श्रवणम्

1.48.2
अश्वा᳚वती॒र्गोम᳚तीर्विश्वसु॒विदो॒ भूरि᳚ च्यवन्त॒ वस्त᳚वे ।
उदी᳚रय॒ प्रति᳚ मा सू॒नृता᳚ उष॒श्चोद॒ राधो᳚ म॒घोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वतीः । गो॑म᳚तीः । वि॒श्व॒॑सु॒विदः᳚ । भूरि᳚ । च्य॒व॒न्त॒ । वस्त᳚वे ।
उत् । ई॒र॒य॒ । प्रति᳚ । मा॒ । सू॒नृताः᳚ । उ॒षः॒ । चोद᳚ । राधः᳚ । म॒घोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वावतीर्बह्वश्वोपेता गोमतीर्बहुभिर्गोभिर्युक्ता विश्वसुविदः कृत्स्नस्य धनस्य सुष्ठु लंभयित्र्य उषोदेवता वस्तवे प्रजानां निवासाय भूरि प्रभूतं यथा भवति तथा च्यवंत । प्राप्ताः । हे उषोदेवते मा प्रति मामुद्दिश्य सूनृताः प्रियहितवाच उदीरय । ब्रूहि । मघोनां धनवतां संबंधि राधो धनं चोद । अस्मदर्थं प्रेरय ॥ अश्वावतीः । मंत्रे सोमाश्चेंद्रियविश्वदेव्यस्य मतौ (पा ६-३-१३१) इति पूर्वपदस्य दीर्घत्वम् । वा छंदसीति पूर्वसवर्णदीर्घनिषेधस्य पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । चैवंत । च्युङ् गतौ । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । वस्तवे । वस निवासे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ईरय । ईर गतौ कंपने च । हेतुमति णिच् । चोद । चुद संचोदने चौरादिकः । लोट छंदस्यभयथेति शप आर्धधातुकत्वात् णेरनितीति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वान्निघाताभावः । मघोनाम् । षष्ठीबहुवचने श्वयुवमघोनामतद्धिते (पा ६-४-१३३) इति संप्रसारणं ॥ २ ॥