प्रथमं मण्डलम् - सूक्तम् 48

16 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: उषाः छन्दः: बृहती

सूक्तम् 1.48 - सम्पूर्णम्

1 / 16
ऋक्: 1.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
1.48.1
स॒ह वा॒मेन᳚ न उषो॒ व्यु᳚च्छा दुहितर्दिवः ।
स॒ह द्यु॒म्नेन᳚ बृह॒ता वि᳚भावरि रा॒या दे᳚वि॒ दास्व᳚ती ॥
▶ पदपाठः (Word-by-word)
स॒ह । वा॒मेन᳚ । नः॒ । उ॒षः॒ । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
स॒ह । द्यु॒म्नेन᳚ । बृ॒ह॒ता । वि॒भा॒॑व॒रि॒ । रा॒या । दे॒वि॒ । दास्व᳚ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दुहितर्दिवो द्युदेवतायाः पुत्रि उष उषःकालदेवते नोऽस्मदर्थं वामेन धनेन सह व्युच्छ । प्रभातं कुरु । हे विभावर्युषोदेवते बृहता प्रभूतेन द्युम्नेनान्नेन सहव्युच्छ । हे देवि त्वं दास्वती दानयुक्ता सती राया पशुलक्षणेन धनेन सह व्युच्छ ॥ उच्छ । उभी विवासे । दुहितर्दिवः । सुबामंत्रिते परांगवत्स्वर इत्यत्र परमपि च्छंदसि । पा २-१-२-६ । इति वचनात् दिव इत्यस्य पूर्वांगवद्भावे सत्यामंत्रितस्य चेति षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । बृहता । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । विभावरि । भा दीप्तौ । आतो मनिन्नित्यादिना वनिप् । वनो र चेति ङीप् । तत्संनियोगेन नकारस्य रेफादेशः । संबुद्धौ ह्रस्वत्वम् । दास्वती डुदाञ् दाने । भावेऽसुन्प्रत्ययः । तदस्यास्ति (पा ५-२-१४) इति दास्वती । मादुपधाया इति मतुपो वत्वम् । उगितश्चेति ङीप् ॥ १ ॥

1.48.2
अश्वा᳚वती॒र्गोम᳚तीर्विश्वसु॒विदो॒ भूरि᳚ च्यवन्त॒ वस्त᳚वे ।
उदी᳚रय॒ प्रति᳚ मा सू॒नृता᳚ उष॒श्चोद॒ राधो᳚ म॒घोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वतीः । गो॑म᳚तीः । वि॒श्व॒॑सु॒विदः᳚ । भूरि᳚ । च्य॒व॒न्त॒ । वस्त᳚वे ।
उत् । ई॒र॒य॒ । प्रति᳚ । मा॒ । सू॒नृताः᳚ । उ॒षः॒ । चोद᳚ । राधः᳚ । म॒घोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वावतीर्बह्वश्वोपेता गोमतीर्बहुभिर्गोभिर्युक्ता विश्वसुविदः कृत्स्नस्य धनस्य सुष्ठु लंभयित्र्य उषोदेवता वस्तवे प्रजानां निवासाय भूरि प्रभूतं यथा भवति तथा च्यवंत । प्राप्ताः । हे उषोदेवते मा प्रति मामुद्दिश्य सूनृताः प्रियहितवाच उदीरय । ब्रूहि । मघोनां धनवतां संबंधि राधो धनं चोद । अस्मदर्थं प्रेरय ॥ अश्वावतीः । मंत्रे सोमाश्चेंद्रियविश्वदेव्यस्य मतौ (पा ६-३-१३१) इति पूर्वपदस्य दीर्घत्वम् । वा छंदसीति पूर्वसवर्णदीर्घनिषेधस्य पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । चैवंत । च्युङ् गतौ । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । वस्तवे । वस निवासे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ईरय । ईर गतौ कंपने च । हेतुमति णिच् । चोद । चुद संचोदने चौरादिकः । लोट छंदस्यभयथेति शप आर्धधातुकत्वात् णेरनितीति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वान्निघाताभावः । मघोनाम् । षष्ठीबहुवचने श्वयुवमघोनामतद्धिते (पा ६-४-१३३) इति संप्रसारणं ॥ २ ॥

1.48.3
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा᳚नाम् ।
ये अ᳚स्या आ॒चर᳚णेषु दध्रि॒रे स᳚मु॒द्रे न श्र᳚व॒स्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒वास᳚ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा᳚नाम् ।
ये । अ॒स्याः॒ । आ॒॑चर᳚णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषा देव्युवास । पुरा निवासमकरोत् । प्रभातं कृतवतीत्यर्थः । च नु अद्याप्युच्छात् । व्युच्छति । प्रभातं करोति । कीदृशी देवी । रथानां जीरा प्रेरयित्री । उषःकाले हि रथाः प्रेर्यंते । अस्या उषस आचरणेष्वागमनेषु ये रथाः दध्रिरे धृताः सज्जीकृता भवंति । तेषां रथानामिति पूर्वत्रान्वयः । रथप्रेरणे दृष्टांतः । श्रवस्यवो धनकामाः समुद्रे न । यथा समुद्रमध्ये नावः सज्जीकृत्य प्रेरयंति तद्वत् ॥ उवास । वस निवासे । णलि लिट्यभ्यासस्योभयेषाम् (पा ६-१-१७) इत्यभ्यासस्य संप्रसारणम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । उच्छात् । लेट्याडागमः । इतश्च लोप इतीकारलोपः । तुदादित्वाच्छप्रत्ययः । आगमानुदात्तत्वे प्रत्ययस्वरः । उषा इत्यस्य वाक्यांतरगतत्वात्तदपेक्षयास्य निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा ८-१-१८-५ । इति वचनात् । जीरा । जु इति गत्यर्थः सौत्रो धातोः । जोरी च (उ २-२३) इति रक्प्रत्ययः । अस्याः । इदमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिरपि सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम् । आचरणेषु । चर गत्यर्थः । ल्युट्च (पा ३-३-११५) इति भावे ल्युट् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । दध्रिरे । दृङ् आवस्थाने । लिटः कित्त्वाद्गुणाभावे यणादेशः । चित्त्वादंतोदात्तत्वम् । यच्छब्धयोगादनिघातः । श्रवस्यवः । श्रूयत इति श्रवो धनम् । असुन् । तदात्मन इच्छंतीति श्रवस्यवः । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः ॥ ३ ॥

1.48.4 समानपद
उषो॒ ये ते॒ प्र यामे᳚षु यु॒ञ्जते॒ मनो᳚ दा॒नाय᳚ सू॒रयः᳚ ।
अत्राह॒ तत्कण्व᳚ एषां॒ कण्व᳚तमो॒ नाम᳚ गृणाति नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । ये । ते॒ । प्र । यामे᳚षु । यु॒ञ्जते᳚ । मनः᳚ । दा॒नाय᳚ । सू॒रयः᳚ ।
अत्र᳚ । अह᳚ । तत् । कण्वः᳚ । ए॒षा॒म् । कण्व᳚॑तमः । नाम᳚ । गृ॒णा॒ति॒ । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्ते तव यामेषु गमनेषु सत्सु ये सूरये विद्वांसो दानाभिज्ञादानाय धनादिदानार्थं मनः स्वकीयं प्रयुंजते प्रेरयंति । दानशीला उदाराः प्रभवः प्रातःकाले दातुमिच्छंतीत्यर्थः । एषां दातुमिच्छतां नृणां तन्नाम दानविषये लोकप्रसिद्धं नाम कण्वतमोऽतिशयेन मेधावी कण्वो महर्षिरत्राह अत्रैवोषःकाले गृणाति । उच्चारयति । यो दातुमिच्छति यश्च नामग्रहणेन दातारं प्रशंसति तावुभावप्युषःकाल एव तथा कुरुत इत्युषसः स्तुतिः ॥ गृणाति गृशब्दे । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । नृणाम् । नामि नृ च । पा ६-४-६ इति दीर्घप्रतिषेधः नृ चान्यतरस्याम् (पा ६-१-१८४) इति विभक्तेरुदात्तत्वं ॥ ४ ॥

1.48.5 समानपद
आ घा॒ योषे᳚व सू॒नर्यु॒षा या᳚ति प्रभुञ्ज॒ती ।
ज॒रय᳚न्ती॒ वृज᳚नं प॒द्वदी᳚यत॒ उत्पा᳚तयति प॒क्षिणः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । घ॒ । योषा᳚॑इव । सू॒नरी᳚ । उ॒षाः । या॒ति॒ । प्र॒॑भु॒ञ्ज॒ती ।
ज॒रय᳚न्ती । वृज᳚नम् । प॒त्॑वत् । ई॒य॒ते॒ । उत् । पा॒त॒य॒ति॒ । प॒क्षिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषा देवी प्रभुंजती प्रकर्षेण सर्वं पालयंत्या याति घ । प्रतिदिनमागच्छति खलु । तत्र दृष्टांतः । सूनरी सुष्ठु गृहकृत्यस्य नेत्री योषेव गृहणीव । कीदृश्युषाः । वृजनं गमनशीलं जंगमं प्राणिजातं जरयंती जरां प्रापयंती । असकृदुषस्यावृत्तायां वयोहान्या प्राणिनो जीर्णा भवंति । किंच उषः काले पद्वत् पादयुक्तं प्राणिजातमीयते । निद्रां परित्यज्य स्वस्वकृत्यार्थं गच्छति । किंच इयमुषाः पक्षिण उत्पातयति । पक्षिणो ह्युषःकाले समुत्थाय तत्र तत्र व्रजंति ॥ ऋुचि तुनुघेत्यादिना संहितायां दीर्घः । सुष्ठु नयतीति सूनरी । नृ नये । अच इरितीप्रत्ययः गतिसमासे कृद्ग्रहणे गतिकारकपूर्वस्यापि गृहणम् । परि २८ । इति वचनात्कृदिकारादक्तिनः (पा ४-१-४५) इति ङीष् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । निपातस्य चेति पूर्वपदस्य दीर्घः । प्रभुंजती । भुजपालनाभ्यव हारयोः । लटः शतृ । रुधादित्वाच्छ्नम् । श्नसोरल्लोप इत्यकारलोपः । उगितश्चेतिङीप् । शतुरनुम इति नद्या उदात्तत्वम् । वृजनं वृजी वर्जने । वर्ज्यत इति वृजनं प्राणिजातम् । कृ पृ वृजिमंदिनिधाञ्भ्यः क्युः (उ २-८१) इति क्युप्रत्ययः । कित्त्वाल्लघूपधगुणाभावः । योरनादेशे प्रत्ययस्वरः । पद्वत् । पत् पादः । तदस्यास्तीति पद्वत् । झय इति मतुपो वत्वम् । व्यत्ययेन मतुप उदात्तत्वम् । न च स्वरविधौ व्यंजनमविद्यमानवत् । परि ७९ । इति व्यंजनस्याविद्यमानवत्त्वे सति ह्रस्वनुड् भ्यां मतुभिति मतुप उदात्तत्वमिति वाच्यम् । ह्रस्वादित्येव सिद्धे पुनर्नुड् ग्रहणसामर्थ्याजीषा परिभाषा नाश्रीयत इति वृत्तावुक्तम् । का ६-१-१७६ । इतरथा हि मरुत्वानित्यत्रापि मतुप उदात्तत्वं स्यात् ॥ ३ ॥ ५ ॥

1.48.6
वि या सृ॒जति॒ सम᳚नं॒ व्य१॒᳚र्थिनः᳚ प॒दं न वे॒त्योद᳚ती ।
वयो॒ नकि᳚ष्टे पप्ति॒वांस᳚ आसते॒ व्यु᳚ष्टौ वाजिनीवति ॥
▶ पदपाठः (Word-by-word)
वि । या । सृ॒जति᳚ । सम᳚नम् । वि । अ॒र्थिनः᳚ । प॒दम् । न । वे॒ति॒ । ओद᳚ती ।
वयः᳚ । नकिः᳚ । ते॒ । प॒प्ति॒वांसः᳚ । आ॒स॒ते॒ । वि॑उ᳚ष्टौ । वा॒जि॒नी॒॑व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या देवता समनं समीचीनचेष्टावंतं पुरुषं वि सृजति प्रेरयति । गृहारामादिचेष्टा कुशलान्पुरुषानुषःकालः शयनादुत्थाप्य स्वस्वव्यापारे प्रेरयतीति प्रसिद्धम् । किंच उचा अर्थिनो याचकान्वि सृजति । तेऽपि ह्युषःकाले समुत्थाय स्वकीयदातृगृहे गच्छंति । ओदत्युषोदेवता पदं स्थानं न वेति । न कामयते । उषः कालः शीघ्रं गच्छतीत्यर्थः । हे वाजिनीवत्युषोदेवते ते व्युष्वौ त्वदीये प्रभात काले पप्तिवांसः पतनयुक्ता वयः पक्षिणो नकिरासते । न तिष्ठंति । किंतु स्वस्वनीडाद्विनिर्गत्य गच्छंतीत्यर्थः ॥ सृजति । सृज विसर्गे । तुदादित्वाच्छः । तस्य ङित्त्वाल्लघूपधगुणाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः ओदती । उन्दी क्लेदने । उनत्ति सर्वं नीहारेणेत्योदत्युषाः । शतरि व्यत्ययेन शप् । व्यत्ययेनानुनासिकलोपे लघूपधगुणः । उगितश्चेति ङीप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । शपः पित्त्वादनुदात्तत्वम् । शतुरदुपदेशाल्लसार्वधातुकानुदात्त त्वे धातुस्वरेणाद्युदात्तत्वम् । न च शतुरनुम इति नद्या उदात्तत्वम् । अंतोदात्ताच्छतुः परस्यास्तद्विधानात् । नकिष्टे । युष्मत्तत्ततक्षुः ष्वंतःपादमिति षत्वम् । पप्तिवांसः । पत्लृ गतौ । लिटः क्वसुः । क्रादिनियमात्प्राप्त इट् वस्वेकाजाद्घसामिति नियमान्न प्राप्नोति तत्क्रियते सर्वविधीनां छंदसि विकल्पितत्वात् । कनिपत्योश्छंदसि (पा ६-४-९९) इत्युपधालोपः । द्विर्वचनेचीति स्थानिवद्भावाद्ध्विर्भावः । प्रत्ययस्वरः । वाजिनीवति । वाजोन्नमस्या अस्तीति वाजिनी क्रिया । मत्वर्थीय इनिः । ऋुन्नेभ्य इति ङीप् । तादृशी क्रिया यस्याः सा । तदस्यास्तीति मतुप् । संज्ञायामिति मतुपो वत्वं ॥ ६ ॥

1.48.7
ए॒षायु᳚क्त परा॒वत॒ः सूर्य᳚स्यो॒दय᳚ना॒दधि᳚ ।
श॒तं रथे᳚भिः सु॒भगो॒षा इ॒यं वि या᳚त्य॒भि मानु᳚षान् ॥
▶ पदपाठः (Word-by-word)
ए॒षा । अ॒यु॒क्त॒ । प॒रा॒॑वतः᳚ । सूर्य᳚स्य । उ॒त्॑अय᳚नात् । अधि᳚ ।
श॒तम् । रथे᳚भिः । सु॒॑भगा᳚ । उ॒षाः । इ॒यम् । वि । या॒ति॒ । अ॒भि । मानु᳚षान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषोदेवि शतमयुक्त । स्वकीयानां रथानां शतं योजितवती । सुभगा सौभाग्ययुक्तेयमुषाः परावतो दूरस्थात् सूर्यस्योदयनादधि सूर्योदयस्थानादधिकाद्द्यु लोकान्मानुषानभि मनुष्यानुद्धिश्य रथेभिः शतसंख्याकैर्युक्त्यै रथैर्वि याति । विशेषेण गच्छति ॥ आयुक्त । लुङि झलो झलि (पा ८-२-२६) इति सिचो लोपः । उदयनात् । उदेत्यत्रेत्युदयनम् । इण् गतौ । अधिकरणे ल्युट् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुभगा । शोभनो भगो यस्याः सा आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्त त्वम् । मानुषान् । मनोः पुत्राः मानु षाः । मनोर्जातावञ्यतौ षक् चेत्यञ् षुगागमश्च । ञ्नित्त्वादाद्युदात्तत्वं ॥ ७ ॥

1.48.8
विश्व᳚मस्या नानाम॒ चक्ष᳚से॒ जग॒ज्ज्योति᳚ष्कृणोति सू॒नरी᳚ ।
अप॒ द्वेषो᳚ म॒घोनी᳚ दुहि॒ता दि॒व उ॒षा उ᳚च्छ॒दप॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
विश्व᳚म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष᳚से । जग᳚त् । ज्योतिः᳚ । कृ॒णो॒ति॒ । सू॒नरी᳚ ।
अप᳚ । द्वेषः᳚ । म॒घोनी᳚ । दु॒हि॒ता । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वं सर्वं जगत् जंगमं प्राणिजातमस्या उषसश्चक्षते प्रकाशाय ननाम । प्रह्वीभवति । रात्रौ तमसि निमग्नाः सर्वे जनास्तन्निवारयित्रीमुषसमुपलभ्य नमस्कुर्वंतीत्यर्थः । कुतः । यस्मादेषा सूनरी सुष्ठु नेत्री अभिमतफलस्य प्रापयित्र्युषा ज्योतिष्कृणोति सर्वं प्रकाशयति । किंच मघोनी मघवती धनवती दिवो दुहिता द्युलोकसकाशादुत्पन्नोषा द्वेषो द्वेष्टृनपोच्छत् । अपवर्जयति । तथा स्रिधः शोषयितृनपोच्छत् । अपवर्जयति । तस्मादिष्वप्राप्त्यनिष्टपरिहारहेतुभूतामुषोदेवतां विश्वं जगन्नमस्करोतीत्यर्थः । अस्याः । इतमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम् । ननाम । संहितायामन्येषामपि दृश्यत इत्यभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतजान इत्यादाविव पदकालेऽपि दीर्घ श्रूयते । ज्योतिः । इणः ष इत्यनुवृत्ताविसुसोः सामर्थ्ये (पा ८-३-४४) इति विसर्जनीयस्य षत्वम् । द्वेषः । द्विष अप्रीतौ । अन्येभ्योऽपि दृश्यंत इति विच् । लघूपधगुणः । मघोनी । मघं वनति संभजत इति मघोनी । श्वन्नुक्षन्नित्यादिना मघवञ्शब्दः कनित्प्रत्ययांतो निपातितः । स्त्रियामृन्नेभ्यो ङीबिति ङीप् । भसंज्ञायां श्वयुवमघोनामतद्धित इति संप्रसारणम् । उच्छत् । उभी विवासे । विवासो वर्जनम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ् । बहुलं छंदस्यमाङ्योगेऽपित्यडागमाभावः । स्रिधः । स्रिधु शोषणे । क्विप्चेति क्विप् ॥ ८ ॥

1.48.9
उष॒ आ भा᳚हि भा॒नुना᳚ च॒न्द्रेण᳚ दुहितर्दिवः ।
आ॒वह᳚न्ती॒ भूर्य॒स्मभ्यं॒ सौभ᳚गं व्यु॒च्छन्ती॒ दिवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । आ । भा॒हि॒ । भा॒नुना᳚ । च॒न्द्रेण᳚ । दु॒हि॒तः॒ । दि॒वः॒ ।
आ॒॑वह᳚न्ती । भूरि᳚ । अ॒स्मभ्य᳚म् । सौभ᳚गम् । वि॒॑उ॒च्छन्ती᳚ । दिवि᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दिवो दुहितर्द्युलोकस्य पुत्रि उष उषोदेवते चंद्रेण सर्वेषामाह्लादकेन भानुना प्रकाशेन आ समंताद्भाहि । प्रकाशस्व । किं कुर्वती दिविष्टिषु दिवसेषु भूरि प्रभूतं सौभगं सौभाग्यमस्मभ्यमावहंती संपादयंती । तथा व्युच्छंती तमांसि वर्जयंती ॥ उषः । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । दुहितर्दिवः । परमपि छंदसीति दिव इत्यस्य परस्य षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । आवहंती । ङीप्शपौ पित्त्वादनुदात्तौ । शतुश्चादुपदेशाल्लसार्वधातुकस्वरेणानुदात्तत्वम् । अतो धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । भूरि । प्रभवति न विनश्यतीति भूरि । आदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) इति क्रिन् । नित्त्वादाद्युदात्तत्वम् । सुभगस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठादञ्प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धौ प्राप्तायां सर्वे विधयश्छंदसि विकल्प्यंत इति वचनादत्रोत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् । का ७-३-१९ । व्युच्छंती । उभी विवासे । विवासो वर्जनम् । तौदादिकः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । दिविष्टिषु । दिव्शब्देन दिविष्ठ आदित्यो लक्ष्यते । तस्येष्टय एषणानि गमनानि येषु दिवसेषु ते दिविष्टयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥

1.48.10
विश्व᳚स्य॒ हि प्राण᳚नं॒ जीव᳚नं॒ त्वे वि यदु॒च्छसि᳚ सूनरि ।
सा नो॒ रथे᳚न बृह॒ता वि᳚भावरि श्रु॒धि चि᳚त्रामघे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । हि । प्राण᳚नम् । जीव᳚नम् । त्वे इति᳚ । वि । यत् । उ॒च्छसि᳚ । सू॒न॒रि॒ ।
सा । नः॒ । रथे᳚न । बृ॒ह॒ता । वि॒भा॒॑व॒रि॒ । श्रु॒धि । चि॒त्र॒॑म॒घे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूनरी उषोदेवि विश्वस्य सर्वस्य प्राणिजातस्य प्राणनं चेष्टनं जीवनं प्राणधारणं च त्वे हि त्वय्येव वर्तते यद्य स्मात्त्वं व्युच्दसि तमो वर्जयसि । हे विभावरि विशिष्टप्रकाशयुक्ते सा तादृशी त्वं नोऽस्मानति बृहता पौढेन रथेनयाहीत शेषः । तथा हे चित्रामघे विचित्रधनयुक्त उषोदेवि नोऽस्मदीयं पवमाह्वानं श्रुधि । शृणु ॥ पापनम् । अन चेष्टायाम् । ल्युट्चेति भावे ल्युट् योरनादेशः । समासेऽनितेः (पा ८-४-१९) इत्युपसर्गस्थाद्रकरान्निमित्तादुत्तरस्य नकारस्य णत्वम् । नन्वनितॆरिशीटा निर्देशात्कथमन चेष्टायामित्यस्य णत्वम् । तर्हि जीवनस्य पृथगुपादानात्तेनैव धातुना चेष्टा लक्ष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वं संहितायामेकादेशस्वरेणैकादेशस्योदात्तत्वम् । त्वे । सुपां सुलुगिति सप्तम्याः शेआदेशः उच्छसि । उछी निवासे । तौदादिकः । सिपः पित्त्वादनुदात्तत्वे विकरणस्वकं निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । सूनरि । सुष्ठु नयतीति सूनरी । नृ नय इत्यस्मादच इरित्यौणादिक इप्रत्ययः । गतिसमासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् कृदिकारादक्तिन इति ङीष् । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वे प्राप्त आमंत्रितस्य चेत्याष्वमिको निघातः । विभावरि । विशिष्वा भा यस्याः सा । छंदसीवनिपौ । पा ५-२-१०९-२ । इति मत्वर्थि यो वनिप् । वनो र चेति ङीप् तत्संनियेगेन नकारस्य रेफादेशत्व । श्रुधि । श्रुशृणुपृकृवृभ्यश्चंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । हेरपित्त्वेव प्रत्ययस्वरेणांतोदात्तत्वम् । पादादित्वान्निघाताभावः । मघमिति धननाम । चित्रं मघं यस्याः सा चित्रमघा । अन्येषामपि दृश्यत इति संहितायां पूर्वपदस्य दीर्घत्वम् । हवम् । ह्वेञ् स्पर्धायां शब्दे च । भावेऽनुपसर्गस्येत्यप्प्रत्ययः । तत्संनियोगेन संप्रसारणं च ॥ ४ ॥ १० ॥

1.48.11
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु᳚षे॒ जने᳚ ।
तेना व᳚ह सु॒कृतो᳚ अध्व॒रा{4} उप॒ ये त्वा᳚ गृ॒णन्ति॒ वह्न᳚यः ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । वाज᳚म् । हि । वंस्व᳚ । यः । चि॒त्रः । मानु᳚षे । जने᳚ ।
तेन᳚ । आ । व॒ह॒ । सु॒॑कृतः᳚ । अ॒ध्व॒रान् । उप᳚ । ये । त्वा॒ । गृ॒णन्ति᳚ । वह्न᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो वाजं हविर्लक्षणमन्नं हि श्रुतिषु प्रसिद्धं वंस्व । याचस्व । स्वीकुर्वित्यर्थः । यो वाजश्चित्रश्चायनीयो मानुषे मनुष्ये जने जाते यजमाने वर्तते । तं वाजमिति पूर्वत्रान्वयः । तेन कारणेन सुकृतः सुष्ठु कृतवतो यजमानानध्वरान् । हिंसारहितान् यागानुपा वह । प्रापय । ये यजमाना वह्नयो यज्ञनिर्वाहकास्त्वा त्वां गृणंति स्तुवंति । तान् सुकृत इति पूर्वेण संबंधः । एतदुक्तं भवति । यजमानैः प्रत्तं हविः स्वीकृत्य पुनरपि तेषां यज्ञं संपादयेति ॥ वाजम् । वज व्रज गतौ । कर्मणि घञ् । अजिव्रज्योश्च (पा ७-३-६०) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाजो वाज्यमित्यत्रापि कुत्वाभाव इति वृत्ता वुक्तत्वात्कुत्वाभावः । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादित्वादाद्युदात्तत्वम् । वंस्व । वनु याचने । अत्र याचनवाचिना धातुना तदुत्तरभावी स्वीकारो लक्ष्यते । बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । हि चेति निघातप्रतिषेधः । सुकृतः । सुकर्मपापेत्यादिना करोतेर्भूतार्थे क्विप् । शुगागमः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अध्वरान् । ध्वरो हिंसा नास्त्यस्मिन्नति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अध्वरानित्यस्येप्सिततमत्वात्कर्तुरीप्सिततमम् (पा १-४-४९) इति कर्मसंज्ञा । सुकृत इत्यस्य त्वकथितं च (पा १-४-५१) इति नीवह्योर्हरतेश्च (म १-४-५१) इति द्विकर्मकेषु वहतेः परिगणितत्वात् । अध्वरानित्यत्र नकारस्य संहितायां दीर्घादटीति रुत्वम् । आतोऽट नित्यमिति पूर्वस्याकारस्य सानुनासिकता । गृणंति । गृ शब्दे । क्र्यादिभ्यः श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । श्नाभ्यस्तयोरात इत्याकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ ११ ॥

1.48.12
विश्वा᳚न्दे॒वा{4} आ व᳚ह॒ सोम᳚पीतये॒॑न्तरि᳚क्षादुष॒स्त्वम् ।
सास्मासु᳚ धा॒ गोम॒दश्वा᳚वदु॒क्थ्य१॒᳚मुषो॒ वाजं᳚ सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚न् । दे॒वान् । आ । व॒ह॒ । सोम᳚॑पीतये । अ॒न्तरि᳚क्षात् । उ॒षः॒ । त्वम् ।
सा । अ॒स्मासु᳚ । धाः॒ । गो॑म᳚त् । अश्व᳚॑वत् । उ॒क्थ्य᳚म् । उषः᳚ । वाज᳚म् । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्त्वं सोमपीतये सोमपानायांतरिक्षादंतरिक्षलोकाद्विश्वान्सर्वान्देवाना वह । अस्मदीयं देवयजनदेशं प्रापय । हे उषः सा तादृशी त्वं गोमत् गोमंतं बहुभिर्गोभिर्युक्तमश्वावदश्वैरुपेतमुक्थ्यं प्रशस्यं सुवीर्यं शोभनवीर्योपेतं वाजमन्नमस्मासु धाः । निधेहि । स्थापयेत्यर्थः । धाः । दधातेश्चंदसि लुङ् लङ् लिटि इति प्रार्थनायां लुङ् । गातिस्थेति सिचो लुक् । बहुलुं छंदस्यमाङ्योगेऽपीत्यडभावः । गोमत् । अश्वावत् । मंत्रे सोमाश्वेंद्रियेति मतुपि दीर्घत्वम् । उभयत्र सुपां सुलुगिति विभक्तेर्लुक् । उक्थ्यम् । उक्थं स्तोत्रम् । तत्र भवमुक्थ्यम् । भवे छंदसीति यत् । सर्वे विधयश्चंदसि विकल्प्यंत इति यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितमिति स्वरितत्वम् । उषः । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्निघाताभावः । सुवीर्यम् । शोभनं वीर्यं यस्य । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं ॥ १२ ॥

1.48.13
यस्या॒ रुश᳚न्तो अ॒र्चय॒ः प्रति᳚ भ॒द्रा अदृ᳚क्षत ।
सा नो᳚ र॒यिं वि॒श्ववा᳚रं सु॒पेश᳚समु॒षा द᳚दातु॒ सुग्म्य᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्याः᳚ । रुश᳚न्तः । अ॒र्चयः᳚ । प्रति᳚ । भ॒द्राः । अदृ᳚क्षत ।
सा । नः॒ । र॒यिम् । वि॒श्व॑वा᳚रम् । सु॒॑पेश᳚सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्या उषसोऽर्चयः प्रकाशा रुशंतः शत्रून्हिंसंतो भद्राः कल्याणाः प्रत्यदृक्षत प्रतिदृश्यंते सा तथाभूतोषा नोऽस्मभ्यं रयिं ददातु । कीदृशं रयिम् । विश्ववारं विश्वस्य वारकम् । यद्वा । विश्वैर्वरणीयम् । सुपेशसं पेश इति रूपनाम । शोभनरूपोपेतं सुग्म्यं सुष्ठु गंतव्यम् । यद्वा । सुग्म्यमिति सुखनाम । तद्धेतुत्वात्ताच्छब्द्यं ॥ रुशंतः । रुश रिश हिंसायाम् । शतरि तुदादित्वाच्छः अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सति शिष्टत्वाद्विकरणस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अदृक्षत । दृशेः कर्मणि लुजि झस्यादादेशः च्लेः सिच् । न दृशः (पा ३-१-४७) इति क्सप्रतिषेधः । एकाच इतीट् प्रतिषेधः । लिङ् सिचावात्मनेपदेषु (पा १-२-११) इति सिचः कित्त्वाल्लघूपधगुणाभावः । सृजिदृशोर्झल्यमकिति (पा ६-१-५८) इत्यमागमाभावश्च कित्त्वादेव । षत्वकत्वषत्वानि । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । विश्ववारम् । विश्वं वृणोतीति विश्ववारः । वृञ् वरणे कर्मण्यण् । यद्वा विश्वैर्व्रियत इति विश्ववारः । कर्मणि घञ् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । सुग्म्यं सुष्ठु गंतव्यः सुग्मः । गमेर्घञिर्थे कविधानमिति कप्रत्ययः । गमहनेत्यादिनोपधालोपः । तत्र भवं सुग्म्यम् । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वं ॥ १३ ॥

1.48.14
ये चि॒द्धि त्वामृष᳚य॒ः पूर्व᳚ ऊ॒तये᳚ जुहू॒रे॑व᳚से महि ।
सा न॒ः स्तोमा{4}᳚ अ॒भि गृ᳚णीहि॒ राध॒सोषः᳚ शु॒क्रेण᳚ शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
ये । चि॒त् । हि । त्वाम् । ऋष᳚यः । पूर्वे᳚ । ऊ॒तये᳚ । जु॒हू॒रे । अव᳚से । म॒हि॒ ।
सा । नः॒ । स्तोमा᳚न् । अ॒भि । गृ॒णी॒हि॒ । राध᳚सा । उषः᳚ । शु॒क्रेण᳚ । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महि महिते पूजनीये वोषोदेवते त्वां ये चिद्धि ये खलु प्रसिद्धाः पूर्वे चिरंतना ऋषयो मंत्रद्रष्टार ऊतये रक्षणाय । अव इत्यन्ननाम । अवसेऽन्नाय च जुहूरे जुह्विरे आहूतवंतः । सूक्तरूपैर्मंत्रैः स्तुतवंत इत्यर्थः । हे उषः सा तादृशी त्वं राधसास्माभिर्दत्तेन हविर्लक्षणेन धनेन शुक्रेण शोचिषा दीप्तेन तमो निवारयितुं समर्थेन तेजसा चोपलक्षिता सती तेषामृषीणामिव नोऽस्माकं स्तोमानभि स्तुतीरभिलक्ष्य गृणीहि । सम्यक् स्तुतमिति शब्दय । अस्मदीयाभिः स्तुतिभिः संतुष्टा भवेत्यर्थः ॥ ऊतये । अवतेः क्तिनि ज्वरत्वरेत्यादिना वकारस्योपधायाश्चोट् । ऊतियूतीत्यादिना क्तिन्नुदात्तं निपाशितः । जुहूरे । ह्वेञ् स्पर्धायां शब्दे च । लिड्यभ्यस्तस्य चेति द्विर्वचनात्वूर्वमेवाभ्यस्तकारणभूतस्य ह्वयतेः संप्रसारणम् । अभ्यस्तस्य यो ह्वयतिः कश्चाभ्यस्तस्य ह्वयतिः यस्तस्य कारणम् । का ६-१-३३ । इति व्याख्यातत्वात् । परपूर्वत्वे हल इति दीर्घत्वम् । द्विर्वचनादीनि । इरयो र इतीरेचो रे आदेशः । चित इत्यंतोदात्तत्वम् । यद्वृत्तयोगादनिघातः । तत्र हि पंचमी निर्देशेऽपि व्यवहितेऽपि कार्यं भवतीत्युक्तम् । का ८-११-६६ । महि । मह पूजायाम् । औणादिक इ प्रत्ययः । कृदिकारादक्तिन इति ङीष् । संबुद्धावंबार्थेति ह्रस्वत्वम् (पा ७-३-१०७) स्तोमान् । संहितायां नकारस्य रुत्वाद्युक्तम् । नित्त्वादाद्युदात्तत्वम् । गृणीहि । गृ शब्दे । क्रैयादिकः । शिशि प्वादीनां ह्रस्व इति ह्रस्वत्वम् । राधसा । राध्नोत्यनेनेति राधः । असुनो नित्त्वादाद्युदात्तत्वम् । उष पादादित्वादाष्टमिकनिघाताभावे षाष्ठिकमामंत्रिताद्युदात्तत्वं ॥ १४ ॥

1.48.15
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा᳚वृ॒णवो᳚ दि॒वः ।
प्र नो᳚ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे᳚वि॒ गोम᳚ती॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । यत् । अ॒द्य । भा॒नुना᳚ । वि । द्वारौ᳚ । ऋ॒णवः᳚ । दि॒वः ।
प्र । नः॒ । य॒च्छ॒ता॒त् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । प्र । दे॒वि॒ । गो॑म᳚तीः । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्त्वमद्यास्मिन्प्रभाते समये यद्यस्मद्भानुना प्रकाशेन दिवोऽंतरिक्ष स्य द्वारौ द्वारभूतौ पूर्वापरदिग्भागावंधकारेणाच्छादिता व्यृणवः विश्लिष्य प्राप्नोषि तस्मात्त्वं नोऽस्मभ्यं छर्दिस्तेजस्वि गृहं प्रयच्छतात् । देहि कीदृशं छर्दिः । अवृकं हिंसकरहितं पृथु विस्तीर्णम् । अपि च हे देवि देवनशीले गोमतीर्बहुभिर्गोभिर्युक्ता इषोऽन्नानि । प्रेत्युपसर्गस्यावृत्तेर्यच्छतादित्यनुषज्यते । प्रयच्छतात् । देहि । त्वदागमनस्यास्मद्रक्षणार्थत्वादस्मदभीष्टं गृहादिकं प्रयच्छेत्यर्थः । छर्दिरिति गृहनाम । छर्दिश्फदिरिति तन्नामसु पाठात् । ऋणवः । ऋण गतौ । छांदसे लङ सिपि तनादित्वादुप्रत्ययः । ततो व्यत्ययेन शपि गुणावादेशौ । शपः पित्त्वादनुदात्तत्वं उप्रत्ययस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । दिवः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । प्र नः । उपसर्गाद्बहुलमिति बहुलवचनान्नसोणत्वाभावः । यच्छतात् । दाण दाने । शपि पाघ्रेत्यादिना यच्छादेशः । अवृकम् । नास्ति वृकोऽस्मिन्निति बहुव्रीहौ न ञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । पृथु । प्रथ प्रख्याने । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (उ १-२९) इति कुप्रत्ययः संप्रसारणं च छर्दिरिति गृहनाम । उछृदिर् दीप्तिदेवनयोः अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः । (उ २ । १०९) इतीसि प्रत्ययः । लघूपधगुणः । प्रत्ययस्वरः ॥ १५ ॥

1.48.16
सं नो᳚ रा॒या बृ᳚ह॒ता वि॒श्वपे᳚शसा मिमि॒क्ष्वा समिळा᳚भि॒रा ।
सं द्यु॒म्नेन᳚ विश्व॒तुरो᳚षो महि॒ सं वाजै᳚र्वाजिनीवति ॥
▶ पदपाठः (Word-by-word)
सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्व॑पे᳚शसा । मि॒मि॒क्ष्व । सम् । इळा᳚भिः । आ ।
सम् । द्यु॒म्नेन᳚ । वि॒श्व॒॑तुरा᳚ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः᳚ । वा॒जि॒नी॒॑व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो नोऽस्मान्राया धनेन सं मिमिक्ष्व । संसिंच । संयोजयेत्यर्थः । कीदृशेन धनेन । बृहता प्रभूतेन विश्वपेशसा । पेत इति रूपनाम । बहुविधरूपयुक्तेन । तथेळाभिरा गोभिश्चास्मान्सं मिमिक्ष्व । इळेति गोनाम । इळा जगतीति तन्नामसु पाठात् । आकारः समुच्चये पदांते वर्तमानत्वात् । उक्तं च । एतस्मिन्नेवार्थे देवेभ्यश्च पितृभ्य एत्याकारः (नि १-४) इति । किंच हे महि महनीय उषोदेवते द्युम्नेन यशसा सं मिमिक्ष्व द्युम्नं द्योततेः यशो वान्नं वेति यास्कः (नि ५-५) कीदृशेन द्युम्नेन । विश्वतुरा सर्वेषां शत्रूणां हिंसकेन । तथा हे वाजनीवति अन्नसाधनभूतक्रियायुक्ते वाजैरन्नैरस्मान्सं मिमिक्ष्व । अन्नं वै वाजः । शत । ब्रा । ९-३-४-१ । इति श्रुत्यंतरात् ॥ राया । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । बृहता । बृहन्महतोरुपसंख्यानमिति विभक्तिरुदात्ता । विश्वपेशसा । विश्वानि पेशांसि यस्यासौ विश्वपेशाः । बहुव्रीहौ विश्वं संज्ञायामिति व्यत्ययेनासंज्ञायामपि पूर्वपदांतोदात्तत्वम् । यद्वा मरुद्वृधादिर्द्रष्टव्यः । मिमिक्ष्व । मिह सेचने । व्यत्ययेनात्मनेपदम् । लोट बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषौ । धत्वकत्वषत्वानि प्रत्ययस्वरस्य सतिशिष्टत्वात्स एव शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वात्तिङ्ङतिङ इति निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या इति वचनात् । विश्वतुरा । तूर्वतीति तूः तुर्वी हिंसार्थः । क्विप्चेति क्विप् । राल्लोप इति वलोपः । विश्वेषां तूर्विश्वतूः । समासस्येत्यंतोदात्तत्वम् । वाजनीवति । वाचोऽन्नमस्या अस्तीति वाजिनी क्रिया । तादृशी क्रिया यस्याः सा तथोक्ता ॥ ५ ॥ १६ ॥