प्रथमं मण्डलम् - सूक्तम् 37

15 ऋचः

ऋषिः: कण्वो घौरः देवता: मरुतः छन्दः: गायत्री

सूक्तम् 1.37 - सम्पूर्णम्

1 / 15
ऋक्: 1.37.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.37.1
क्री॒ळं व॒ः शर्धो॒ मारु᳚तमन॒र्वाणं᳚ रथे॒शुभ᳚म् ।
कण्वा᳚ अ॒भि प्र गा᳚यत ॥
▶ पदपाठः (Word-by-word)
क्री॒ळम् । वः॒ । शर्धः᳚ । मारु᳚तम् । अ॒न॒र्वाण᳚म् । र॒थे॒॑शुभ᳚म् ।
कण्वाः᳚ । अ॒भि । प्र । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कण्वाः कण्वगोत्रोत्पन्ना महर्षयः । यद्वा । मेधाविन ऋत्विजः । वो युष्मदर्थं मारुतं मरुत्समूहरूपं शर्धो बलमभि प्र गायत । अभितः प्रकर्षेण स्तुध्वम् । कीदृशं शर्धः । क्रीळं विहरणशीलं अनर्वाणं भ्रातृव्यरहितम् । अत एव श्रुत्यंतरब्राह्मणेन मंत्रांतरमेव व्याख्यातम् । अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्या इति । रथेशुभं स्वकीये रथेऽवस्थाय शोभमानं ॥ क्रीळम् । क्रीडृ विहारे । पचाद्यच् । शर्धः । शृधु प्रसहने । शर्धयत्यनेन शत्रूनिति शर्धो बलम् । असुन् । नित्त्वादाद्युदात्तत्वम् । मारुतं मरुतां संबंधि । तस्येदमित्यण् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । समूहार्थेऽनुदात्तेरञ् (पा ४-२-४४) इत्यनुदात्तादिलक्षणोऽञ् प्रत्ययः । अनर्वाणम् । व्यत्ययेन पुल्लिंगता । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । रथेशुभम् । शुभ दीप्तौ । रथे शोभत इति रथेशुप् । क्विप्चेति क्विप् । तत्पुरुषे कृति बहुलमिश्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । गायत । कैगैरै शब्द । तिङ्ङतिङ इति निघातः ॥ १ ॥

1.37.2
ये पृष᳚तीभिरृ॒ष्टिभि᳚ः सा॒कं वाशी᳚भिर॒ञ्जिभि᳚ः ।
अजा᳚यन्त॒ स्वभा᳚नवः ॥
▶ पदपाठः (Word-by-word)
ये । पृष᳚तीभिः । ऋ॒ष्टि॑भिः᳚ । सा॒कम् । वाशी᳚भिः । अ॒ञ्जि॑भिः᳚ ।
अजा᳚यन्त । स्व॑भा᳚नवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः पृषत्यादिभिः साकं स्वभानवः स्वकीयदीप्तियुक्ता अजायंत इति संपन्नाः । पृषत्यो बिंदुयुक्ता मृग्यो मरुद्वाहनभूताः । पृषत्यो मरुतामिति निघंटावुक्तत्वात् । ऋष्टय आयुधानि । वाश्यः शब्दविशेषाः परकीयसेनाभीतिहेतवः । वाशी वाणीति वाङ्नामसु पठितत्वात् । अंजयोऽलंकरणानि । तान् स्तुम इति शेषः ॥ अजायंत । जनीप्रादुर्भावे । श्यनि ज्ञाजनोर्जा (पा ७-३-७९) इति जादेशः । अडागम उदात्तः । स्वभानवः । स्वकीया भानवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

1.37.3
इ॒हेव᳚ शृण्व एषां॒ कशा॒ हस्ते᳚षु॒ यद्वदा᳚न् ।
नि याम᳚ञ्चि॒त्रमृ᳚ञ्जते ॥
▶ पदपाठः (Word-by-word)
इ॒ह॑इ᳚व । शृ॒ण्वे॒ । ए॒षा॒म् । कशाः᳚ । हस्ते᳚षु । यत् । वदा᳚न् ।
नि । याम᳚न् । चि॒त्रम् । ऋ॒ञ्ज॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां हस्तेषु स्थिताः कशाः स्वस्ववाहनताडनहेतवो यद्वदान् यद्वदंति यं ध्वनिं कुर्वंति तं ध्वनिमिहेवात्रेव स्थित्वा श्रुण्वे । शृणोमि । स ध्वनिविशेषो यामन् । संग्रामे चित्रं विविधं शौर्यं न्यृंजते । नितरामलंकरोति । ऋजंतिः । प्रसाधनकर्मेति यास्कः । नि ६-२१ ॥ श्रुण्वे । श्रु श्रवणे । व्यत्ययेनात्मनेपदम् । श्रुवः शृ चेति श्नुः । हुश्नुवोः सार्वधातुक इति यणादेशः । वदान् । वद व्यक्तायां वाचि । लेट्याडागमः । इतश्च लोप इतीकारलोपे संयोगांतलोपः । आगमानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । यामन् । सुपां सुलुगिति सप्तम्या लुक् । न ङिसंबुद्ध्योः (पा ८-२-८) इति नलोपप्रतिषेधः । ऋंजते । ऋजि भृजी भर्जने । अत्र प्रसाधनार्थः ॥ ३ ॥

1.37.4
प्र व॒ः शर्धा᳚य॒ घृष्व᳚ये त्वे॒षद्यु᳚म्नाय शु॒ष्मिणे᳚ ।
दे॒वत्तं॒ ब्रह्म᳚ गायत ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । शर्धा᳚य । घृष्व᳚ये । त्वे॒ष॑द्यु᳚म्नाय । शु॒ष्मिणे᳚ ।
दे॒वत्त᳚म् । ब्रह्म᳚ । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः वो युष्माकं संबंधिने शर्धाय प्रसहनशीलाय घृष्वये शत्रुघर्षणयुक्ताय त्वेषद्युम्नाय दीप्यमानयशसे । द्युम्नं द्योततेर्यशोवान्नं वेति यास्कः (नि ५-५) शुष्मिणे बलवते । शुष्मं शुष्णमिति बलनामसु पाठात् । एवंभूताय मरुद्गणाय ब्रह्म हविर्लक्षणमन्नमुद्दिश्य प्र गायत । स्तुध्वम् । कीदृशं ब्रह्म । देवत्तं देवैर्दत्तम् । देवतानुग्रहाल्लब्धं ॥ शर्धाय शृधु प्रसहने । शर्धयत्यभिभवतीति शर्धो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । घृष्वये । घृष संघर्षे । कृविघृष्वीत्यादिना (उ ४-५६) क्विन्प्रत्ययांतो निपातितः । त्वेषद्युम्नाय त्विष दीप्तौ । पचाद्यच् । त्वेषं दीप्तं द्युम्नं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । देवत्तम् । देवैर्दत्तम् । छांदसोवर्णलोपः । उक्तं च । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ । इति । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.37.5
प्र शं᳚सा॒ गोष्वघ्न्यं᳚ क्री॒ळं यच्छर्धो॒ मारु᳚तम् ।
जम्भे॒ रस᳚स्य वावृधे ॥
▶ पदपाठः (Word-by-word)
प्र । शं॒स॒ । गोषु᳚ । अघ्न्य᳚म् । क्री॒ळम् । यत् । शर्धः᳚ । मारु᳚तम् ।
जम्भे᳚ । रस᳚स्य । व॒वृ॒धे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोषु मरुन्मातृभूतपृश्निप्रभृतिषु धेनुष्ववस्थितम् । पृश्नियै वै पयसो मरुतो जाताः । तै सं २-२-११-४ । इति श्रुत्यंतरात् । अघ्न्यमहंतव्यं क्रीळं विहारोपेतं मारुतं मरुत्संबंधि शर्धः प्रसहनशीलं तेजो यदस्ति तत्प्र शंस । हे ऋत्विक्समूह स्तुहि । रसस्य गोक्षीररूपस्य संबंधि तत्तेजो जंभे मुख उदरे वा ववृधे । वृद्धमभूत् ॥ शंस । शन्सु स्तुतौ । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । गोषु । सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । अघ्न्यम् । घ्नो हननम् । घञर्थे कविधानम् । पा ३-३-५८-४ । इति कः । गमहनेत्यादिनोपधालोपः । हो हंतेः (पा ७-३-५४) इति घत्वम् । तदर्हतीति घ्न्यम् । छंदसि चेति यः । न घ्न्यमघ्न्यम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । क्रीळादयो गताः । जंभे । जभि नाशने । जंभ्यते भक्ष्यतेऽनेनेति जंभमास्यम् । करणे घङ् । ववृधे । वृधु वृद्धौ । लिट् । छांदसं संहितायामभ्यासदीर्घत्वं ॥ १२ ॥ ५ ॥

1.37.6
को वो॒ वर्षि᳚ष्ठ॒ आ न᳚रो दि॒वश्च॒ ग्मश्च᳚ धूतयः ।
यत्सी॒मन्तं॒ न धू᳚नु॒थ ॥
▶ पदपाठः (Word-by-word)
कः । वः॒ । वर्षि᳚ष्ठः । आ । न॒रः॒ । दि॒वः । च॒ । ग्मः । च॒ । धू॒त॒यः॒ ।
यत् । सी॒म् । अन्त᳚म् । न । धू॒नु॒थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवश्च द्युलोकस्यापि ग्मश्च भूलोकस्यापि । गौर्ग्मेति भूनामसु पठितत्वात् । धूतयः कंपनकारिणो । हे नरो नेतारो मरुतो वो युष्माकं मध्य आ समंताद्वर्षिष्ठो वृद्धतमः कः । यद्यस्मात्कारणात्सीं सर्वतोंऽतं न वृक्षाग्रमिव धूनुथ चालयथ । तस्मात्कारणात्कंपयितृणां युष्माकं मध्ये कः प्रबल इति प्रश्नः ॥ वर्षिष्ठः । वृद्धशब्दादिष्ठनि प्रियस्थिरेत्यादिना वर्षादेशः । नित्त्वादाद्युदात्तः । ग्मः । ग्माशब्दात् षष्ठ्येकवचन आतो धातोरित्यत्र आत इति योगविभागः कर्तव्यः । का ६-४-१४० । इत्युक्तत्वादाकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । धूतयः । धूञ् कंपने । क्तिच् क्तौ च संज्ञायामिति क्तिच् । तितुत्रेत्यादिनेट् प्रतिषेधः । आमंत्रितस्य चेति सर्वानुदात्तत्वम् । धूनुथ । स्वादिभ्यः श्नुः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनात्सति शिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते । अतस्तिङ एव स्वरः । यद्वृत्तयोगादनिघातः ॥ ६ ॥

1.37.7
नि वो॒ यामा᳚य॒ मानु᳚षो द॒ध्र उ॒ग्राय᳚ म॒न्यवे᳚ ।
जिही᳚त॒ पर्व᳚तो गि॒रिः ॥
▶ पदपाठः (Word-by-word)
नि । वः॒ । यामा᳚य । मानु᳚षः । द॒ध्रे । उ॒ग्राय᳚ । म॒न्यवे᳚ ।
जिही᳚त । पर्व᳚तः । गि॒रिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं यामाय गमनार्थं मानुषो गृहस्वामी कश्चिन्मनुजो नि दध्रे । गृहदार्ढ्यार्थं दृढं स्तंभं निक्षिप्तवान् । भवदीयगमनेन चालितं गृहं पतिष्यतीति भीत्या तन्निवारणाय दृढस्तंभप्रक्षेपः । कीदृशाय यमाय । उग्राय तीव्राय मन्यवे चालनार्थमभिमन्यमानाय । युज्यते हि

भवद्गमनाद्भीतिः । यतो भवद्गत्या चालितः पर्वतो बहुविधपर्वयुक्तो गिरिः शिखरी जिहीत गच्छेत् ॥ मानुषः । मनोर्जातावञ्यतौ षुक् च (पा ८-१-१६१) इति मनुशब्दादपत्यार्थेऽञ् षुगागमश्च । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । दध्रे । धृञ् अवस्थान इत्यस्य लिट कित्त्वाद्गुणाभावे सति यणादेशः । प्रत्ययस्वरः । पादादित्वान्न निघातः । जिहीत । ओहाङ् गतौ लिङि जुहोत्यादित्वाच्छपः श्लुः । भृञामित् (पा ७-४-७६) इत्यभ्यासस्येत्वम् । श्नाभ्यस्तयोरात इत्याकारलोपः । पर्ववान् । पर्वतः । मत्वर्थीयस्तप्रत्ययः ॥ ७ ॥

1.37.8
येषा॒मज्मे᳚षु पृथि॒वी जु᳚जु॒र्वा{4} इ᳚व वि॒श्पति᳚ः ।
भि॒या यामे᳚षु॒ रेज᳚ते ॥
▶ पदपाठः (Word-by-word)
येषा᳚म् । अज्मे᳚षु । पृ॒थि॒वी । जु॒जु॒र्वान्॑इ᳚व । वि॒श्पतिः᳚ ।
भि॒या । यामे᳚षु । रेज᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो येषां युष्माकं यामेषु गमनेष्वज्मेषु क्षेपकेषु सत्सु पृथिवी भूमिः रेजते कंपते । तत्र दृष्टांतः । जुजुर्वा इव विश्पतिः । यथा वयोहानिरोगादिना जीर्णः प्रजापालको राजा वैरिभयात्कंपते तद्वत् ॥ अज्मेषु । अज गतिक्षेपणयोः । बहुलग्रहणादौणादिको मन् । अजेर्व्यघञपोः (पा २-४-५६) इति वीभावो न भवति । वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनात् । नित्त्वादाद्युदात्तत्वम् । जुजुर्वान् । जृष् वयोहान् । लिटः क्वसुः । बहुलं छंदसि (पा ७-१-१०३) इत्युत्वम् । अभ्यासहलादिशेषौ । वस्वेकाजाद्घसामिति नियमादिडागमाभावः । ऋच्छत्यृताम् (पा ७-४-११) इति गुणो हलि चेति दीर्घत्वं च संज्ञापूर्वको विधिरनित्य इति वचनान्न भवति । विशां पतिर्विश्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकतृतिस्वरे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । भिया । सावेकाच इति विभक्तेरुदात्तत्वम् । यावेषु । यम उपरमे । भावे घञ् । कर्षात्वतो घञ इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । रेजते । रेजृ कंपने । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥ ८ ॥

1.37.9
स्थि॒रं हि जान᳚मेषां॒ वयो᳚ मा॒तुर्निरे᳚तवे ।
यत्सी॒मनु᳚ द्वि॒ता शवः᳚ ॥
▶ पदपाठः (Word-by-word)
स्थि॒रम् । हि । जान᳚म् । ए॒षा॒म् । वयः᳚ । मा॒तुः । निः॑ए᳚तवे ।
यत् । सी॒म् । अनु᳚ । द्वि॒ता । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां जानं जन्मस्थानमाकाशं स्थिरं हि । चलनरहितं खलु । मातुर्मरुतां जननीस्थानीयादाकाशाद्वयः पक्षिणो निरेतवे निर्गंतुं समर्था भवंतीति शेषः । तादृशादाकाशाद्भवज्जन्मेति मरुतां स्तुतिः । यद्यस्मात्कारणाच्छवो भवदीयं बलमनुक्रमेण सीं सर्वतो द्विता द्वित्वेन द्यावापृथिव्योर्विभज्य वर्तते । अतो भवदीयं जानं स्थिरं हीति पूर्वत्रान्वयः ॥ जानम् । जन्यतेऽस्मिन्निति जानमंतरिक्षम् । अधिकरणे घञ् । एषाम् । इदमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्ता । न चोडिदमित्यादिना विभक्त्युदात्तत्वम् । अंतोदात्तादिदंशब्दात्तस्य विधानात् । निरेतवे । इण् गतौ । तमर्थे सेसेनिति तवेन्प्रत्ययः । तादौ चेति गतेः प्रकृतिस्वरत्वं ॥ ९ ॥

1.37.10
उदु॒ त्ये सू॒नवो॒ गिर॒ः काष्ठा॒ अज्मे᳚ष्वत्नत ।
वा॒श्रा अ᳚भि॒ज्ञु यात᳚वे ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । त्ये । सू॒नवः᳚ । गिरः᳚ । काष्ठाः᳚ । अज्मे᳚षु । अ॒त्न॒त॒ ।
वा॒श्राः । अ॒भि॒॑ज्ञु । यात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये पूर्वप्रकृता गिरः सूनवो वाच उत्पादका मरुतः । वायुवो हि ताल्वोष्ठादिषु संचरंतो वाचमुत्पादयंति । अज्मेषु स्वकीयेषु गमनेषु सत्सु काष्ठा अपः । आपोऽपि काष्ठा उच्यंते क्रांत्वा स्थिता भवंति (नि २-१५) इति यास्कः । उदु उत्कर्षेणैवात्नत । अतनिषत । विस्तारितवंतः । उदकं विस्तार्य तत्पानार्थं वाश्रा हंभारवोपेता गा अभिज्ञु जान्वाभिमुखं यथा भवति तथा यातवे गंतुं प्रेरितवंत इति शेषः ॥ सूनवः । षूंष्रेरणे । सुवः कित् (उ ३-३५) इति नुप्रत्ययः । कित्त्वाद्गुणाभावः । अत्नत । तनु विस्तारे । लङि झस्यादादेशे बहुलं छंदसीति विकरणस्य लुक् । तनिपत्योश्छंदसि (पा ६-४-९९) इत्युपधालोपः । अडागमः । अभिज्ञु । अभिगते जानुनी यस्य तदभिज्जु । प्रसंभ्यां जानुनोर्ज्ञुः (पा ५-४-१२९) इति व्यत्ययेनाभिपूर्वस्यापि जानुशब्दस्य ज्ञु शब्दादेशः समासांतः । यातवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १३ ॥ १० ॥

1.37.11
त्यं चि᳚द्घा दी॒र्घं पृ॒थुं मि॒हो नपा᳚त॒ममृ᳚ध्रम् ।
प्र च्या᳚वयन्ति॒ याम᳚भिः ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा᳚तम् । अमृ᳚ध्रम् ।
प्र । च्य॒व॒य॒न्ति॒ । याम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं चिद्घ प्रसिद्धो यो मेघस्तमपि मेघं यामभिः स्वकीयगमनैः प्रच्यावयंति । मरुतः प्रकर्षेण गमयंति । कीदृशम् । दीर्घमायामोपेतं पृथुं तिर्यग्विस्तृतं मिहो नपातं सेचनीयस्य जलस्य न पातयितारम् । वृष्टिमकुर्वंतमित्यर्थः । अमृथं केनाप्यहिंस्यं ॥ घ ॥ ऋचि तुनुघेत्यादिना दीर्घः । मिहः मिह सेचने । मेहति सिंचतीति मिट् वृष्टिः । क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । नपातम् । न पातयतीति नपात् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अमृध्रम् । शृधु मृधु उंदने । मर्धत्युदकेनोनत्तीति मृधः । बहुलवचनादौणादिको रक्प्रत्ययः । सञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । संग्रामवाचिना मृधशब्देन हिंसा लक्ष्यते । मत्वर्थीयो रः । पूर्ववत्स्वरसमासौ । च्यावयंति । च्युङ् गतौ । णिचि वृद्ध्यावादेशौ । पदकाले ह्रस्वश्छांदसः ॥ ११ ॥

1.37.12
मरु᳚तो॒ यद्ध᳚ वो॒ बलं॒ जना{4}᳚ अचुच्यवीतन ।
गि॒री{4}र᳚चुच्यवीतन ॥
▶ पदपाठः (Word-by-word)
मरु᳚तः । यत् । ह॒ । वः॒ । बल᳚म् । जना᳚न् । अ॒चु॒च्य॒वी॒त॒न॒ ।
गि॒रीन् । अ॒चु॒च्य॒वी॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो यद्ध यस्मादेव कारणाद्वो युष्माकं बलमस्ति अस्मादेव कारणाज्जनान्प्राणिनोऽचुच्यवीतन । स्वस्वव्यापारेषु प्रेरयत । तथा गिरीन्मेघान् अचुच्यवीतन । प्रेरयत ॥ मरुतः । आमंत्रिताद्युदात्तत्वम् । अचुच्यवीतन । च्यवतेर्लुङि व्यत्ययेन परस्मैपदम् । तप्तनप्तनथनाश्चेति तस्य तनबादेशः । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसि (पा ७-३-९७) इतीडागमः । गुणावादेशौ । तिङ्ङतिङ इति निघातः । गिरीन् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिक इतीकारस्यानुनासिकः ॥ १२ ॥

1.37.13
यद्ध॒ यान्ति᳚ म॒रुत॒ः सं ह᳚ ब्रुव॒ते॑ध्व॒न्ना ।
शृ॒णोति॒ कश्चि᳚देषाम् ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒ । यान्ति᳚ । म॒रुतः᳚ । सम् । ह॒ । ब्रु॒व॒ते॒ । अध्व᳚न् । आ ।
शृ॒णोति᳚ । कः । चि॒त् । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्ध यदा खलु मरुतो यांति गच्छंति तदानीमध्वन्ना मार्गे सर्वतः सं ब्रुवते ह । संभूय ध्वनिमवत्यं कुर्वंति । एषां मरुतां संबंधिनं शब्दं कश्चित् यः कोऽपि शृणोति ॥ यांति । या प्रापणे । अदादित्वाच्छपो लुक् । झोंऽत इत्यंतादेशस्योपदेशिवद्भावादंतीत्येतदाद्युदात्तत्वम् । धातुना सहैकादेश एकादेशस्वरः । यद्वृत्तयोगादनिघातः । ब्रुवते । ब्रूञ् व्यक्तायां वाचि । झस्यादादेशे कृते । परत्वात्प्राप्तस्य गुणस्य ङुत्वेन बाधितत्वादुवङादेशः । अध्वन् । सुपां सुलुगिति सप्तम्या लुक् । शृणोति । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः ॥ १३ ॥

1.37.14
प्र या᳚त॒ शीभ᳚मा॒शुभि॒ः सन्ति॒ कण्वे᳚षु वो॒ दुवः᳚ ।
तत्रो॒ षु मा᳚दयाध्वै ॥
▶ पदपाठः (Word-by-word)
प्र । या॒त॒ । शीभ᳚म् । आ॒शु॑भिः᳚ । सन्ति᳚ । कण्वे᳚षु । वः॒ । दुवः᳚ ।
तत्रो॒ इति᳚ । सु । मा॒द॒या॒ध्वै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत आशुभिर्वेगवद्भिः स्वकीयैर्वाहनैः शीभं शीघ्रं शीभं तृषु तूयमिति क्षिप्रनामसु पाठात् । प्रयात । प्रकर्षेण कर्मभूमिं गच्छत । कण्वेषु मेधाविष्वनुष्ठातृषुवो युष्माकं दुवो दुवांसि परिचरणानि संति । तत्रो षु तेष्वेव परिचारकेषु माधयाध्वै । तृप्ता भवत ॥ आशुभिः । अशू व्याप्तौ । कृापाजीत्यादिना उण् । प्रत्ययस्वरः । संति । श्नसोरल्पोप इत्याकारलोपः । मादयाध्वै । मद तृप्तियोगे । चुरादिः । आकुस्मीय आत्मनेपदी । लेट्याडागमः टेरेत्वम् । वैतोऽन्यत्र (पा ३-४-९६) इत्येकारस्यैकारादेशः ॥ १४ ॥

1.37.15
अस्ति॒ हि ष्मा॒ मदा᳚य व॒ः स्मसि᳚ ष्मा व॒यमे᳚षाम् ।
विश्वं᳚ चि॒दायु᳚र्जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । हि । स्म॒ । मदा᳚य । वः॒ । स्मसि᳚ । स्म॒ । व॒यम् । ए॒षा॒म् ।
विश्व᳚म् । चि॒त् । आयुः᳚ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं मदाय तृप्तयेऽस्ति हि ष्म । अस्माभिः प्रयुज्यमानं हविर्वो विद्यते खलु । एषां युष्माकं भृत्यभूता वयं स्मसि ष्म । विद्यामहे खलु । जीवसे जीवितुं विश्वं चिदायुः सर्वमप्यायुः प्रयच्छतेति शेषः ॥ स्म । निपातस्य चेति संहितायां दीर्घः । स्मसि । इदंतो मसिः । जीवसे । तुमर्थे सेसेनित्यसेप्रत्ययः ॥ १४ ॥