं देवस्य द्योतमानस्य संबंधिनं हेळः क्रोधमस्मदारेऽस्मत्तो दूरदेशेऽस्यतु प्रेरयतु । अस्य महादेवस्य सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव वयमा वृणीमहे । आभिमुख्येन संभजामहे ॥ यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । षिधु संराद्धौ । सिध्यतेरपारलौकिक इत्यात्वम् । यद्वा । राध साध संसिद्धौ । अस्माण्ण्यंतात् क्विप् । वंकुम् । वकि कौटल्ये । औणादिक उप्रत्ययः । नि । ह्वयामहे । निसमुपविभ्यो ह्व इत्यात्मनेपदम् । दैव्यम् । देवाद्यञञौ । पा ४-१-८५-३ । इति प्राग्दीव्यतीयो यञ् । अस्यतु । असु क्षेपणे । दैवादिकः । वृणीमहे । वृङ् संभक्तौ । क्रैय्यादिकः ॥ ४ ॥

1.114.5 समानपद
दि॒वो व᳚रा॒हम᳚रु॒षं क᳚प॒र्दिनं᳚ त्वे॒षं रू॒पं नम᳚सा॒ नि ह्व᳚यामहे ।
हस्ते॒ बिभ्र᳚द्भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म᳚ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ॥
▶ पदपाठः (Word-by-word)
दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन᳚म् । त्वे॒षम् । रू॒पम् । नम᳚सा । नि । ह्व॒या॒म॒हे॒ ।
हस्ते᳚ । बिभ्र᳚त् । भे॒ष॒जा । वार्या᳚णि । शर्म᳚ । वर्म᳚ । छ॒र्दिः । अ॒स्मभ्य᳚म् । यं॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वराहं वराहारमुत्कृष्टभोजनम् । यद्वा । वराहवद्दृढांगम् । अरुषमारोचमानं कपर्दिनं जटाभिर्युक्तं त्वेषं तेजसा दीप्यमानं रूपं निरूपणीयं वेदांतैरधिगम्यं एवंभूतं रुद्रं नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा दिवो द्युलोकसकाशान्नि ह्वयामहे । नितरामाह्वयामः । स आहूतो रुद्रो हस्ते स्वकीये बाहौ वार्याणि सर्वैर्वरणीयानि भेषजा भैषज्यानि रोगशमनहेतुभूतानि बिभ्रत् धारयन् अस्मभ्यं स्तोतृभ्यः शर्मारोग्यलक्षणं सुखं वर्मायुधानां निवारकं कवचं छर्दिः । गृहनामैतत् । गृहं च यंसत् । प्रयच्छतु ॥ बिभ्रत् । डुभृञ् धारणपोषणयोः । औहोत्यादिकः । लटः शतृ । भृञामिदित्यभ्यासस्येत्वम् । भेषजा । भिषज् चिकित्सायाम् । कंड्वादिः । पचाद्यच् । अतोलोपयलोपौ । सुमंगलभेषजाच्च (पा ४-१-३०) इति निपातनाद्रूपसिद्धिः । शेश्छंदसि बहुलमिति शेर्लोपः । वार्याणि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्याद्युदात्तत्वम् । छर्दिः । उछृदिर् दीप्तिदेवनयोः । छृद्यते दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यत इति छर्दिर्गृहम् । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । इतश्च लोप इतीकारलोपः ॥ ५ ॥

1.114.6 समानपद
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः᳚ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध᳚नम् ।
रास्वा᳚ च नो अमृत मर्त॒भोज᳚नं॒ त्मने᳚ तो॒काय॒ तन᳚याय मृळ ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । पि॒त्रे । म॒रुता᳚म् । उ॒च्य॒ते॒ । वचः᳚ । स्वा॒दोः । स्वादी᳚यः । रु॒द्राय᳚ । वर्ध᳚नम् ।
रास्व᳚ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒॑भोज᳚नम् । त्मने᳚ । तो॒काय᳚ । तन᳚याय । मृ॒ळ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं स्तुतिलक्षणं वचो मरुतामेकोपंचाशत्संख्याकानां देव विशेषाणां पित्रे जनकाय रुद्रायेश्वरायोच्यते । उच्चार्यते । कीदृशम् । स्वादोः स्वादियो रसवतो मधुघृतादेरपि स्वादुतरम् । अतिशयेन हर्षजनकमित्यर्थः । वर्धनं स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां पितृत्वमेवमाख्यायते । पुरा कदाचिदिंद्रोऽसुराञ्जिगाय । तदानीं दितिरसुरमातेंद्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे । इमं वृत्तांतमवगच्छन्निंद्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद । पुनरप्येकैकं सप्तखंडमकरोत् । ते सर्वे गर्भैकदेशा योनेर्निर्गत्यारुदन् । एतस्मिन्नवसरे लीलार्थं गच्छंतौ पार्वतीपरमेश्वराविमान्ददृशतुः । महेशं प्रति पार्वत्येवमवोचत् । इमे मांसखंडा यथा प्रत्येकं पुत्राः संपद्यंतामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति । स च महेश्वरस्तान्समानरूपान् समानवयसः । समानालंकारान्पुत्रान्कृत्वा गौर्यै प्रददौ तवेमे पुत्राः संत्विति । अतः सर्वेषु मारुतेषु सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयंते । रौद्रेषु च मरुतां पिता रुद्र इति अपि च हे अमृत मरणरहित रुद्र मर्तभोजनं मर्तानां मनुष्याणां भोगपर्याप्तमन्नं नोऽस्मभ्यं रास्व । प्रयच्च । तथा त्मने आत्मने । द्वितीयार्थे चतुर्थी । माम् । तोकाय तोकं पुत्रं तनयाय तनयं तत्पुत्रं च मृळ । सुखय ॥ पित्रे । उदात्तयण इति विभक्तेरुदात्तत्वम् । रास्व । रा दाने । व्यत्ययेनात्मनेपदम् । त्मने । मंत्रेष्वाङ्यादेरात्मन इत्यत्राङोऽन्यत्रापि छंदसि दृश्यते । का ६-४-१४१-१ । इति वचनादात्मन आकारलोपः ॥ ६ ॥

1.114.7
मा नो᳚ म॒हान्त᳚मु॒त मा नो᳚ अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न᳚ उक्षि॒तम् ।
मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः᳚ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । म॒हान्त᳚म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष᳚न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् ।
मा । नः॒ । व॒धीः॒ । पि॒तर᳚म् । मा । उ॒त । मा॒तर᳚म् । मा । नः॒ । प्रि॒याः । त॒न्वः᳚ । रु॒द्र॒ । रि॒रि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुद्र नोऽस्माकं मध्ये महांतं वृद्धं मा वधीः । मा हिंसीः । उतापि च नोऽस्माकमर्भकं बालं मा हिंसीः । तथा नोऽस्माकं मध्य उक्षंतं सेक्तारं मध्यवयस्कं युवानं मा वधीः । उतापि च नोऽस्माकमुक्षितं गर्भरूपेण स्त्रीषु निषिक्तमपत्यं मा वधीः । तथा नोऽस्माकं पितरं जनकं मा वधीः । उतापि च मातरं जननीं मा वधीः । तथा नोऽस्माकं प्रियाः स्नेहविषयास्तन्वः शरीराणि तनूषु भवाः प्रजा वा हे रुद्र मा रिरिषः । मा हिंसीः ॥ वधीः । हंतेर्माङी लुङि चेति वधादेशः । स चादंतः । सिच इट् । अतो लोपस्य स्थानिवद्भावाद्वृद्ध्यभावः । रिरिषः । रिष हिंसायाम् । ण्यंताल्लुङि चङि णिलोपोपधाह्रस्वत्वादीनि । छांदसः पदकालीनोऽभ्यासह्रस्वः ॥ ७ ॥

1.114.8
मा न᳚स्तो॒के तन᳚ये॒ मा न᳚ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे᳚षु रीरिषः ।
वी॒रान्मा नो᳚ रुद्र भामि॒तो व᳚धीर्ह॒विष्म᳚न्त॒ः सद॒मित्त्वा᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । तो॒के । तन᳚ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु᳚ । मा । नः॒ । अश्वे᳚षु । रि॒रि॒षः॒ ।
वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म᳚न्तः । सद᳚म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुद्र नोऽस्माकं तोकादिविषये मा रिरिषः । मा हिंसीः । तोकशब्दः पुत्रवाची तनयस्तत्पुत्रः । आयुरित्यंतोदात्तो मनुष्यनाम । पुत्रपौत्रव्यतिरिक्तो योऽस्मदीयो मनुष्यस्तस्मिन् गोषु पश्वादिष्वश्वेषु च मा रिरिषः । हिंसां मा कृथाः । तथा हे रुद्र वीरान् विक्रांतान् । शौर्योपेतानस्मदीयान् भामितः क्रुद्धः सन् मा वधीः । मा हिंसीः । वयं च हविष्मंतो हविर्भिर्युक्ताः संतः सदमित् सर्वदैव त्वां हवामहे । आह्वयामहे ॥ आयौ । इण् गतौ । छंदसीण इत्युण्प्रत्ययः । भामितः । भाम क्रोधे क्रोधिकरणे चेति कर्तरि क्तः । हवामहे । ह्वेञो लिट बहुलं छंदसीति संप्रसारणं ॥ ८ ॥

1.114.9 समानपद
उप᳚ ते॒ स्तोमा᳚न्पशु॒पा इ॒वाक᳚रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे ।
भ॒द्रा हि ते᳚ सुम॒तिर्मृ᳚ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ते॒ । स्तोमा᳚न् । प॒शु॒पाः॑इ᳚व । आ । अ॒क॒र॒म् । रास्व᳚ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति᳚ ।
भ॒द्रा । हि । ते॒ । सु॒॑मतिः । मृ॒ळ॒यत्॑त᳚मा । अथ᳚ । व॒यम् । अव᳚ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवसुवां हविःषु रुद्रस्य पशुपतेर्याग उप ते स्तोमानित्यादिके याज्यानुवाक्ये । सूत्रितं च । उप ते स्तोमान् पसुपा इवाकरमिति द्वे (आ ४-११) इति ॥

हे रुद्र स्तोमान् स्तुतिरूपान्मंत्रान् ते तुभ्यमुपाकरम् । उपाकरोमि । समर्पयामि । तत्र दृष्टांतः । पशुपा इव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान्पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मंत्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । हे मरुतां पितर्मरुत्संज्ञानां देवानामुत्पादक रुद्र नोऽस्मभ्यं सुम्नं सुखं रास्व । देहि । अपि च ते त्वदीया सुमतिः कल्याणी बुद्धिर्मृळयत्तमातिशयेन सुखयितृतमा । अत एव भद्रा भजनीया हि । यस्मादेवं तस्मादथानंतरं वयं ते त्वदीयमवो रक्षणं वृणीमहे । संभजामहे ॥ अकरम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ् । कृमृदृरुहिभ्य इति च्लेरङादेशः । ऋदृशोऽङि गुणः । पितर्मरुताम् । परमपि छंदसीति परस्याः षष्ठ्याः पूर्वामंत्रितानुप्रवेशे सत्यामंत्रितस्य चेति पदद्वयमप्यनुदात्तम् । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । मृळयत्तमा । मृड सुखने । अस्माण्ण्यंताल्लटः शतृ । तस्य छंदस्युभयथेत्यार्धधातुकाल्लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते ॥ ९ ॥

1.114.10
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय᳚द्वीर सु॒म्नम॒स्मे ते᳚ अस्तु ।
मृ॒ळा च᳚ नो॒ अधि᳚ च ब्रूहि दे॒वाधा᳚ च न॒ः शर्म᳚ यच्छ द्वि॒बर्हा᳚ः ॥
▶ पदपाठः (Word-by-word)
आ॒रे । ते॒ । गो॒॑घ्नम् । उ॒त । पु॒रु॒ष॒॑घ्नम् । क्षय᳚त्॑वीर । सु॒म्नम् । अ॒स्मे इति᳚ । ते॒ । अ॒स्तु॒ ।
मृ॒ळ । च॒ । नः॒ । अधि᳚ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध᳚ । च॒ । नः॒ । शर्म᳚ । य॒च्छ॒ । द्वि॒॑बर्हाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र ते त्वदीयं गोघ्नं यद्गोहननं यद्वा गोहननसाधनमायुधम् । उतापि च पुरुषघ्नं पुरुषहननं तत्साधनमायुधं वा तदुभयमारे दूरेऽस्मत्तो विप्रकृष्टदेशे भवतु । अस्मे अस्मासु ते त्वदीयं सुम्नं सुखमस्तु । भवतु । अपि च नोऽस्माकं मृळ । सुखसिद्ध्यर्थं प्रसन्नो भव । हे देव द्योतमान रुद्र नोऽस्मानधि ब्रूहि च । अधिवचनं पक्षपातेन वचनं ब्राह्मणायाधि ब्रूयात् । तै । सम् । २-५-११-९ । इति यथा । अधचाथानंतरं च द्विबर्हा द्वयोः स्थानयोः पृथिव्यामंतरिक्षे च परिवृढः । यद्वा । द्वयोर्दक्षिणोत्तरमार्गयोर्ज्ञानकर्मणोर्वा परिवृढः स्वामी । स त्वं नोऽस्मभ्यं शर्म सुखं यच्छ । देहि ॥ गोघ्नम् । हन हिंसागत्योः । अस्माद्घञर्थे कविधानमिति भावे करणे वा कप्रत्ययः । गमहनेत्युपधालोपः । हो हंतेरिति कुत्वम् । द्विबर्हाः । वृह वृहि वृद्धौ । द्वयोः स्थानयोर्दहते प्रवर्धत इति द्विबर्हाः । असुन् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १० ॥

1.114.11
अवो᳚चाम॒ नमो᳚ अस्मा अव॒स्यवः᳚ शृ॒णोतु᳚ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा᳚न् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
अवो᳚चाम । नमः᳚ । अ॒स्मै॒ । अ॒व॒स्यवः᳚ । शृ॒णोतु᳚ । नः॒ । हव᳚म् । रु॒द्रः । म॒रुत्वा᳚न् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवस्यवोऽवोऽन्नं रक्षणं वेच्छंतो वयमवोचाम । एतत्सूक्तरूपं स्तोत्रमवादिष्म । अस्मैरुद्राय नमो नमस्कारोऽस्तु । मरुत्वान्मरुद्भिः स्वकीयै पुत्रैर्युक्तो रुद्रश्च नोऽस्माकं हवमाह्वानं शृणोतु । स्वीकरोतु । यदस्माभिरुक्तं नोऽस्मदीयं तत्सर्वं मित्रादयः षड्देवता ममहंताम् । पूजयंतु । उतशब्दोऽप्यर्थे ॥ अवोचाम । ब्रूञ् वक्तायां वाचि । लुङ् ब्रुवो वचिः । अस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । अवस्यवः । अव रक्षणे । भावेऽसुन् । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । हवम् । भावेऽनुपसर्गस्येत्यप् । संप्रसारणं च । मरुत्वान् । झय इति मतुपो वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाज्जश्त्वाभावः ॥ ११ ॥