प्रथमं मण्डलम् - सूक्तम् 36

20 ऋचः

ऋषिः: कण्वो घौरः देवता: अग्निः छन्दः: बृहती

सूक्तम् 1.36 - सम्पूर्णम्

1 / 20
ऋक्: 1.36.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (20)
1.36.1
प्र वो᳚ य॒ह्वं पु᳚रू॒णां वि॒शां दे᳚वय॒तीना᳚म् ।
अ॒ग्निं सू॒क्तेभि॒र्वचो᳚भिरीमहे॒ यं सी॒मिद॒न्य ईळ᳚ते ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । य॒ह्वम् । पु॒रू॒णाम् । वि॒शाम् । दे॒व॒॑य॒तीना᳚म् ।
अ॒ग्निम् । सु॒॑उ॒क्तेभिः᳚ । वचः᳚॑भिः । ई॒म॒हे॒ । यम् । सी॒म् । इत् । अ॒न्ये । ईळ᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्यजमानाः देवयतीनां देवान्कामयमानानां पुरूणां बहूनां विशां प्रजारूणाणां वो युष्माकमनुग्रहाय यह्वं महांतम् । यह्वो विवक्षिथ इति महन्नामसु पाठात् । अग्निं सूक्तेभिर्वचोभिः सूक्तरूपैर्वाक्यैः प्रेमहे । प्रकर्षेण याचामहे । ईमहे यामीति याच्ञा कर्मसु पाठात् । अन्य इदन्येऽप्यृषयो यमग्निं सीं सर्वत ईळते स्तुवंति । तमग्निमिति पूर्वत्रान्वयः ॥ पुरूणां नामन्यतरस्यामिति नाम उदात्तत्वम् । विशाम् । सावेकाच इति विभक्तेरुदात्तत्वम् । देवयतीनाम् । देवानात्मन इच्छंत्यो देवयंत्यः । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वस्येव दीर्घस्यापि प्रतिषेधः । अश्वाघस्यादिति पुनरात्वविधानाज्ङ्ञापकात् । क्यजंताल्लटः शतृ । कर्तरि शप् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण क्यचा सहैकादेश एकादेश उदात्तेनोदात्त इति शतुरुदात्तत्वम् । उगितश्चेति ङीप् । अनित्यमागमशासनमिति वचनान्नुमभावः । एकादेशस्वरस्य पूर्वत्रासिद्धत्वं नेष्यत इति वचनात् । पा ८-२-६-१ । शतुरुदात्तत्वं सिद्धमेवेति शतुरनुम इति नद्या उदात्तत्वम् । सूक्तेभिः । वक्तेः क्तिच् क्तौ च संज्ञायामिति क्तः । थाथादिनोत्तरपदांतोदात्तत्वम् । ईळते । ईड स्तुतौ । अदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥ १ ॥

1.36.2
जना᳚सो अ॒ग्निं द᳚धिरे सहो॒वृधं᳚ ह॒विष्म᳚न्तो विधेम ते ।
स त्वं नो᳚ अ॒द्य सु॒मना᳚ इ॒हावि॒ता भवा॒ वाजे᳚षु सन्त्य ॥
▶ पदपाठः (Word-by-word)
जना᳚सः । अ॒ग्निम् । द॒धि॒रे॒ । स॒हः॒॑वृध᳚म् । ह॒विष्म᳚न्तः । वि॒धे॒म॒ । ते॒ ।
सः । त्वम् । नः॒ । अ॒द्य । सु॒॑मनाः᳚ । इ॒ह । अ॒वि॒ता । भव᳚ । वाजे᳚षु । स॒न्त्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनासोऽनुष्ठातारो जनाः सहोवृधं बलस्य वर्धयितारमग्निं दधिरे । धृतवंतः । हविष्मंतो हविर्युक्ता वयं हे अग्ने ते त्वां विधेम । परिचरेम । विधतिः परिचरणकर्मा । विधेम सपर्यतीति परिचरणकर्मसु पठितत्वात् । वाजेष्वन्नेषु संत्य दानशील हे अग्ने स त्वमद्यास्मिन्दिन इह कर्मणि नोऽस्मान्प्रति सुमनाः शोभनमनस्कोऽविता रक्षिता भव ॥ सहोवृधम् । वृधु वृद्धौ । अस्मादंतर्भावितण्यर्थात्क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हविष्मंतः । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । विधेम । विध विधाने । तुदादित्वाच्छः । सुमनाः । शोभनं मनो यस्यासौ सुमनाः । सोर्मनसी अलोमोषसी (पा ६-२-११७) इत्युत्तरपदाद्युदात्तत्वम् । भव । पादादित्वात्तिङ्ङतिङ इति निघाताभावः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । संत्य । षणु दाने । क्तिचि तितुत्रेत्यादिना इट् प्रतिषेधः । न क्तिचि दीर्घश्च (पा ६-४-३९) इत्यनुनासिकलोपदीर्घयोर्निषेधः । संतिर्दाता । तत्र भवः संत्यः । भवे छंदसीति यत् ॥ २ ॥

1.36.3
प्र त्वा᳚ दू॒तं वृ᳚णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् ।
म॒हस्ते᳚ स॒तो वि च᳚रन्त्य॒र्चयो᳚ दि॒वि स्पृ᳚शन्ति भा॒नवः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । त्वा॒ । दू॒तम् । वृ॒णी॒म॒हे॒ । होता᳚रम् । वि॒श्व॑वे᳚दसम् ।
म॒हः । ते॒ । स॒तः । वि । च॒र॒न्ति॒ । अ॒र्चयः᳚ । दि॒वि । स्पृ॒श॒न्ति॒ । भा॒नवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने होतारं होमनिष्पादकमाह्वातारं वा विश्ववेदसं सर्वज्ञं दूतं देवानां दूत्ये प्रवृत्तम् । अग्निर्वै देवानां दूत आसीदिति श्रुत्यंतरात् । तादृशं त्रां वृणीमहे । प्रकर्षेण वरणं कुर्मः । महो महतः सतो नित्यं वर्तमानस्य ते तवार्चयो दीप्तयो वि चरंति । विविधं प्रचरंति । भानवस्त्वदीया रश्मयो दिवि द्युलोके स्पृशंति । तत्रत्यान्प्राणिनः प्रकाशयंतीत्यर्थः ॥ विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यद्वा । वेद इति धननाम । विश्वं वेदो धनं यस्य । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । महः । मह पूजायाम् । क्विप्चेति क्विप् । सावेकाच इति ङस उदात्तत्वम् । यद्वा । महच्छब्देऽच्छब्दलोपश्छांदसः । सतः । अस्तेः शतरि श्नसोरल्लोप इत्यकारलोपः । शतुरनुम इति विभक्तेरुदात्तत्वम् । दिवि । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३ ॥

1.36.4
दे॒वास᳚स्त्वा॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा सं दू॒तं प्र॒त्नमि᳚न्धते ।
विश्वं॒ सो अ᳚ग्ने जयति॒ त्वया॒ धनं॒ यस्ते᳚ द॒दाश॒ मर्त्य᳚ः ॥
▶ पदपाठः (Word-by-word)
दे॒वासः᳚ । त्वा॒ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । सम् । दू॒तम् । प्र॒त्नम् । इ॒न्ध॒ते॒ ।
विश्व᳚म् । सः । अ॒ग्ने॒ । ज॒य॒ति॒ । त्वया᳚ । धन᳚म् । यः । ते॒ । द॒दाश᳚ । मर्त्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वरुणादयस्त्रयो देवासो देवाः प्रत्नं पुरातनं दूतं त्वां समिंधते । सम्यग्दीपयंति । यो मर्त्यो मनुष्यो यजमानस्ते तुभ्यं ददाश हविर्दत्तवान् स यजमानस्त्वया सहायभूतेन विश्वं सर्वं धनं जयति ॥ अर्यमा । अर्यान्मिमीत इत्यर्यमा । श्वन्नुक्षन्नित्यादिना (उ १-१५८) कनिन्प्रत्ययांतो निपातितः । इंधते ञिइंधी दीप्तौ । अस्माल्लट झस्यादादेशे श्नम् । श्नान्नलोपः (पा ६-४-२३) श्नसोरल्लोप इत्यकारलोपः । ददाश । दाशृ दाने । लिट लित्स्वरेण प्रत्ययात्पूर्वस्याकारस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ४ ॥

1.36.5
म॒न्द्रो होता᳚ गृ॒हप᳚ति॒रग्ने᳚ दू॒तो वि॒शाम᳚सि ।
त्वे विश्वा॒ संग᳚तानि व्र॒ता ध्रु॒वा यानि᳚ दे॒वा अकृ᳚ण्वत ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रः । होता᳚ । गृ॒ह॑प᳚तिः । अग्ने᳚ । दू॒तः । वि॒शाम् । अ॒सि॒ ।
त्वे इति᳚ । विश्वा᳚ । सम्॑ग᳚तानि । व्र॒ता । ध्रु॒वा । यानि᳚ । दे॒वाः । अकृ᳚ण्वत ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं मंद्रो हर्षहेतुर्होता देवानामाह्वाता विशां यजमानरूपाणां प्रजानां गृहपतिर्गृहस्य पालको दूतो देवदूतोऽसि । त्वे त्वयि विश्वा व्रता सर्वाणि कर्माणि संगतानि । व्रतं कर्वरमिति कर्मनामसु व्रतशब्दः पठितः । पृथिव्यादयो देवा ध्रुवा स्थिराणि यानि कर्माण्यकृण्वत कृतवंतः । पृथिवी धारयति पर्जन्यो वर्षति सूर्यः प्रकाशयति । तान्येतानि त्वयि संगतानीति पूर्वत्रान्वयः ॥ गृहपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं त्वे सुपां सुलुगिति सप्तम्येकवचनस्य शे आदेशः । त्वमावेकवचन इति मपर्यंतस्य त्वादेशः । शेषे लोप इति टलोपपक्ष उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं अंत्यलोपपक्षे त्वेकादेशस्वरेण । संगतानि । गमेः कर्मणि निष्ठायामेकाचः (पा ७-२-१०) इतीट् प्रतिषेधः अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिनंतर इति गतेः प्रकृतिस्वरत्वम् । व्रता ध्रुवेत्युभयत्र शेर्लोपः । अकृण्वत कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । इदित्वान्नम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः ॥ ८ ॥ ५ ॥

1.36.6
त्वे इद᳚ग्ने सु॒भगे᳚ यविष्ठ्य॒ विश्व॒मा हू᳚यते ह॒विः ।
स त्वं नो᳚ अ॒द्य सु॒मना᳚ उ॒ताप॒रं यक्षि᳚ दे॒वान्त्सु॒वीर्या᳚ ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । इत् । अ॒ग्ने॒ । सु॒भगे᳚ । य॒वि॒ष्ठ्य॒ । विश्व᳚म् । आ । हू॒य॒ते॒ । ह॒विः ।
सः । त्वम् । नः॒ । अ॒द्य । सु॒॑मनाः᳚ । उ॒त । अ॒प॒रम् । यक्षि᳚ । दे॒वान् । सु॒॑वीर्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ्य युवत्तमाग्ने सुभगे सौभाग्ययुक्ते त्वे इत् त्वयेव विश्वं सर्वं हविरा हूयते । सर्वतः । प्रक्षिप्यते स त्वं नोस्मान्प्रति सुमनाः शोभन मनस्को भूत्वाद्यास्मिन्दिन उतापि चापरं श्वोऽपरं श्व इत्यादिक मुत्तरं कालं सर्वस्मिन्नपि काले नैरंतर्येण सुवीर्या शोभनवीर्योपेतान्देवान्यक्षि । यज ॥ सुभगे । शोभनो भगो यस्येति बहुव्रीहावाद्युदात्तत्वम् । द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । यविष्ठ्य । युवशब्दादिष्ठन् । स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादेः परस्य लोपः पूर्वस्य च गुणः । छांदसो यकारोपजनः । यक्षि । बहुलं छंदसि शपो लुक् । सुवीर्या । शोभनं वीर्यं येषाम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । सुपां सुलुगिति विभक्तेराकारः ॥ ६ ॥

1.36.7 समानपद
तं घे᳚मि॒त्था न᳚म॒स्विन॒ उप᳚ स्व॒राज᳚मासते ।
होत्रा᳚भिर॒ग्निं मनु᳚ष॒ः समि᳚न्धते तिति॒र्वांसो॒ अति॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः᳚ । उप᳚ । स्व॒॑राज᳚म् । आ॒स॒ते॒ ।
होत्रा᳚भिः । अ॒ग्निम् । मनु᳚षः । सम् । इ॒न्ध॒ते॒ । ति॒ति॒र्वांसः᳚ । अति᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिष्टवे सायंकालीन उत्तरस्मिन्पटले तं घेमित्था नमस्विन इत्येषा विनियुक्ता । अथोत्तरमिति खंडे सूत्रितम् । प्रागाथीं पूर्वाह्णे काण्वीमपराह्णे (आ ४-७) इति

हे अग्ने नमस्विनोऽन्नयुक्ता नमस्कारयुक्ता वा । नम आयुः सूनृतेत्यन्न नामसु पाठान्नमः शब्दान्नवाचित्वम् । तादृशा यजमानाः स्वराजं स्वतो दीप्यमानं तं घें तमेव पूर्वोक्त सर्वगुणविशिष्टं त्वामित्थानेन प्रकारेण हविष्ट्रदानादिरूपेणोपासते । मनुषो मनुष्या यजमाना होत्राभिः सप्तभिर्वषट् कर्तृभिः । सप्त होत्राः प्राचीर्वषट्कुर्वंतीति श्रुत्यंतरात् । अग्निं त्वा समिंधते । सम्यग्दीषयंति । कीदृशा मनुष्याः स्रिधः शत्रूनति तितिर्वांसोऽतिशयेन तरंतः ॥ नमस्विनः अस्मायामेधेति मत्वर्थीयो विनिः । स्वराजम् । स्वभासा राजत इति स्वराट् । सत्सूद्विषेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसते । आस उपवेशते । आदादित्वाच्छपोलुक् । तितिर्वांसः । तृ प्लवनतरणयोः । छंदसि लिडिति वर्तमानो लिट् । तस्यक्वसुश्चेति क्वसुः । वस्वेकाजाद्घसामिति नियमादिडभावः । ऋत इद्धातॊरितीत्वम् । ऋच्छत्यृताम् (पा ७-४-११) इति गुणो हलि च (पा ८-२-७७) इति दीर्घत्वं च न भवति । संज्ञापूर्वको विधिरनित्यत्वात् । यद्वा । तिरतिः प्रकृत्यंतरं द्रष्टव्यम् । स्रिधः । स्रिधु शोषणे । क्विप्चेति क्विप् ॥ ७ ॥

1.36.8 समानपद
घ्नन्तो᳚ वृ॒त्रम᳚तर॒न्रोद᳚सी अ॒प उ॒रु क्षया᳚य चक्रिरे ।
भुव॒त्कण्वे॒ वृषा᳚ द्यु॒म्न्याहु᳚त॒ः क्रन्द॒दश्वो॒ गवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
घ्नन्तः᳚ । वृ॒त्रम् । अ॒त॒र॒न् । रोद᳚सी॒ इति᳚ । अ॒पः । उ॒रु । क्षया᳚य । च॒क्रि॒रे॒ ।
भुव᳚त् । कण्वे᳚ । वृषा᳚ । द्यु॒म्नी । आ॑हु᳚तः । क्रन्द᳚त् । अश्वः᳚ । गो॑इ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने घ्नंतस्त्वत्सहायेनेतरे देवाः प्रहरंतो वृत्रमतरन् । तीर्णवंतः । तदनंतरं रोदसी द्यावापृथिव्यावपोंऽतरिक्षं च क्षयाय प्राणिनां निवासार्थमुरु विस्तारो यथा भवति तथा चक्रिरे । अप्शब्दोंऽतरिक्षवाची । आपः पृथिवीति तन्नामसु पठितत्वात् । भवांस्तु कण्वे कण्वनामके महर्षौ वृषा कामानां वर्षिता द्युम्नी धनवान् आहुतः सर्वतो होमयुक्तश्च भुवत् । भवतु तत्र दृष्टांतः । गविष्टषु गोविषयेच्छायुक्तेषु संग्रामेष्वश्वः क्रंदत् शब्दं कुर्वन्यथाभीष्टप्रापकस्तथेति शेषः ॥ घ्नंतः । हंतेः शतरि गमहनेत्यादिनोपधालोपः । हो हंतेञ् र्णिन्नेषु (पा ७-३-५४) इति घत्वम् । अपः । ऊडिदमिति शस उदात्तत्वम् । क्षयाय । क्षिनिवासगत्योः । क्षियंति निवसंत्यस्मिन्निति क्षयो निवासस्थानम् । पुंसि संज्ञायां घः प्रायेणेति घः । क्षयो निवासे (पा ६-१-२०१) इत्याद्युदात्तत्वम् । भुवत् । भवतेर्लेड्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं घंदसीति शपो लुक् भूसुवोस्तिङि (पा ७-३-८८) इति गुणप्रतिषेधः । अडागमस्यानुदात्तत्वे धातुस्वरः । आहुतः । आहूयत इत्याहुतः । हु दानादनयोः । कर्मणि क्तः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । क्रंदत् । कदि क्रदि क्लदि आह्वाने । शतरि नुमभावश्छांदसः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । गविष्टिषु । इषु इच्छायाम् । एषणमिष्टिः । गवामिष्टिर्येषु संग्रामेषु बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.36.9
सं सी᳚दस्व म॒हा{4} अ᳚सि॒ शोच᳚स्व देव॒वीत᳚मः ।
वि धू॒मम᳚ग्ने अरु॒षं मि᳚येध्य सृ॒ज प्र᳚शस्त दर्श॒तम् ॥
▶ पदपाठः (Word-by-word)
सम् । सी॒द॒स्व॒ । म॒हान् । अ॒सि॒ । शोच᳚स्व । दे॒व॒॑वीत᳚मः ।
वि । धू॒मम् । अ॒ग्ने॒ । अ॒रु॒षम् । मि॒ये॒ध्य॒ । सृ॒ज । प्र॒॑श॒स्त॒ । द॒र्श॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्ये महावीरे खरे संसाद्यमाने स सीदस्व महा असीत्येषा । स्पृष्ट्वोदकमिति खंडे सं सीदस्व महा असीति संसाद्यमाने (आ ४-६) इति ॥

हे अग्ने सं सीदस्व । बर्हिष्युपविश । महानसि । गुणाधिको भवसि । देववीतमोऽतिशयेन देवान्कामयमानः शोचस्व । दीप्यस्व । हे मियेध्य मेधार्ह प्रशस्त उत्कृष्टाग्ने अरुषं गमनशीलं दर्शतं दर्शनीयं धूमं वि सृज । विशेषण संपादय ॥ सीदस्व । षद्लृ विशरणगत्यवसादनेषु । व्यत्ययेनात्मनेपदम् । प्रार्थनायां लोट शपि पाघ्रेत्यादिना सीदादेशाः । महान् । संहितायां नकारा कारयोः रुत्वानुनासिकावुक्तौ । शोचस्व । शुच दीप्तौ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङः परत्वान्निघाताभावः । देवेवितमः । वी गतिप्रजनकांत्यशनखादनेषु । देवान्वेति गच्छतीति देववीः । क्विप्चेति क्विप् । अतिशयेन देववीर्देववीतमः । तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अरुषम् । आरोषणम् । रिष रुष हिंसायाम् । घञर्थे कविधानमिति भावे कप्रत्ययः । नास्ति रुषोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मीयेध्य । छंदसि चेत्यर्हार्थे यप्रत्ययः । मकारात्पर इयागमश्छांदसः । सृज । सृज विसर्गे । तुदादित्वाच्छः । विकरणस्वरः । पादादित्वादनिघातः । दर्शतम् । भृमृदृशीत्यादिना दृशेः कर्मण्यतच् प्रत्ययः ॥ ९ ॥

1.36.10 समानपद
यं त्वा᳚ दे॒वासो॒ मन᳚वे द॒धुरि॒ह यजि᳚ष्ठं हव्यवाहन ।
यं कण्वो॒ मेध्या᳚तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु᳚पस्तु॒तः ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । दे॒वासः᳚ । मन᳚वे । द॒धुः । इ॒ह । यजि᳚ष्ठम् । ह॒व्य॒॑वा॒ह॒न॒ ।
यम् । कण्वः᳚ । मेध्य᳚॑अतिथिः । ध॒न॒॑स्पृत᳚म् । यम् । वृषा᳚ । यम् । उ॒प॒॑स्तु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हव्यवाहन हविषो वाहकाग्ने मनवे मनोरनुग्रहाय देवासः सर्वे देवा यजिष्ठमतिशयेन पूज्यं यष्वृतमं वा यं त्वामिह देवयजनदेशे दधुः धृतवंतः । मेध्यातिथिर्मॆधार्हैरतिथिभिर्युक्तः कण्व एतन्नामको महर्षिर्यं त्वां धनस्पृतं धनेन प्रीणयितारं कृत्वा दध इति शेषः ॥ तथा वृषेंद्रो यं त्वां दधे । तथोपस्तुतोऽन्योऽपि स्तोता यजमानो यं त्वां दधे । स त्वं सं सीदस्वेति पूर्वत्रान्वयः ॥ दधुः । लिट्युसि कित्व आतो लोप इटि चेत्याकारलोपः । प्रत्ययस्वरः यष्टृुशब्दात्तुश्छंदसि (पा ५-३-५९) इत्यगुणवचनादप्यातिशायनिक इष्ठन् । तुरिष्ठेमेयःसु (पा ६-४-१५४) इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । हव्यवाहन । हव्यं वहतीति हव्यवाहनः । हव्येऽनंतःपादम् (पा ३-२-६६) इति वहतेञ् र्युट् । मेध्यातिथिः । मेध्या अतिथयो यस्येति बहुव्रीहौ पूर्वपदप्रकृतस्वरत्वम् । धनस्पृतं धनैरस्मान्स्पृणोति प्रीणयतीति धनस्पृत् । स्पृ प्रीतिबलयोः । क्विप्चेति क्विप् । ततस्तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । उपस्तुतः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ९ ॥ १० ॥

1.36.11
यम॒ग्निं मेध्या᳚तिथि॒ः कण्व᳚ ई॒ध ऋ॒तादधि᳚ ।
तस्य॒ प्रेषो᳚ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व᳚र्धयामसि ॥
▶ पदपाठः (Word-by-word)
यम् । अ॒ग्निम् । मेध्य᳚॑अतिथिः । कण्वः᳚ । ई॒धे । ऋ॒तात् । अधि᳚ ।
तस्य᳚ । प्र । इषः᳚ । दी॒दि॒युः॒ । तम् । इ॒माः । ऋचः᳚ । तम् । अ॒ग्निम् । व॒र्ध॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मेधातिथिर्यागयोग्या अतिथय ऋत्विग्रूपा यस्य तादृशः कण्व ऋषिर्ऋतादधि आदित्यादध्याहृत्य यमग्निमीधे दीप्तवान् तस्याग्नेरिषो गमनस्वभावा रश्मयः प्रदीदीयुः । प्रकर्षेण दीप्यंते । तथा तमग्निमिमा अस्माभिः प्रयुज्यमाना ऋचो वर्धयंतीति शेषः । वयमपि तमग्निं वर्धयामसि । स्तोत्रैर्वर्धयामः ॥ ईधे । ञ् इन्धीदीप्तौ । इंधिभवतिभ्यां च (पा १-२-६) इति लिटः कित्त्वादनिदितामिति नकारलोपः । द्विर्भावहलादिशेषयोः कृतयो सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इषः । इष गतौ । इष्यंति गच्छंतीतीषो रश्मयः । दीदियुः । दीदेतिश्छांदसो धातुर्दीप्तिकर्मा । लिट्युसीयङादेशः । एरनेकाच इति यणादेशाभावश्छांदसः । वर्धयामसि । इदंतो मसिरिति मस इकारागमः ॥ ११ ॥

1.36.12 समानपद
रा॒यस्पू᳚र्धि स्वधा॒वो॑स्ति॒ हि ते॑ग्ने᳚ दे॒वेष्वाप्य᳚म् ।
त्वं वाज᳚स्य॒ श्रुत्य᳚स्य राजसि॒ स नो᳚ मृळ म॒हा{4} अ᳚सि ॥
▶ पदपाठः (Word-by-word)
रा॒यः । पू॒र्धि॒ । स्व॒धा॒॑वः॒ । अस्ति᳚ । हि । ते॒ । अ॒ग्ने॒ । दे॒वेषु᳚ । आप्य᳚म् ।
त्वम् । वाज᳚स्य । श्रुत्य᳚स्य । रा॒ज॒सि॒ । सः । नः॒ । मृ॒ळ॒ । म॒हान् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वधावोऽन्नवन्नग्ने । स्वधा अर्क इति तन्नामसु पाठात् । अस्माकं रायो धनानि पूर्धि । पूरय देहि वा । पूर्धि पूरय देहीति वा । पूर्धि पूरय देहेति वा (नि ४-३) इति यास्कः । हे अग्ने ते तव देवेष्टाप्यं प्रापणीयं सख्यमस्ति हि । विद्यते खलु । त्वं श्रुत्यस्य श्रवणीयस्य वाजस्शान्नस्यराजसि । ईश्वरो भवसि । स त्वं नोऽस्मान्मृळ । सुखय । महान् । गुणैरधिकोऽसि ॥ रायः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पूर्दि । पृ पालनपूरणयोः । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहलं छंदसीति शपो लुक् । हेरपित्त्वेन ङित्त्वाद्गुणाभाव उदोष्ठ्यपूर्वस्य (पा ७-१-१०२) इत्युत्वम् । हलि चेति दीर्घः । स्वधावः । संबुद्धौ मतुवसोरिति रुत्वम् । आप्यम् । अदुपधत्वाभावेऽपि व्यत्ययेन होरदुपधात् (पा ३-१-९८) इति कर्मणि यत् । यतोऽनाव इत्याद्युदात्तत्वं यद्वा । ण्यति च्छांदसमाद्युदात्तत्वम् । श्रुत्यस्य । श्रु श्रवणे । औणादिकः क्यप् । तुगागमः । यद्वा । श्रुतिशब्दाद्भवे छंदसीत यत् । मृळ । मृड सुखने । शस्य ङित्त्वाल्लघूपधगुणाभावः ॥ १२ ॥

1.36.13
ऊ॒र्ध्व ऊ॒ षु ण᳚ ऊ॒तये॒ तिष्ठा᳚ दे॒वो न स᳚वि॒ता ।
ऊ॒र्ध्वो वाज᳚स्य॒ सनि᳚ता॒ यद॒ञ्जिभि᳚र्वा॒घद्भि᳚र्वि॒ह्वया᳚महे ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ऊं॒ इति᳚ । सु । नः॒ । ऊ॒तये᳚ । तिष्ठ᳚ । दे॒वः । न । स॒वि॒ता ।
ऊ॒र्ध्वः । वाज᳚स्य । सनि᳚ता । यत् । अ॒ञ्जि॑भिः᳚ । वा॒घत्॑भिः᳚ । वि॒॑ह्वया᳚महे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यूपोच्छ्रयण ऊर्ध्व ऊ षु ण ऊतय इति द्वे । पशाविष्टिरिति खंडे सूत्रितम् । ऊर्ध्व ऊ षु ण ऊतय इति द्वे (आ ३-१) इति ॥ एते एवाभिष्टवेऽपि विनियुक्ते । अथोत्तर मिति खंडे सूत्रितम् । सखे सखायमभ्या ववृत्स्वोर्ध्व ऊषु ण ऊतय इति द्वे (आ ४-७) इति ॥

हे यूप यद्वा यूपात्मकदारुनिष्ठाग्ने नोऽस्माकमूतये रक्षणायोर्ध्व उन्नतस्तिष्ठ । तत्र दृष्टांतः । सविता देवो न । यथा सूर्यो देव उन्नतस्तिष्ठति तद्वत् । ऊर्ध्व उन्नतस्सन् वाजस्यान्नस्य सनिता दाता भविष्यसि । यद्यस्मात्कारणादंजिभिराज्येन यूपमंजद्भिर्वाघद्भिर्यज्ञं महद्भिर्ऋत्विग्भिः सह विह्वयामहे अन्नदानाय त्वां विशेषेणाह्वयामः । तस्मादन्नस्य दाता भवेति पूर्वत्रान्वयः ॥ ऊषु णः । इकः सुञॆ (पा ६-३-१३४) इ ति संहितायां दीर्घः । सुञः (पा ८-३-१०७) इति षत्वम् । नश्च धातुस्थोरुषुभ्यः (पा ८-४-२७) इति णत्वम् । ऊतये । अवतेः क्तिनि ज्वरत्वरेत्यादिना ऊट् ऊतियूतीत्यादिना क्तिन्नुदात्तत्वम् । तिष्ठ । तिष्ठ । शपि पाघ्रेत्यादिना तिष्ठादेशः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । वाजस्य । क्रियाग्रहणं कर्तव्यम् । पा १-४-३२-१ । इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । सनिता । षणु दाने । लुटि तासिः । वलादिलक्षण इट् (पा ७-२-३५) तिपो डादेशः (पा २-४-८५) टलोपः । उदात्तनिवृत्तिस्वरेण तिबादेशस्योदात्तत्वे प्राप्ते तास्यनुदात्तेदिति तस्यानुदात्तत्वम् । धातुस्वरः । न लुट् (पा ८-१-२९) इति निघातप्रतिषेधः । अंजिभिः । अन्जू व्यक्तिम्रक्षणगतिषु । खनिकष्यंजीत्यादिना (उ ४-१३९) इप्रत्ययः । विह्वयावहे । निसमुपविभ्यो ह्वः (पा १-३-३०) इत्यकर्त्रभिप्रायेऽप्यात्मनेपदम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ १३ ॥

1.36.14
ऊ॒र्ध्वो नः᳚ पा॒ह्यंह᳚सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं᳚ दह ।
कृ॒धी न᳚ ऊ॒र्ध्वाञ्च॒रथा᳚य जी॒वसे᳚ वि॒दा दे॒वेषु᳚ नो॒ दुवः᳚ ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । नः॒ । पा॒हि॒ । अंह᳚सः । नि । के॒तुना᳚ । विश्व᳚म् । सम् । अ॒त्रिण᳚म् । द॒ह॒ ।
कृ॒धि । नः॒ । ऊ॒र्ध्वान् । च॒रथा᳚य । जी॒वसे᳚ । वि॒दाः । दे॒वेषु᳚ । नः॒ । दुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यूप यद्वा तन्निष्ठाग्ने ऊर्ध्व उन्नतः सन् नोऽस्मान्केतुना ज्ञानेनांहसः पापान्नि पाहि । नितरां पालय । विश्वमत्रिणं सर्वमत्तारं भक्षकं राक्षसं सं दह । सम्यग्भस्मीकुरु । नोऽस्मानूर्ध्वानुन्नतान्कृधि । कुरु । किमर्थम् । चरथाय लोके चरणाय जीवसे जीवनाय च नोऽस्माकं दुवो धनं हविःस्वरूपं देवेषु विदाः । लंभय ॥ अत्रिणम् । अद भक्षणे । अदेस्त्रिनि च (उ ४-६८) इत्यौणादिकस्त्रिनिप्रत्ययः । यद्वा । अदतस्त्रायंत इत्यत्राः । आतोऽनुपसर्गे क इति कः । अतो मत्वर्थीय इनिः । कृधि । श्रु शृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । अन्येषामपि दृश्यत इति संहितायां दीर्घः । ऊर्ध्वान् । उभयथर्क्षु (पा ८-३-८) इति विकल्पविधानान्नश्छव्यप्रशान् (पा ८-३-६) इति नकारस्य रुत्वाभावः । चरथाय । चरेरौणादिको भावेऽथप्रत्ययः । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः । विदाः विद्लृ लाभे । अस्मादंतर्भावितण्यर्थालेट सिपि लेटोऽडाटावित्याडागमः । तुदादित्वाच्छः । शे मुचादीनामिति नुम् न भवति । आनित्यमागमशासनमिति वचनेन तस्यानित्यत्वात् । इतश्च लोप इतीकारलोपः । आगमानुदात्तत्वे विकरणस्वरः ॥ १४ ॥

1.36.15 समानपद
पा॒हि नो᳚ अग्ने र॒क्षसः᳚ पा॒हि धू॒र्तेररा᳚व्णः ।
पा॒हि रीष᳚त उ॒त वा॒ जिघां᳚सतो॒ बृह᳚द्भानो॒ यवि᳚ष्ठ्य ॥
▶ पदपाठः (Word-by-word)
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः᳚ । पा॒हि । धू॒र्तेः । अरा᳚व्णः ।
पा॒हि । रिष᳚तः । उ॒त । वा॒ । जिघां᳚सतः । बृह᳚द्भानो॒ इति॒ बृह᳚त्॑भानो । यवि᳚ष्ठ्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने हे बृहद्भानो बृहंतो भानवो यस्य तादृश हे यविष्ठ्य युवत्तम हे अग्ने नोऽस्मान्रक्षसो बाधकाद्राक्षसादेः पाहि । पालय । तथा अराव्णो धनादीनामदातृरूपाद्धूर्तेर्हिंसकात्बाहि । तथा रिषतो हिंसकाद्व्याघ्रादेः सकाशात्पाहि । उत वा अथवा जिघांसतो हंतुमिच्छतः शत्रोः सकाशात्पाहि ॥ धूर्तेः । धुर्वी हिंसार्थः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तिच् । तित्रुतेत्यादिनेट् प्रतिषेधः । राल्लोपः (पा ६-४-२१) इति वकारलोपः । हलि चेति दीर्घत्वम् । अरावः । रा दाने । आतो मनिन्नित्यादिना वनिप् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । पंचम्येकवचनेऽल्लोपोऽन इत्यनोऽकारस्य लोपः । रिषतः । रिष हिंसायाम् । लटः शतृ । बहुलं छंदसीति शपो लुक् । प्रत्ययस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । जिघांसतः । हंतेरिच्छार्थे सन्यज्झनगमां सनि (पा ६-४-१६) इत्युपधादीर्घत्वम् । अभ्यासाच्च (पा ७-३-५५) इत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । सन्यत इतीत्वम् । अदुपदेशाल्लसार्वधातुकानुदातत्वे सनो नित्त्वान्नित्स्वरेण पदस्याद्युदात्तत्वम् । बृहद्भानो । आमंत्रितस्य चेति षाष्ठिकमाद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यविष्ठ्य । स्धूलदूरेत्यादिना यणादिपरस्य लोपः । पूर्वस्य च गुणः । यकारोपजनश्छांदसः ॥ १० ॥ १५ ॥

1.36.16
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा᳚व्ण॒स्तपु᳚र्जम्भ॒ यो अ᳚स्म॒ध्रुक् ।
यो मर्त्य॒ः शिशी᳚ते॒ अत्य॒क्तुभि॒र्मा न॒ः स रि॒पुरी᳚शत ॥
▶ पदपाठः (Word-by-word)
घ॒ना॑इ᳚व । विष्व᳚क् । वि । ज॒हि॒ । अरा᳚व्णः । तपुः᳚॑जम्भ । यः । अ॒स्म॒॑ध्रुक् ।
यः । मर्त्यः᳚ । शिशी᳚ते । अति᳚ । अ॒क्तु॑भिः᳚ । मा । नः॒ । सः । रि॒पुः । ई॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तपुर्जंभ तप्यमानरश्मियुक्ताग्ने अराव्णोऽस्मभ्यं देयस्य धनस्यादातृन्वैरिणो विष्वक् सर्वतो वि जहि । विशेषेण मारय । तत्र दृष्टांतः । घनेव । यथा कठिनेन दंडपाषाणादिना भांडादिभंगं करोति तद्वत् । योऽन्योऽपि रिपुरस्मध्रुक् अस्मद्विषयद्रोहकारी भर्त्सनादिना बाधते । यश्चान्यो मर्त्यो मनुष्यः शत्रुरक्तुभिरायुधैरति शिशीते तनूकरोति । अस्मान्प्रहरतीत्यर्थः । स रिपुर्भर्त्सनप्रहारकारी द्विविधोऽपि शत्रुर्नोऽस्मान्प्रति मेशत । ईश्वरः शक्तो मा भूत् ॥ घनाऽइव । सुपां सुलुगिति तृतीयाया डादेशः । जहि । हंतेर्लोट हौ हंतेर्जः (पा ६-४-३६) इति जादेशः । तस्यासिद्धत्वाद्धेर्लुगभावः । तपुर्जंभ । तप संतापे । औणादिकः करण उसिन्प्रत्ययांतस्तपुस् शब्दो नित्त्वादाद्युदात्तः । जभिनाशने । जंभ्यंते शत्रव एभिरिति जंभान्यायुधानि । करणे घञ् । तपूंष्येव जंभानि यस्यासौ तपुर्जंभः । आमंत्रिताद्युदात्तत्वम् । अस्मध्रुक् । द्रुहि जिघाम् । सायाम् । सत्सूद्विषेत्यादिना क्विप् । वा द्रुहमुहष्णुहष्णिहाम् (पा ८-२-३३) इति हकारस्य घत्वम् । भष्भावः । शिशीते । शो तनूकरणे । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । ततो द्विर्वचने बहुलं छंदसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । ई हल्यघोरितीत्वम् । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । ईशत । लङि बहुलं छंदसीति शपो लुगभावः । न माङ्योग इत्यडागमाभावः ॥ १६ ॥

1.36.17
अ॒ग्निर्व᳚व्ने सु॒वीर्य᳚म॒ग्निः कण्वा᳚य॒ सौभ᳚गम् ।
अ॒ग्निः प्राव᳚न्मि॒त्रोत मेध्या᳚तिथिम॒ग्निः सा॒ता उ᳚पस्तु॒तम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । व॒व्ने॒ । सु॒॑वीर्य᳚म् । अ॒ग्निः । कण्वा᳚य । सौभ᳚गम् ।
अ॒ग्निः । प्र । आ॒व॒त् । मि॒त्रा । उ॒त । मेध्य᳚॑अतिथिम् । अ॒ग्निः । सा॒तौ । उ॒प॒॑स्तु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्देवः सुवीर्यं शोभनवीर्योपेतं धनमुद्दिश्य वव्ने । याचितः । सोऽग्निः कण्वाय महर्षये सौभाग्यं शोभनधनादिदिरूपं भाग्यं प्रायच्छदिति शेषः । तथाग्निर्मित्रास्मन्मित्राणि प्रावत् । प्रकर्षेण रक्षितवान् । उतापि च मेध्यातिथिं मेधयोग्यैरतिथिभिरुपेतमृषिं प्रावत् । तथोपस्तुतमन्यमपि स्तोतारं यजमानं सातौ धनादिदाननिमित्तं प्रावदिति शेषः ॥ वव्ने । वनु याचने । कर्माणि लिट् । न शसददवादिगुणानाम् (पा ६-४-१२६) इत्येत्वाभ्यासलोपयोः प्रतिषेधः । उपधालोपश्छांदसः । सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठात्तस्य भाव इत्येतस्मिन्नर्थेऽञ् (पा ५-१-१२९) ञित्त्वादाद्युदात्तत्वम् । मित्रा । शेश्छंदसि बहुलमिति शेर्लोपः । उपस्तुतम् । क्तिच् क्तौ च संज्ञायामिति स्तौतेः कर्तरि क्तः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १७ ॥

1.36.18
अ॒ग्निना᳚ तु॒र्वशं॒ यदुं᳚ परा॒वत᳚ उ॒ग्रादे᳚वं हवामहे ।
अ॒ग्निर्न᳚य॒न्नव᳚वास्त्वं बृ॒हद्र᳚थं तु॒र्वीतिं॒ दस्य᳚वे॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निना᳚ । तु॒र्वश᳚म् । यदु᳚म् । प॒रा॒॑वतः᳚ । उ॒ग्र॑दे᳚वम् । ह॒वा॒म॒हे॒ ।
अ॒ग्निः । न॒य॒त् । नव᳚॑वास्त्वम् । बृ॒हत्॑र᳚थम् । तु॒र्वीति᳚म् । दस्य᳚वे । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निना सहावस्थितान् तुर्वशनामकं यदुनामकमुग्रदेवनामकं च राजर्षीन्परावतो दूरादेशाद्धवामहे । आह्वयामः । स चाग्निर्नववास्तुनामकं बृहद्रथनामकं तुर्वीतिनामकं च राजर्षीन्नयत् । इहानयतु । कीदृशोऽग्निः । दस्यवे सहः अस्मदुपद्रवहेतोश्चोरस्याभिभविता ॥ नयत् । णीञ् प्रापणे । लेट्यडागमॆः । इतश्च लोप इतीकारलोपः । नववास्त्वम् । नवं वास्तु यस्यासौ नववास्तुः । वा छंदसीत्यनुवृत्तेरमि पूर्वत्वाभावे यणादेशः । बृहद्रथम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १८ ॥

1.36.19
नि त्वाम᳚ग्ने॒ मनु᳚र्दधे॒ ज्योति॒र्जना᳚य॒ शश्व᳚ते ।
दी॒देथ॒ कण्व᳚ ऋ॒तजा᳚त उक्षि॒तो यं न᳚म॒स्यन्ति᳚ कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
नि । त्वाम् । अ॒ग्ने॒ । मनुः᳚ । द॒धे॒ । ज्योतिः᳚ । जना᳚य । शश्व᳚ते ।
दी॒देथ᳚ । कण्वे᳚ । ऋ॒त॑जा᳚तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति᳚ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ज्योतिः प्रकाशरूपं त्वां शश्वते बहुविधाय जनाय मनुः प्रजापतिर्नि दधे । देवयजनदेशे स्थापितवान् । हे अग्ने त्वमृतजात ऋतेन यज्ञेन निमित्तभूतेन्नोत्पन्न उक्षितो हविर्भिस्तर्पितः सन् कण्व एतन्नामके महर्षौ दीदेथ । दीप्तवानसि । यमग्निं कृष्टयो मनुष्याः । कृष्वयश्चर्षणय इति मनुष्यनामसु पठितत्वात् । नमस्यंति नमस्कुर्वंति । स त्वमिति पूर्वत्रान्वयः ॥ दीदेथ । दीदेतिश्छांदसो दीप्तिकर्मा । थलि द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । अनित्यमागमशासनमिति वचनादिडिभावः । लित्सर्वेण प्रत्ययात्पूर्वस्योदात्तत्वम् । ऋतजातः । ऋते जन्यत इत्यृतजातः । श्वीदितो निष्ठायामितीट् प्रतिषेधः । जनसनेत्यादिनात्वम् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् । नमस्यंति । नमोवरिवः (पा ३-१-१९) इति पूङार्थे क्यच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे क्यजंतधातुस्वरः । कृष्टयः । कृष विलेखने । क्तिच् क्तौ च संज्ञायामिति क्तिच् ॥ १९ ॥

1.36.20
त्वे॒षासो᳚ अ॒ग्नेरम᳚वन्तो अ॒र्चयो᳚ भी॒मासो॒ न प्रती᳚तये ।
र॒क्ष॒स्विन॒ः सद॒मिद्या᳚तु॒माव᳚तो॒ विश्वं॒ सम॒त्रिणं᳚ दह ॥
▶ पदपाठः (Word-by-word)
त्वे॒षासः᳚ । अ॒ग्नेः । अम᳚॑वन्तः । अ॒र्चयः᳚ । भी॒मासः᳚ । न । प्रति᳚॑इतये ।
र॒क्ष॒स्विनः᳚ । सद᳚म् । इत् । या॒तु॒॑माव᳚तः । विश्व᳚म् । सम् । अ॒त्रिण᳚म् । द॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नेरर्चयो ज्वालास्त्वेषासो दीप्ता अमवंतो बलवंतो भीमासो भयंकराः । अतः प्रतीतयेऽस्माभिः प्रत्येतुं न शक्या इति शेषम् । हे अग्ने रक्षस्विनो बलवतो यातुमावतो यातुधानानसुरान् सदमित् सर्वदैव सं दह । सम्यग्भस्मीकुरु । तथा विश्वं सर्वमत्रिणं भक्षकमस्मद्बाधकं शत्रुं सं दह ॥ त्वेषासः । त्विष दीप्तौ । पचाद्यच् । चित इत्यंतोदात्तत्वम् । अमवंतः । अम रोगे । अमति शत्रून्रूजतीत्यमो बलम् । पचाद्यच् । वृषादित्त्वादाद्युदात्तत्वम् । तदेषामस्तीत्यमवंतः प्रतीतये । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । रक्षस्विनः । रक्षंत्यनेनेति रक्षो बलम् । करणेऽसुन् । अस्मायामेधेति मत्वर्थीयो विनिः । यातुमावतः । यातवो यातनाः तान्मिमते निर्मिमत इति राक्षसव्यापारा यातुमाः । आतोऽनुप सर्गे क इति कः । तदेषामस्तीति मतुप् । मतौ बह्वचोऽनजिरादीनाम् (पा ६-३-११९) इति दीर्घत्वम् । संज्ञायाम् (पा ८-२-११) इति वत्वम् । मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्रिणम् । अदेस्त्रिनि चेति कर्तरि त्रिनिप्रत्ययः ॥ ११ ॥ २० ॥