प्रथमं मण्डलम् - सूक्तम् 150

3 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: उष्णिक्

सूक्तम् 1.150 - सम्पूर्णम्

1 / 3
ऋक्: 1.150.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
1.150.1
पु॒रु त्वा᳚ दा॒श्वान्वो᳚चे॒॑रिर᳚ग्ने॒ तव᳚ स्वि॒दा ।
तो॒दस्ये᳚व शर॒ण आ म॒हस्य᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒रु । त्वा॒ । दा॒श्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव᳚ । स्वि॒त् । आ ।
तो॒दस्य᳚॑इव । श॒र॒णे । आ । म॒हस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वात्वांपुरुबहुवोचे यद्वा बहुदाश्वानितिसंबन्धः पुत्रंदेहिवित्तंदेहि इत्याद्याशासना निब्र- वीमीत्यर्थः किंतूष्णींनेत्याह—यतोदाश्वान् अभिमतंहविर्दत्तवानस्मि अतोवोचे इतरसाधारण्येनब्रु- वतः कथंदातव्यमितिनमन्तव्यं यतोऽहं हेअग्नेतवस्वित् तवैवआआभिमुख्येन अरिः अर्ताहविरादिप्रा- पणेनसेवकोहं तत्र दृष्टान्तः—महस्यमहतः तोदस्येव शिक्षकस्य स्वामिनः शरणेऽस्यगृहे यथागर्भदा- सादिरासमन्तान्नियतोवर्तते तद्वदहमपि यस्मादेवंतस्मादभिमतं बहुवोचे त्वमपित्सर्वं देहीत्यर्थःअत्र- निरुक्तं—बहुदाश्वांस्त्वामेवाभिह्वयाम्यरिरमित्रऋच्छतेरीश्वरोऽप्यरिरेतस्मादेवयदन्यदेवत्याअग्ना- वाहुतयोहूयन्तइत्येतदॄष्ट्वैवमवक्ष्यत् तोदस्येवशरणआमहस्य तुदस्येवशरणेऽधिमहतइति ॥ १ ॥

1.150.2
व्य᳚नि॒नस्य᳚ ध॒निनः᳚ प्रहो॒षे चि॒दर᳚रुषः ।
क॒दा च॒न प्र॒जिग᳚तो॒ अदे᳚वयोः ॥
▶ पदपाठः (Word-by-word)
वि । अ॒नि॒नस्य᳚ । ध॒निनः᳚ । प्र॒॑हो॒षे । चि॒त् । अर᳚रुषः ।
क॒दा । च॒न । प्र॒॑जिग᳚तः । अदे᳚व॑योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमन्त्रेस्वाभीष्टंबहुविज्ञापयामीत्युक्तं अत्रतुस्वविलक्षणेभ्योदानादिरहितेभ्योदानंनदातव्यमि- तिप्रार्थयते हेअग्ने त्वांविशेषेणब्रवीमि उपसर्गश्रुतेर्योग्यक्रियाध्याहारः अथवा सन्निहितत्वाद्वोचेइत्य- नुषज्यते अस्मदर्थं यद्भ्यजिज्ञपन् तद्विरुद्धंवोचेवक्ष्यमाणस्वरूपस्यनदातव्यमितिब्रवीमीत्यर्थः तेषां- स्वरूपमाह—अनिनस्य अस्वामिनः त्वांअस्वामिनंकुर्वाणस्य तथा धनिनः समग्रधनवतः पूर्वमेव धनवतोदानस्य निरर्थकत्वात्तन्निवार्यते यद्वा यागाद्यनुपयोगिधनवतइत्यर्थः किंच प्रहोषेप्रकर्षेणहो- तुंअररुषः अददतोदक्षिणारूपेण यद्वा प्रहोषेअनिनस्येतिसंबंधः प्रकर्षेणहोतुं असमर्थस्येत्यर्थःअत्रइन- शब्देनतत्स्थंसामर्थ्यंलक्ष्यते चिच्छब्दःसमुच्चयार्थः किंच कदाचनप्रजिगतः कदाचिदपिप्रकर्षेणदेवान- स्तुवतः अत्र चनेतिनिपातद्वयसमुदायः तत्र चशब्दःसमुच्चये नशब्दोनिषेधे किंच अदेवयोः देवानात्मनोनिच्छातः एतेषांनदातव्यमितिविवोचइत्यर्थः निन्दितानांस्वरूपनिरूपणेनस्वस्यातादृ- शत्वात् बहुवोचइत्येतद्युक्तमेवेत्युक्तंभवति यद्वा चनेतिचिच्छब्दपर्यायः उक्तप्रकारेणदुष्टस्यापिकदा- चित्प्रजिगतः यदाकदाचित्त्वांस्तुवतः विवोचे तादृशस्य दातव्यमितिविशेषेणब्रवीमि किमुवक्तव्य- मस्मदर्थमितिभावः ॥ २ ॥

1.150.3
स च॒न्द्रो वि᳚प्र॒ मर्त्यो᳚ म॒हो व्राध᳚न्तमो दि॒वि ।
प्रप्रेत्ते᳚ अग्ने व॒नुषः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
सः । च॒न्द्रः । वि॒प्र॒ । मर्त्यः᳚ । म॒हः । व्राध᳚न्॑तमः । दि॒वि ।
प्र॑प्र᳚ । इत् । ते॒ । अ॒ग्ने॒ । व॒नुषः᳚ । स्याम ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने विप्र मेधाविन् योमर्त्यः त्वांयजते समर्त्योयजमानोदिविद्युलोकेचन्द्रः सर्वेषामाह्लादक- चन्द्रसदृशोभवति यद्वा चन्द्रएवभवति यजमानानां चन्द्रत्वप्राप्तिंछन्दोगाआमनंति—पितृलोकादा- काशमाकाशाच्चन्द्रमसमेषसोमोराजेति । ससोमलोकेविभूतिमनुभूयेतिच । तथामुण्डकेऽपि द्युलोक- प्राप्तिराम्नायते—एह्येहीतितमाहुतयःसुवर्चसःसूर्यरश्मिभिर्यजमानंवहन्ति तन्नयंत्येताः सूर्यस्यरश्म- योयत्रदेवानांपतिरेकोधिवासइति एषवःपुण्यःसुकृतोब्रह्मलोकइतिच । पुनः सएवविशेष्यते महोमह- तोऽपि व्राधंतमःप्रवृद्धतमः इतरदेवानामपिश्रेष्ठइत्यर्थः अतःअग्ने तेतव प्रप्रेत् प्रकर्षेणैव वनुषःसंभ- क्तारः स्याम य पीणयित्वा प्रप्रेत् स्याम प्रकृष्टाएवभवेम ॥ ३ ॥

मित्रंनयमितिनवर्चमेकादशंसूक्तं दैर्घतमसंजागतंमैत्रावरुणंआद्यामैत्र्येव अत्रानुक्रमणिका—मित्रं- नवमैत्रावरुणंहिजागतंमैत्र्याद्येति विनियोगोलैङ्गिकः ।