वि धू॒मम᳚ग्ने अरु॒षं मि᳚येध्य सृ॒ज प्र᳚शस्त दर्श॒तम् ॥
पदपाठः (Word-by-word)
वि । धू॒मम् । अ॒ग्ने॒ । अ॒रु॒षम् । मि॒ये॒ध्य॒ । सृ॒ज । प्र॒॑श॒स्त॒ । द॒र्श॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
प्रवर्ग्ये महावीरे खरे संसाद्यमाने स सीदस्व महा असीत्येषा । स्पृष्ट्वोदकमिति खंडे सं सीदस्व महा असीति संसाद्यमाने (आ ४-६) इति ॥
हे अग्ने सं सीदस्व । बर्हिष्युपविश । महानसि । गुणाधिको भवसि । देववीतमोऽतिशयेन देवान्कामयमानः शोचस्व । दीप्यस्व । हे मियेध्य मेधार्ह प्रशस्त उत्कृष्टाग्ने अरुषं गमनशीलं दर्शतं दर्शनीयं धूमं वि सृज । विशेषण संपादय ॥ सीदस्व । षद्लृ विशरणगत्यवसादनेषु । व्यत्ययेनात्मनेपदम् । प्रार्थनायां लोट शपि पाघ्रेत्यादिना सीदादेशाः । महान् । संहितायां नकारा कारयोः रुत्वानुनासिकावुक्तौ । शोचस्व । शुच दीप्तौ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङः परत्वान्निघाताभावः । देवेवितमः । वी गतिप्रजनकांत्यशनखादनेषु । देवान्वेति गच्छतीति देववीः । क्विप्चेति क्विप् । अतिशयेन देववीर्देववीतमः । तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अरुषम् । आरोषणम् । रिष रुष हिंसायाम् । घञर्थे कविधानमिति भावे कप्रत्ययः । नास्ति रुषोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मीयेध्य । छंदसि चेत्यर्हार्थे यप्रत्ययः । मकारात्पर इयागमश्छांदसः । सृज । सृज विसर्गे । तुदादित्वाच्छः । विकरणस्वरः । पादादित्वादनिघातः । दर्शतम् । भृमृदृशीत्यादिना दृशेः कर्मण्यतच् प्रत्ययः ॥ ९ ॥