प्रथमं मण्डलम् - सूक्तम् 55

8 ऋचः

ऋषिः: सव्य आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.55 - सम्पूर्णम्

1 / 8
ऋक्: 1.55.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.55.1
दि॒वश्चि᳚दस्य वरि॒मा वि प᳚प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ᳚थि॒वी च॒न प्रति᳚ ।
भी॒मस्तुवि᳚ष्माञ्चर्ष॒णिभ्य᳚ आत॒पः शिशी᳚ते॒ वज्रं॒ तेज᳚से॒ न वंस᳚गः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थे॒ । इन्द्र᳚म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति᳚ ।
भी॒मः । तुवि᳚ष्मान् । च॒र्ष॒णि॑भ्यः᳚ । आ॒॑त॒पः । शिशी᳚ते । वज्र᳚म् । तेज᳚से । न । वंस᳚गः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवश्चिदस्येत्यष्टर्चं पंचमं सूक्तं सव्यस्यार्षमैंद्रं जागतम् । तथा चानुक्रांतम् । दिवश्चिदष्वौजागतं हीति । हीत्यभिधानात्तुह्यादिपरिभाषयोत्तरे द्वे च सूक्ते जागते ॥ अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्र इदं सूक्तम् । सूत्रितं च । दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति च (आ ६-४) इति । विषुवति निष्केवल्येऽप्येतत्सूक्तम् । सूत्रितं च । शंसेदेवोत्तराणि षट् दिवश्चिदस्य आ । ८-६ । इति समूळ्हस्य दशरात्रस्य द्वितीये छंदोमेऽपि निष्केवल्य एतत्सूत्रितम् । त्वं महा इंद्र यो ह दिवश्चिदस्य त्वं महा इंद्र तुभ्यमिति निष्केवल्यम् । अ ८-७ । इति ॥

आस्येंद्रस्य वरिमोरुत्वं प्रभावं दिवश्चित् द्युलोकादपि वि प्रप्रथे । विस्तीर्ण बभूव । पृथिवी चन पृथिव्यपि च मह्ना महिम्ना महत्त्वेनेंद्रं न प्रति भवति । भूमिरपींद्रस्य प्रतिनिधिर्न भवति । ततोऽपि स गरीयानित्यर्थः । भीम शत्रूणां भयंकरस्तुविष्मान् प्रज्ञावान् बलवान्वा चर्षणिभ्यो मनुष्येभ्यः स्तोतृभ्यस्तेषामर्थाय शत्रूणामातप असमंतात्तापकारी । एवंविधः स इंद्रो वज्रं वर्जनशीलमायुधं तेजसे तैक्ष्ण्याय शिशीते तनूकरोति । तीक्ष्मीकरोति । तत्र दृष्टांतः । वंसगो न । वननीयगतिमान्वृषभो यथा स्वशृंगे युद्धार्थं तीक्ष्णीकरोति तद्वत् ॥ दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । वरिमा । उरुशब्दात् पृथ्वादिलक्षण इमनिच् । प्रियस्थिरेत्यादिनोरुशब्दस्य वरादेशः । पप्रथे । प्रथ प्रख्याने । मह्ना महिम्ना । वर्णलोपश्छांदसः । यद्वा । महेरौणादिकः । कनिप्रत्ययः । प्रत्ययस्वरेणांतोदात्तः । तृतीयै कवचनेऽल्लोपोऽन इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । प्रति । प्रतिः प्रतिनिधिप्रतिदानयोरिति प्रतिनिधौ कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते (पा २-३-८) इतींद्रशब्दाद्द्वितीया । प्रतिनिधिप्रतिदाने च यस्मात् (पा २-३-११) इति पंचमी तु छांदसत्वान्न भवति । भीमः । ञिभी भय इत्यस्माद्भियः षुग्वा (उ १-१४७) इति मक्प्रत्ययः । भीमो भिभ्यत्यस्मादिति यास्कः (नि १-२०) आतपः । तपतीति तपः । पचाद्यच् । थाथादिनोत्तरपदांतोदात्तत्वम् । शिशीते । शो तनूकरणे । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति विकरणस्य श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरितीत्वम् । अनजादावपि लसार्वधातुके व्यत्ययेनाभ्यस्ताद्युदात्तत्वम् (पा ६-१-१८९) वंसगः । वन षण संभक्तावित्यस्मात्कर्मण्यौणादिकः सप्रत्ययः । वंसं वननीयं गच्छतीति वंसगः । डोऽन्यत्रापि दृश्यते (पा ३-२-४८) इति गमेर्डप्रत्ययः । दिवोदासादित्वात्पूर्वपदाद्युदात्तत्वं ॥ १ ॥

1.55.2 समानपद
सो अ᳚र्ण॒वो न न॒द्य᳚ः समु॒द्रिय॒ः प्रति᳚ गृभ्णाति॒ विश्रि᳚ता॒ वरी᳚मभिः ।
इन्द्र॒ः सोम᳚स्य पी॒तये᳚ वृषायते स॒नात्स यु॒ध्म ओज᳚सा पनस्यते ॥
▶ पदपाठः (Word-by-word)
सः । अ॒र्ण॒वः । न । न॒द्यः᳚ । स॒मु॒द्रियः᳚ । प्रति᳚ । गृ॒भ्णा॒ति॒ । वि॑श्रि᳚ताः । वरी᳚म॑भिः ।
इन्द्रः᳚ । सोम᳚स्य । पी॒तये᳚ । वृ॒ष॒॑य॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज᳚सा । प॒न॒स्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रः समुद्रियः । समुद्दवंत्यस्मादाप इति समुद्रमंतरिक्षम् । तत्र भवः समुद्रियः । एवंभूतः सन् वरीमभिः स्वकीयैः संवरणैर्यद्वोरुत्वैर्विश्रिता व्याप्ता नद्यो नदीः शब्दकारणीर्वृत्रेणावृता आपोऽर्णवो न समुद्र इव प्रति गृभ्णाति । स्वीकृत्य ववर्षेति भावः । सचेंद्रः सोमस्य पीतये पानाय वृषायते वृष इवाचरति । हर्षयुक्तो वर्तत इत्यर्थः । तथा स इंद्रो युध्मो योध्धां सनाच्चिरादेव यद्वा सनातन ओजसा बलकृतेन वृत्रवधादिरूपेण कर्मणा पनस्यते पनः स्तोत्रमिच्छति ॥ अर्णवः । अर्णसो लोपश्च । का ५-२-१०९-३ । मत्वर्थी यो वप्रत्ययः सलोपश्च । प्रत्ययस्वरः । नद्यः । नद आव्यक्ते शब्द इत्यस्मात्कर्तरि पचाद्यच् । चित इत्यंतोदात्तत्वम् । नदट् (पा ३-१-१३४) इति टित्त्वेन पाठात् टिड्धाणञीति ङीप् । यस्येति लोपे उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । जसि यणादेश उदात्तस्वरितयोर्यण इति स्वरितत्वम् । द्वितीयार्थे प्रथमा । अनया व्युत्पत्त्या नद्य इत्याप उच्यंते । तथा च श्रूयते अहावनदता हते तस्मादा नद्यो नाम स्थ ता वो नामानि सिंधवः । अथ ३-१३-१ । इति । समुद्रियः । समुद्राभ्राद्घः (पा ४-४-११८) इति भवार्थे घप्रत्ययः । घस्येयादेशः । तस्यो पदेशिवद्वचनादाद्युदात्तत्वम् । गृभ्णाति । हृग्रहोर्भ इति भत्वम् । विश्रिताः । श्रिञ् सेवायाम् । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । वरीमभिः । वृञ् वरण इत्यस्मादौणादिक ईमनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यद्वा उरुशब्दादि मनिचि दीर्घ आद्युदात्तत्वं च छांदसत्वात् । वृषायते । कर्तुः क्यङ् सलो पश्च (पा ३-१-११) इत्याचारार्थे क्यङ् । ङित्त्वादात्मनेपदम् । आकृत्सार्वधातुकयोरिति दीर्घः । युध्मः । युध संप्रहार इत्यस्मादिषियुधींधिदसिश्याधूसूभ्यो मगिति मक् । पनस्यते । पन स्तुतौ । पननं पनः । तदिच्छति पनस्यति । व्यत्ययेनात्मनेपदं ॥ २ ॥

1.55.3
त्वं तमि᳚न्द्र॒ पर्व᳚तं॒ न भोज᳚से म॒हो नृ॒म्णस्य॒ धर्म᳚णामिरज्यसि ।
प्र वी॒र्ये᳚ण दे॒वताति᳚ चेकिते॒ विश्व᳚स्मा उ॒ग्रः कर्म᳚णे पु॒रोहि᳚तः ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । इ॒न्द्र॒ । पर्व᳚तम् । न । भोज᳚से । म॒हः । नृ॒म्णस्य᳚ । धर्म᳚णाम् । इ॒र॒ज्य॒सि॒ ।
प्र । वी॒र्ये᳚ण । दे॒वता᳚ । अति᳚ । चे॒कि॒ते॒ । विश्व᳚स्मै । उ॒ग्रः । कर्म᳚णे । पु॒रः॑हि᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं भोजनाय पर्वतं पर्ववंतं मेघं नाकार्षीः । न हि हतो भुंक्ते । इंद्रो हि वर्षणार्थं मेघं वज्रेण हंति । तथा महो महतो नृम्णस्य धनस्य धर्मणां धारयितृणां कुबेरादीनामिरज्यसि । ईशिषे । इरज्यतिरैश्वर्यकर्मा । स इंद्रो देवता वीर्येणात्यतिशयित इति प्रचेकिते प्रकर्षेणास्माभिर्ज्ञातो बभूव । स चोग्र उद्गूर्ण इंद्रो विश्वस्मै सर्वस्मै वृत्रवधादिरूपाय कर्मणे देवैः पुरोहितः । पुरस्तादवस्थापितः ॥ धर्मणाम् । धृञ् धारणे । अन्येभ्योऽपि दृश्यंत इति कर्तरि मनिन् नित्त्वादाद्युदात्तत्वम् । इरज्यसि । इरज् ईर्ष्यायाम् । ऐश्वर्य इत्येके । कंड्वादित्वाद्यक् । वीर्येण । शूर वीर विक्रांतौ । चुरादिः । अचो यदिति यत् । णिलोपः । बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वविधानसामर्थ्याद्यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरित इति स्वरितत्वम् । तस्मिन्हि सत्याद्युदात्तं द्व्यच्छंदसीत्यनेनैव सिद्धत्वात् पुनर्वीर्यग्रहणमनर्थकं स्यादित्युक्तम् । देवता । देव एव देवता । देवात्तल् (पा ५-४-२७) इति स्वार्थे तल् प्रत्ययः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । चेकिते । कित ज्ञाने । अस्माद्यङंताच्चेकित्यतेः कर्मणि लिट्यतोलोपयलोपौ । पुरोहितः । पुरस् शब्दस्यासिप्रत्ययांतस्य तद्धितश्चा सर्वविभक्तिरित्यव्ययत्वेव पुरोऽव्ययमिति गतिसंज्ञायां गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

1.55.4
स इद्वने᳚ नम॒स्युभि᳚र्वचस्यते॒ चारु॒ जने᳚षु प्रब्रुवा॒ण इ᳚न्द्रि॒यम् ।
वृषा॒ छन्दु᳚र्भवति हर्य॒तो वृषा॒ क्षेमे᳚ण॒ धेनां᳚ म॒घवा॒ यदिन्व᳚ति ॥
▶ पदपाठः (Word-by-word)
सः । इत् । वने᳚ । न॒म॒स्यु॑भिः᳚ । व॒च॒स्य॒ते॒ । चारु᳚ । जने᳚षु । प्र॒॑ब्रु॒वा॒णः । इ॒न्द्रि॒यम् ।
वृषा᳚ । छन्दुः᳚ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा᳚ । क्षेमे᳚ण । धेना᳚म् । म॒घवा᳚ । यत् । इन्व᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत् स एवेंद्रो वनेऽरण्ये नमस्युभिर्नमसा स्तोत्रेण पूजयितृभिर्ऋषिभिर्वचस्यते । वच इच्छन् क्रियते । स्तूयत इत्यर्थः । यद्वा । वचः स्तोत्रमात्मन इच्छति । स चेंद्र आत्मीयेषु जनेष्विंद्रियं स्ववीर्यं प्रब्रुवाणः । प्रकटयन् चारु वर्तते । किंच स वृषा कामानां वर्षको हर्यतः प्रेप्सावतो यियक्षतश्छंदुरुपच्छंदयिता भवति । यियक्षतां पुरुषाणां यागे रुचिमुत्पादयतीति भावः । वृषा हविषां वर्षयिता । हविष्ट्रदातेत्यर्थः । मघवा । धनवान् । एवंभूतोयजमानः क्षेमेणेंद्र कृतेन रक्षणेन युक्तः सन् यद्यदा धेनां स्तुतिलक्षणां वाचमिन्वति प्रेरयति । तदानीं छंदुर्भवतीति पूर्वेणान्वयः । यद्वा । मघवा वृषेंद्रः क्षेमेण क्षेपकरेण मनसा धेनां यजमानैः कृतां स्तुतिं यद्यस्मादिन्वति व्याप्नोति । तस्मादिति योज्यं ॥ नमस्युभिः । नमोवरिव इति पूजार्थे क्यच् । क्याच्छंदसीत्युप्रत्यय । वचस्यते । वच इच्छति वचस्यति । तं वचस्यंतं कुर्वंति मुनयो वचस्ययंति । वचस्ययतेः कर्मणि यक्यतोलोपयलोपौ । यद्वा । वचस्यतेर्व्यत्ययेनात्मनेपदम् । प्रब्रुवाणः । ब्रूञ् व्यक्तायां वाचि । लटः शानच् । अदादित्वाचृपो लुक् । शानचो ङित्त्वाद्गुणाभावः उवङ् । चित्स्वरेणांतोदात्तः । इंद्रियम् । इंद्रस्य लिंगमिंद्रियम् । इंद्रियमिंद्रलिंगमिंद्रदृष्वमिंद्रसृष्टमिंद्रजुष्टमिंद्रदत्तमिति वा (पा ५-२-९३) इति लिंगादिष्वर्थेष्विंद्रशब्दात् घच् प्रत्ययो निपात्यते । अंतोऽंतोदात्तत्वम् । इन्वति । इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥ ४ ॥

1.55.5 समानपद
स इन्म॒हानि᳚ समि॒थानि᳚ म॒ज्मना᳚ कृ॒णोति᳚ यु॒ध्म ओज᳚सा॒ जने᳚भ्यः ।
अधा᳚ च॒न श्रद्द᳚धति॒ त्विषी᳚मत॒ इन्द्रा᳚य॒ वज्रं᳚ नि॒घनि᳚घ्नते व॒धम् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । म॒हानि᳚ । स॒म्॑इ॒थानि᳚ । म॒ज्मना᳚ । कृ॒णोति᳚ । यु॒ध्मः । ओज᳚सा । जने᳚भ्यः ।
अध᳚ । च॒न । श्रत् । द॒ध॒ति॒ । त्विषि᳚॑मते । इन्द्रा᳚य । वज्र᳚म् । नि॒॑घनि᳚घ्नते । व॒धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत् स एवेंद्रो युध्मो योद्धा महानि समिथानि महतः संग्रामान्मज्मना सर्वस्य शोधकेनौजसा बलेन कृणोति । करोति । किमर्थम् । जनेभ्यः । स्तोतृजनार्थम् । यदेंद्रो वधं हननसाधनं वज्रमायुधं मेघेषु निघनिघ्नते । निहंति अधा चन आनंतरमेव त्वीषीमते दीप्तिमत इंद्राय सर्वे जनाः श्रद्धधति । श्रदिति सत्यनाम । इंद्रो बलवानिति यदुच्यते तत्सत्यमेवेति सर्वे प्रतिपद्यंते ॥ महानि महांतीत्यस्य तकारलोपश्छांदसः । यद्वा । मह्यंते पूज्यंत इति महानि प्रवृद्धानि । घञर्थे कविधानमिति कः । प्रत्ययस्वरः । समिथानि । इण् गतौ । संयंति संगच्छंतेऽस्मन्वीरा इति समिथानि संग्रामाः । समीणः (उ २-११) इति थक्प्रत्ययः । कित्त्वाद्गुणाभावः । थाथादिनोत्तरपदांतोदात्तत्वम् । मज्मना । टुमस्जो शुद्धौ । मनिप्रत्ययः । झलां जश् झशि (पा ८-४-५३) इति सकारस्य जत्त्वं दकारः । ततश्चुत्वं जकारः । प्रत्ययस्वरः । अध । छांदसं धत्वम् । निपातस्य चेति सांहितिको दीर्घः । त्विषीमते । त्विष दीप्तौ । इन्सर्वधातुभ्य इतीन्प्रत्ययः ।

द्युदात्तत्वम् । मतुपः पित्त्वादनुदात्तत्वे तदेव शिष्यते । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । निघनिघ्नते । हंतेर्व्यत्ययेनात्मनेपदं बहुवचनं च बहुलं छंदसीति शपः श्लुः । गमहनेत्यादिनोपधालोपः । अभ्यासस्य घत्वम् । निगागमश्च आगनीगंतीति च (पा ७-४-६५) इतीचशब्दः प्रकारार्थ इत्युक्तत्वाद्दाधर्त्यादावेतद्द्रष्टव्यं ॥ ५ ॥

1.55.6 समानपद
स हि श्र᳚व॒स्युः सद᳚नानि कृ॒त्रिमा᳚ क्ष्म॒या वृ᳚धा॒न ओज᳚सा विना॒शय᳚न् ।
ज्योतीं᳚षि कृ॒ण्वन्न᳚वृ॒काणि॒ यज्य॒वे॑व᳚ सु॒क्रतु॒ः सर्त॒वा अ॒पः सृ᳚जत् ॥
▶ पदपाठः (Word-by-word)
सः । हि । श्र॒व॒स्युः । सद᳚नानि । कृ॒त्रिमा᳚ । क्ष्म॒या । वृ॒धा॒नः । ओज᳚सा । वि॒॑ना॒शय᳚न् ।
ज्योतीं᳚षि । कृ॒ण्वन् । अ॒वृ॒काणि᳚ । यज्य᳚वे । अव᳚ । सु॒॑क्रतुः᳚ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रवस्युरन्नं यशो वात्मन इच्छन् कृत्रिमा कृत्रिमाणि क्रियया निर्वृत्तानि सदनान्यसुरपुराण्योजसा बलेन विनाशयन् क्ष्मया भूम्या समानं वृधानो वर्धनशीलः । यद्वा । क्ष्मयेत्योजोविशेषणम् । शत्रूणामभिभवित्रा बलेनेत्यर्थः । ज्योतींषि सूर्यादीनि वृत्रेणावृतान्यवृकाणि वृकेणावरकेण तेन रहितानि न् । कुर्वन् सुक्रतुः शोभनकर्मसहित एवंविधः स खिल्विंद्रो यज्यवे यष्ट्रे यजमानाय तदर्थं सर्तवै सरणायापो वृष्टिलक्षणान्युदकान्यवासृजत् । वृष्टिं कृतवानित्यर्थः ॥ कृत्रिमा । डुकृञ् करणे । ड्वितः क्त्रिः (पा ३-३-८८) इति भावे क्त्रिप्रत्ययः । त्रेर्मम्नित्यम् (पा ४-४-२०) इति निर्वृत्तार्थे मप् । तस्य पित्त्वादनुदात्तत्वे क्त्रिप्रत्ययस्वर एव शिष्यते । शेश्छंदसि बहुलमिति शेर्लोपः । क्ष्मया । क्षमूष् सहने । क्षमते प्राणिजातकृतमुपद्रवमिति क्षमा । षिद्भिदादिभ्योऽ ङ् (पा ३-३-१०४) इत्यङ् प्रत्ययः । ततष्वाप् । व्यत्ययेन स्त्रीलिंगता । मनः (पा ४-१-११) इति ङीपो निषेधे । डाबुभाभ्यामन्यतरस्याम् (पा ४-१-१३) इति डाप् । टलोपः । वृधानः । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । चित इत्यं शोदात्तत्वम् । अवृकाणि । वृञ् वरणे । सृवृभूशुषिमुषिभ्यः कित् (उ ३-४१) इति कन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । यज्यवे । यजिमनिशुंधिदसिजनिभ्यो युरिति युप्रत्ययः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । सुक्रतुः । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युदात्वत्वम् । सर्तवै । सृ गतौ । कृत्यार्थे तवैकेनिति भावे तवैप्रत्ययः । गुणः । अंतश्च तवै युगपत् (पा ६-१-२००) इत्याद्यंतयोर्युगपदुदात्वत्वम् । अपः । ऊडिदमिति शस उदात्तत्वम् । सृजत् । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ६ ॥

1.55.7
दा॒नाय॒ मनः᳚ सोमपावन्नस्तु ते॒॑र्वाञ्चा॒ हरी᳚ वन्दनश्रु॒दा कृ᳚धि ।
यमि᳚ष्ठास॒ः सार᳚थयो॒ य इ᳚न्द्र ते॒ न त्वा॒ केता॒ आ द᳚भ्नुवन्ति॒ भूर्ण᳚यः ॥
▶ पदपाठः (Word-by-word)
दा॒नाय᳚ । मनः᳚ । सो॒म॒॑पा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा᳚ । हरी॒ इति᳚ । व॒न्द॒न॒॑श्रु॒त् । आ । कृ॒धि॒ ।
यमि᳚ष्ठासः । सार᳚थयः । ये । इ॒न्द्र॒ । ते॒ । न । त्वा॒ । केताः᳚ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपावन् सोमस्य पातरिंद्र ते त्वदीयं मनो दानायास्मदभिमतफलप्रदानायास्तु । भवतु । हे वंदनश्रुत् । वंदनानां स्तुतीनां श्रोतः हरी त्वदीयावश्वावर्वांचास्मद्यज्ञाभिमुखावा कृधि । आभिमुख्येन कुरु । हे इंद्र ते तव स्वभूता ये सारथयः संति ते यमिष्ठासोऽतिशयेन यंतारः । अश्विनियमनकुशला इत्यर्थः । यस्मादेवं तस्मात्केताः प्रातिकूल्यज्ञातारो भूर्णयः स्वकीयायुधादीनां भर्तारः । यद्वा । भीतास्तीक्ष्णाः शत्रवस्त्वा त्वां ना दभ्नुवंति । न हिंसंति ॥ सोमपावन् । आतो मनिन्निति वनिप् । आसंबुद्धाविति पर्युदासाद्दीर्घाभावः । अर्वांचा । सुपां सुलगिति विभक्तेराकारः । वंदनश्रुत् । वदि अभिवादनस्तुत्योः । इदित्त्वान्नुम् । भावे ल्युट् । तेषां श्रोता । श्रु श्रवणे । क्विपि तुगागमः । यमिष्ठासः । यंतुः शब्दात्तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयः स्विति तृलोपः । नित्त्वादाद्युदात्तत्वम् । आज्जसेरसुगित्यसुक् । केताः । कित ज्ञाने । चिकेतति प्रतिकूलं जानंतीति केताः । पचाद्यच् । वृषादेराकृतिगणत्वादाद्युदात्तत्वं यद्वा । प्रतिकूलतया ज्ञायंत इति केताः । कर्मणि घञ् । ञित्वादाद्युदात्तत्वम् । दभ्नुवंति । दन्भु दंभे । स्वादित्वाच्छ्नुः । तस्य ङित्त्वादनिदितामिति नलोपः । संयोगपूर्वत्वेन हुश्नुवोरिति यणादेशाभावेऽचि श्नुधात्वित्यादिनोवङादेशः । भूर्णयः । भृञ् भरणे । घृणिः पृश्निरित्यादौ (उ ४-५२) अस्मान्निप्रत्ययांतो निपात्यते । ऋत उत्वं दीर्घश्च । यद्वा । भृ भय इत्यस्मात्कृत्यल्युटो बहुलमिति कर्तरि क्तिन्युदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति । पा ८-२-४४-१ । इति निष्ठावद्भावान्नत्वम् । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥

1.55.8 समानपद
अप्र᳚क्षितं॒ वसु᳚ बिभर्षि॒ हस्त᳚यो॒रषा᳚ळ्हं॒ सह᳚स्त॒न्वि᳚ श्रु॒तो द᳚धे ।
आवृ᳚तासो॑व॒तासो॒ न क॒र्तृभि᳚स्त॒नूषु᳚ ते॒ क्रत᳚व इन्द्र॒ भूर᳚यः ॥
▶ पदपाठः (Word-by-word)
अप्र᳚॑क्षितम् । वसु᳚ । बि॒भ॒र्षि॒ । हस्त᳚योः । अषा᳚ळ्हम् । सहः᳚ । त॒न्वि᳚ । श्रु॒तः । द॒धे॒ ।
आ॑वृ᳚तासः । अ॒व॒तासः । न । क॒र्तृ॑भिः᳚ । त॒नूषु᳚ । ते॒ । क्रत᳚वः । इ॒न्द्र॒ । भूर᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वमप्रक्षितं प्रक्षयरहितं वसु धनं हस्तयोर्बिभर्षि । स्तोतृभ्यो दातुं धारयसि । तथा श्रुतः प्रख्यातो भव तन्व्यात्मीये शरीरेऽषाळ्हं शत्रुभिरनभिभूतं सहो बलं दधे । धारयति । त्वदीयास्तनवः कर्तृभिर्वृत्रादेरसुरस्य वधं कुर्वद्भिर्बलकृतैः कर्मभिरावृतास आवृताः । बलकृतानि सर्वाणि कर्माण्येतस्य शरीरमावृत्यावतिष्ठंते । तत्र दृष्टांतः । अवतासो न । अवत इति कूपनाम । यथा कूपा जलोद्धरणाय प्रवृत्तैः प्राणिभिराव्रियंते तद्वत् । यस्मादेवं तस्मात् हे इंद्र ते तव शरीरेषु क्रतवः कर्माणि भूरये बहूनि विद्यंते ॥ अप्रक्षितम् । क्षि क्षय इत्यस्माद्भावे निष्ठा । अण्यदर्थे (पा ६-४-६०) इति पर्युदासाद्दीर्घाभावः । अत एव क्षियो दीर्घादिति निष्ठानत्वाभावः । प्रकृष्टं क्षितं यस्य तत्प्रक्षितम् । न प्रक्षितमप्रक्षितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बिभर्षि । डुभृञ् धारण पोषणयोः । लटि सिपि शपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । अषाळ्हम् । षह अभिभव इत्यस्मान्निष्ठायां तकारादौ प्रत्यये तीषसह (पा ७-२-४८) इतीटो विकल्पितत्वात् यस्य विभाषेतीट् प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपेषु सहिवहोरोदवर्णस्ये त्योत्वे प्राप्ते साढ्यै साढ्वा साढेति निगमे (पा ६-३-११३) इति निपातनादात्वम् । यदुक्तं साढेति तृजंतमेतदिति तदुपलक्षणार्थं द्रष्टव्यम् । तन्वि । जसादिषु छंदसि वावचनमिति अच्च घेः (पा ७-३-११९) इत्यत्वौत्वयोरभावे यणादेशः । उदात्त स्वरितयोर्यण इति विभक्तेः स्वरितत्वं उदात्तयणो हल्पूर्वादित्युदात्तत्वं शु छांदसत्वान्न प्रवर्तते ॥ ८ ॥