स॒हस्र᳚केतुं व॒निनं᳚ श॒तद्व᳚सुं श्रुष्टी॒वानं᳚ वरिवो॒धाम॒भि प्रयः᳚ ॥
पदपाठः (Word-by-word)
स॒हस्र᳚॑केतुम् । व॒निन᳚म् । श॒तत्॑व᳚सुम् । श्रु॒ष्टी॒॑वान᳚म् । व॒रि॒वः॒॑धाम् । अ॒भि । प्रयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
आ वां रथमिति दशर्चं चतुर्थं सूक्तं दैर्घतमसस्य कक्षीवतं आर्षं जागतमाश्विनम् । तथा चानुक्रांतम् । आ वां रथं दश जागतमिति ॥ प्रातरनुवाकाश्विने क्रतौ जागते छंदसीदं सूक्तमाश्विनशस्त्रे च । तथा च सूत्रितम् । आ वां रथमभूदिवं यो वां परिज्मेति त्रीणि (आ ४-१५) इति ॥
हे अश्विनौ वां युवयो रथं जीवसे जीवनार्थं प्रयो हविर्लक्षणमन्नमभिलक्ष्या हुवे । आह्वयामि । कीदृशम् । पुरुमायं बहुविधाश्चर्यं बहुविधकर्माणं वा मनोजुवं मन इव शीघ्रं गच्छंतं जीराश्वं जववदश्वोपेतं यज्ञियं यज्ञेष्वाह्वातुमर्हं सहस्रकेतुं अनेकध्वजं सहस्रस्य धनस्य केतयितारं ज्ञापयितारं वा वनिनम् । वनमित्युदकनाम । तद्वंतम् । शतद्वसुं शतसंख्याकैर्ध नैर्युक्तं श्रुष्टीवानम् । श्रुष्वीति क्षिप्रनाम । क्षिप्रं संभजमानम् । यद्वा । सुखवंतम् । वरिवोधाम् । वरिव इति धननाम । वरिवसो धनस्य दातारं ॥ पुरुमायम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यज्ञियम् । यज्ञर्त्विग्भ्यां घखञावित्यर्हार्थे घप्रत्ययः । हुवे । ह्वेञो लट बहुलं छंदसीति संप्रसारणम् । लुगित्यनुवृत्तौ बहुलं छंदसीति शपो लुक् । उवङ् । शतद्वसुं शतवसुम् । छांदसस्तकारोपजनः ॥ १ ॥