प्रथमं मण्डलम् - सूक्तम् 59

7 ऋचः

ऋषिः: नोधा गौतमः देवता: अग्निर्वैश्वानरः छन्दः: त्रिष्टुप्

सूक्तम् 1.59 - सम्पूर्णम्

1 / 7
ऋक्: 1.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
1.59.1
व॒या इद᳚ग्ने अ॒ग्नय᳚स्ते अ॒न्ये त्वे विश्वे᳚ अ॒मृता᳚ मादयन्ते ।
वैश्वा᳚नर॒ नाभि᳚रसि क्षिती॒नां स्थूणे᳚व॒ जना{4}᳚ उप॒मिद्य᳚यन्थ ॥
▶ पदपाठः (Word-by-word)
व॒याः । इत् । अ॒ग्ने॒ । अ॒ग्नयः᳚ । ते॒ । अ॒न्ये । त्वे इति᳚ । विश्वे᳚ । अ॒मृताः᳚ । मा॒द॒य॒न्ते॒ ।
वैश्वा᳚नर । नाभिः᳚ । अ॒सि॒ । क्षि॒ती॒नाम् । स्थूणा᳚॑इव । जना᳚न् । उ॒प॒॑मित् । य॒य॒न्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वया इदिति सप्तर्चं द्वितीयं सूक्तं नोधस आर्षं त्रैष्वुभम् । वैश्वानरगुणकोऽग्निर्देवता । तथा चानुक्रांतम् । वया इत्सप्त वैश्वानरीयमिति ॥ सूक्तविनियोगो लिंगादवगंतव्यः ॥

वयाः शाखा वेतेर्वातायना भवंतीति यास्कः (नि १-४) हे अग्ने येऽन्येऽग्नयः संति ते सर्वेऽपि ते तव वया इत् शाखा एव । ततस्त्वतोऽन्ये न संतीति भावः । किंच त्वे त्वयि सति विश्वे सर्वेऽमृता अमरणधर्माणो देवा मादयंते । हृष्यंति । न हि त्वद्व्यतिरेकेण तैर्जीवितुं शक्यते । हे वैश्वानर विश्वेणां नराणां जाठररूपेण संबंधिन्नग्ने क्षीतीनां मनुष्याणां नाभिः संनद्धासि । अवस्थापको भवसि । अतस्त्वमुपमिदुपस्थापयिता सन् । यद्वा । उपमिदित्येतद्दृष्टांतविशेषणम् । जनान्ययंथ । अधारयः । तत्र दृष्टांतः । उपमिदुपनिखाता । स्थूणेव । वंशधारणार्थं निखातः । स्तंभो यथा गृहोपरिस्थं वंशं धारयति तद्वत् ॥ वैश्वानर । विश्वे चेमे नरा विश्वानरः । तस्येदमित्यण् । नाभिः । नहो मश्च (उ ४-१२५) इतीञ्प्रत्ययो भकारश्चांतादेशः । ञित्त्वादाद्युदात्तत्वम् । आसि । तासस्त्योर्लोप इति सलोपः । क्षितीनाम् । क्षि निवासगत्योः । अस्मात् क्तिच् क्तौ च संज्ञायामिति क्तिच् । अंतोदात्तात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । उपमित् । डुमिञ् प्रक्षेपणे । आस्मादुपपूर्वाद्बहुलवचनात्कर्मणि क्विप् । तुगागमः । ययंथ । यम उपरमे । लिट थलि क्रादिनियमादिट प्राप्त उपदेशेऽत्वतः (पा ७-२-६२) इति प्रतिषेधः ॥ १ ॥

1.59.2 समानपद
मू॒र्धा दि॒वो नाभि᳚र॒ग्निः पृ᳚थि॒व्या अथा᳚भवदर॒ती रोद᳚स्योः ।
तं त्वा᳚ दे॒वासो᳚॑जनयन्त दे॒वं वैश्वा᳚नर॒ ज्योति॒रिदार्या᳚य ॥
▶ पदपाठः (Word-by-word)
मू॒र्धा । दि॒वः । नाभिः᳚ । अ॒ग्निः । पृ॒थि॒व्याः । अथ᳚ । अ॒भ॒व॒त् । अ॒र॒तिः । रोद᳚स्योः ।
तम् । त्वा॒ । दे॒वासः᳚ । अ॒ज॒न॒य॒न्त॒ । दे॒वम् । वैश्वा᳚नर । ज्योतिः᳚ । इत् । आर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

विषुवत्संज्ञेऽहन्नाग्निमारुते मूर्धा दिवो नाभिरग्निः पृथिव्या इति वैकल्पिकोऽनुरूपस्तृचः । विषुवान्दिवाकीर्त्य इति खंडे सूत्रितम् । मूर्धानं दिवो अरतिं पृथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा (आ ८-६) इति ॥

अयमग्निर्दिवो द्युलोकस्य मूर्धा शिरोवत्प्रधानभूतो भवति । पृथिव्या भूमेश्च नाभिः संनाहकः । रक्षक इत्यर्थः । अथानंतरं रोदस्योर्द्यावापृथिव्योरयमरतिरधिपतिरभवत् । हे वैश्वानर तं तादृशं देवं दानादिगुणयुक्तं त्वा त्वां देवासः सर्वे देवा आर्याय विदुषे मनवे यजमानाय वा ज्योतिरत् ज्योतीरूपमेवाजनयंत । उदपादयन् ॥ मूर्तमस्मिन्धीयत इति मूर्धा (नि ७-२७) श्वन्नुक्षन्नित्यादौ निपातनाद्रूपसिद्धिः । पृथिव्याः । पृथिवीशब्दः । षिद्गौरादिभ्यश्चेति ङीष्प्रत्ययांतोऽंतोदात्तः । आजनयंत । जनीजृष्क्नसुरंजोऽमंताश्च । धा १९-६३, ६७ । इति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वं ॥ २ ॥

1.59.3 समानपद
आ सूर्ये॒ न र॒श्मयो᳚ ध्रु॒वासो᳚ वैश्वान॒रे द᳚धिरे॒॑ग्ना वसू᳚नि ।
या पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु या मानु᳚षे॒ष्वसि॒ तस्य॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । सूर्ये᳚ । न । र॒श्मयः᳚ । ध्रु॒वासः᳚ । वै॒श्वा॒न॒रे । द॒धि॒रे॒ । अ॒ग्ना । वसू᳚नि ।
या । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु । या । मानु᳚षेषु । असि᳚ । तस्य᳚ । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्ना वैश्वानरेऽगौ वसूनि धनान्या दधिरे । आहितानि स्थापितानि बभूवुः । तत्र दृष्टांतः । ध्रुवासो निश्चला रश्मयः किरणाः सूर्ये न यथा सूर्य आधीयंते तद्वत् । अतस्त्वं पर्वतादिषु यानि धनानि विद्यंते तस्य धनजातस्य राजासि । अधिपतिर्भवति ॥ अग्ना । सुपां सुलुगिति विभक्तेर्डादेशः । या । शेश्छंदसि बहुलमिति शेर्लोपः । ओषधीषु । उष दाहे । ओषः पाकः । भावे घञ् । ञित्त्वादाद्युदात्तत्वम् । ओष आसु धीयत इत्योषधयः । कर्मण्यधिकरणे चेति किप्रत्ययः । दासीभारादिषु पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । सप्तमी बहुवचन ओषधेश्च विभक्तावप्रथमायाम् (पा ६-३-१३२) इति दीर्घः । अप्सु । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३ ॥

1.59.4
बृ॒ह॒ती इ᳚व सू॒नवे॒ रोद᳚सी॒ गिरो॒ होता᳚ मनु॒ष्यो॒३॒᳚ न दक्ष᳚ः ।
स्व᳚र्वते स॒त्यशु᳚ष्माय पू॒र्वीर्वै᳚श्वान॒राय॒ नृत᳚माय य॒ह्वीः ॥
▶ पदपाठः (Word-by-word)
बृ॒ह॒ती इ॒वेति᳚ बृह॒ती॑इ᳚व । सू॒नवे᳚ । रोद᳚सी॒ इति᳚ । गिरः᳚ । होता᳚ । म॒नु॒ष्यः᳚ । न । दक्षः᳚ ।
स्वः᳚॑वते । स॒त्य॑शु᳚ष्माय । पू॒र्वीः । वै॒श्वा॒न॒राय᳚ । नृ॑त᳚माय । य॒ह्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोदसी द्यावापृथिव्यौ सूनवे स्वपुत्राय वैश्वानराय बृहती इव प्रभूते इवाभूताम् । वैश्वानरस्य द्यावापृथिव्योः पुत्रत्वं मंत्रांतरे स्वष्टमवगम्यते । उभा पितरा महयन्न जायताग्निर्ध्यावापृथिवी भूरिरेतसेति । ऋग्वे ३-३-११ । इति । म हतो वैश्वानरस्यावस्थानाय द्यावापृथिव्यौ विस्तते जाते इत्यर्थः । किंचायं होता दक्षः समर्थः पूर्वीर्बहुविधा यह्वीर्महतीर्गिरः स्तुतीर्वैश्वानरायाग्नये प्रायुंक्तेति शेषः । कीदृशाय । स्वर्वते । शोभनगमनयुक्ताय । सत्यशुष्मायावितथबलाय । नृतमायातिशयेन सर्वेषां नेत्रे । तत्र दृष्टांतः । मनुष्यो न । यथा मनुष्यो लौकिको वंदी दातारं प्रभुं बहुविधया स्तुत्या स्तौति तद्वत् ॥ मनुष्यः । मनोर्जातावञ्यतौ षुक्चेति जातौ गम्यमानायां मनुशब्दाद्यत् षुगागमश्च । तित्स्वरित इति स्वरितत्वम् । यतोऽनाव इत्याद्युदात्तत्वं न भवति । तत्र हि द्व्यजित्यनुवर्तते । स्वर्वते । सुपूर्वादर्तेर्भावे विच् । ततो मतुप् । मादुपधाय इति वत्वं ॥ ४ ॥

1.59.5
दि॒वश्चि᳚त्ते बृह॒तो जा᳚तवेदो॒ वैश्वा᳚नर॒ प्र रि᳚रिचे महि॒त्वम् ।
राजा᳚ कृष्टी॒नाम᳚सि॒ मानु᳚षीणां यु॒धा दे॒वेभ्यो॒ वरि᳚वश्चकर्थ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । चि॒त् । ते॒ । बृ॒ह॒तः । जा॒त॒॑वे॒दः॒ । वैश्वा᳚नर । प्र । रि॒रि॒चे॒ । म॒हि॒॑त्वम् ।
राजा᳚ । कृ॒ष्टी॒नाम् । अ॒सि॒ । मानु᳚षीणाम् । यु॒धा । दे॒वेभ्यः᳚ । वरि᳚वः । च॒क॒र्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो जातानां वेदितर्वैश्वानराग्ने ते तव महित्वं महात्म्यं बृहतो महतो दिवश्चित् द्युलोकादपि प्ररिरिचे । प्रववृधे । किंच त्वं मानुषीणां मनोर्जातानां कृष्वीनां प्रजानां राजासि । अधिपतिर्भवसि । तथा वरिवोऽसु रैरपहृतं धनं युधा युद्धेन देवेभ्यश्ज कर्थ । देवाधीनमकार्षीः ॥ वैश्वानर पादादित्वादाष्टमिकनिघाताभावः । रिरिचे । रिचिर् विरेचने । अत्रोपसर्गवशात्तद्विपरीत आधिक्ये वर्तते । कृष्टीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । मानुषीणाम् । मानुषशब्दो मनोर्जातावित्य ञ् प्रत्ययांतः । जातिलक्षणे ङीषि प्राप्ते तदपवादतया शार्ङ्गरवाद्य ञ इति ङीन् । नित्त्वादाद्युदात्तत्वम् । ङ्याश्छंदसि बहुलम् (पा ६-१-१७८) इति बहुलवचनान्नाम उदात्तस्याभावः । युधा । युध संप्रहार इत्यस्मात्संपदादिलक्षणो भावे क्विप् । वरिव इति धननाम । नब्विषयस्येत्याद्युदात्त्वं ॥

1.59.6 समानपद
प्र नू म᳚हि॒त्वं वृ᳚ष॒भस्य᳚ वोचं॒ यं पू॒रवो᳚ वृत्र॒हणं॒ सच᳚न्ते ।
वै॒श्वा॒न॒रो दस्यु᳚म॒ग्निर्ज᳚घ॒न्वा{4} अधू᳚नो॒त्काष्ठा॒ अव॒ शम्ब᳚रं भेत् ॥
▶ पदपाठः (Word-by-word)
प्र । नु । म॒हि॒॑त्वम् । वृ॒ष॒भस्य᳚ । वो॒च॒म् । यम् । पू॒रवः᳚ । वृ॒त्र॒॑हन᳚म् । सच᳚न्ते ।
वै॒श्वा॒न॒रः । दस्यु᳚म् । अ॒ग्निः । ज॒घ॒न्वान् । अधू᳚नोत् । काष्ठाः᳚ । अव᳚ । शम्ब᳚रम् । भे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र वैश्वानरशब्देन मध्यमस्थानस्थो वैद्युतोऽग्नि रभिधीयते । पूरव इति मनुष्यनाम । पूरवो मनुष्या वृत्रहणमावरकस्य मेघस्य हंतारं यं वैश्वानरं संचते । वर्षार्थिनः सेवंते । तस्य वृषभस्यापां वर्षितुर्वैश्वानरस्य महित्वं माहात्म्यं नु क्षिप्रं प्र वोचम् । प्रब्रवीमि । किं तदित्यत आह । आयं वैश्वानरोऽग्निर्दस्युं रसानां कर्मणां वोपक्षयिकारं राक्षसादिकं जघन्वान् । हतवान् । तथा काष्ठा अपो वृष्ट्युदकान्यधूनोत् । अधोमुखान्यपातयत् । शंबरं तं निरोधकारिणं मेघमव भेत् । अवाभिनत् ॥ वोचम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । गुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । जघन्वान् । हंतेर्लिटः क्वसुः । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । विभाषा गमहनेति विकल्पनादिडभावः । भेत् । भिदिर् विदारणे । लङि बहुलं छंदसीति विकरणस्य लुक् । हल् ङ्याब्भ्य इति तकारस्य लोपः । पूर्ववदडभावः ॥ अत्र निरुक्तम् । प्र ब्रवीमि तन्महित्त्वं महाभाग्यं वृषभस्य वर्हितुरपां यं पूरवः । पूरयितव्या मनुष्या वृत्रहणं मेघहनं सचंते सेवंते वर्षकामा दस्युर्दस्यतेः क्षयार्थादुपदस्यंत्यस्मिन्रसा उपदासयति कर्माणि तमग्निर्वैश्वानरो घ्नन्नवाधूनोदपः काष्ठा अभिनच्छंबरं मेघम् (नि ७-२३) इति ॥ अत्रेदं चिंतनीयम् । कोऽसौ वैश्वानर इति । तत्र केचिदाहुः । मध्यमस्थानस्थो वायुरिंद्रो वा वैश्वानरः । तस्य हि वर्षकर्मणा संस्तव उपपद्यते । न त्वग्नेः पृथिवीस्थानत्वादिति । अन्ये त्वेवं मन्यंते । द्युस्थानः सूर्यो वैश्वानर इति । युक्तिं चाहुः । पातःसवनादीनि त्रीणि सवनानि लोकत्रयात्मकानि । तत्र तृतीयसवनं प्राप्तो यजमानः । स्वर्गं प्राप्त इति पृथिव्याः प्रच्युतो भवेत् । तत्प्रच्युतिपरिहारायाग्नि मारुतेऽंतिमे शस्त्रे होता स्वर्गाद्भूमिं प्रत्यवरोहति । कथमिति तदुच्यते । इतरशस्त्रवत् । स्तोत्रियतृचेन प्रारंभमुक्त्वा द्युस्थानसंबंधिना वैश्वानरीयेण सूक्तेन शस्त्रं प्रारभते । ततो मध्यम स्थानसंबंधिनं रुद्रं मरुतश्च प्रति तद्देवत्य सूक्तपाठेनावरोहति । तत्र पृथिवीस्थानमग्निम् । यद्यत्र वैश्वानरः । सूर्यो न स्यात् तदानीमवरोहो नोपपद्यते । तदेतन्मतद्वयमप्यनुपपन्नम् । आयमेवाग्निर्वैश्वानरः । कुतः । वैश्वानरशब्दनिर्वचनानुरोधात् । विश्वेषां नराणां लोकांतरं प्रति नेतृतया संबंधी वैश्वानरः । तथा चाम्नातम् । वैश्वानर पुत्रः पित्रे लोकृज्जातवेदो वहेमं सुकृतां यत्र लोका इति । यद्वा । विश्वे सर्वे नरा एनमग्निं यज्ञादौ प्रणयंतीति तत्संबंधाद्वैश्वानरः । यद्वा । विश्वान् सर्वान्प्राणिनः प्रत्यृतो गच्छत इति वैश्वानरौ मध्यमोत्तमौ । ऋगतावित्यस्मात्पचाद्यच् । लुगभावश्छांदसः । शाभ्यामुत्पन्नत्वादयमग्निर्वैश्वानरः । वैद्युतोऽग्निर्हि मध्यमसकाशाज्जायते । अशनिपतनानंतरमयमेव पार्थिवोऽग्निः । संपद्यते । आदित्यसकाशादपि घर्मकाले सूर्यकांतादिमणिष्वग्नेरुत्पत्तिः प्रसिद्धा । तस्मान्नामनिर्वचनानुरोधेनायमेवाग्नर्वैश्वानर इत्येतदुपपन्नम् । अस्यापि वर्ष कर्मणा स्तुतिः संभवति । अग्नौ प्राप्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु ३-७६ । इति स्मरणात् । प्रत्यवरोहेऽपि न कर्तव्यः । तृतीयसवनस्य भक्तस्वर्गत्वात् । एतत्सर्वं यास्केन वैश्वानरः कस्मादित्यादिना बहुधा प्रपंचितम् (नि ७-२१) अत्र यदनुक्तं तत्सर्वं तत्रैवानुसंधेयं ॥ ६ ॥

1.59.7 समानपद
वै॒श्वा॒न॒रो म᳚हि॒म्ना वि॒श्वकृ᳚ष्टिर्भ॒रद्वा᳚जेषु यज॒तो वि॒भावा᳚ ।
शा॒त॒व॒ने॒ये श॒तिनी᳚भिर॒ग्निः पु᳚रुणी॒थे ज᳚रते सू॒नृता᳚वान् ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रः । म॒हि॒म्ना । वि॒श्व॑कृ᳚ष्टिः । भ॒रत्॑वा᳚जेषु । य॒ज॒तः । वि॒भा॑वा᳚ ।
शा॒त॒॑व॒ने॒ये । श॒तिनी᳚भिः । अ॒ग्निः । पु॒रु॒॑नी॒थे । ज॒र॒ते॒ । सू॒नृता᳚॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैश्वानरोऽग्निर्महिम्ना महत्त्वेन विश्वकृष्टिः । कृष्टिरिति मनुष्यनाम । विश्वे सर्वे मनुष्या यस्य स्वभूताः स तथोक्तः । भरद्वाजेषु पुष्टिकरहविर्लक्षणान्नवत्सु यागेषु । यद्वा । एतत्संज्ञेष्वृषिषु यजतो यष्टव्यो विभावा विशेषण प्रकाशयिता सूनृतावान् । सूनृता प्रिया सत्या वाक् । तद्युक्तः । एवंभूतोऽग्निः शातवनेये । शतसंख्याकान् क्रतून्वनति संभजत इति शतवनिः । तस्य पुत्रः शातवनेयः । तस्मिन् पुरुणीथे बहूनां नेतर्येतत्संज्ञ के राजनि च शतिनीभिर्बहुभिः स्तुतिभिर्जरते । स्तूयते ॥ भरद्वाजेषु । भरंति पोषयंति भोक्तृनिति भरंतः । तादृशा वाजा येषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यजतः । भृमृदृशियजिपर्वपच्यमितमिनमिहर्येभ्योऽतच् (उ ३-११०) इति यजतेरतच् प्रत्ययः । विभावा । भा दीप्तौ । आतो मनिन्निति वनिप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । शातवनेये । इन् सर्व धातुभ्य इतीन् प्रत्ययः । शतवनिशब्दः । इतश्चानिञः (पा ४-१-१२२) इति ढक् । कित इत्यंतोदात्तत्वम् । शतिनीभिः । शतशब्दान्मत्वर्थीय इनिः । ऋन्नेभ्य इति ङीप् । पुरुणीथे । पूर्वपदात्संज्ञायामगः (पा ८-४-३) इति णत्वम् । जरते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः ॥ ७ ॥