प्रथमं मण्डलम् - सूक्तम् 178

5 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.178 - सम्पूर्णम्

1 / 5
ऋक्: 1.178.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.178.1
यद्ध॒ स्या त᳚ इन्द्र श्रु॒ष्टिरस्ति॒ यया᳚ ब॒भूथ᳚ जरि॒तृभ्य᳚ ऊ॒ती ।
मा न॒ः कामं᳚ म॒हय᳚न्त॒मा ध॒ग्विश्वा᳚ ते अश्यां॒ पर्याप᳚ आ॒योः ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒ । स्या । ते॒ । इ॒न्द्र॒ । श्रु॒ष्टिः । अस्ति᳚ । यया᳚ । ब॒भूथ᳚ । ज॒रि॒तृ॑भ्यः᳚ । ऊ॒ती ।
मा । नः॒ । काम᳚म् । म॒हय᳚न्तम् । आ । ध॒क् । विश्वा᳚ । ते॒ । अ॒श्या॒म् । परि᳚ । आपः᳚ । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यत् या स्या सा हप्रसिद्धाश्रुष्टिः सर्वत्रश्रूयमाणासमृद्धिस्तेतवास्ति यया जरितृभ्यः स्तोतृ- भ्यः ऊतीऊत्यैरक्षणायबभूथसमर्थोभवसि नोस्माकंमहयन्तं अस्मान्महतः कुर्वाणंकामं अभीष्टं मा- आधक् माधाक्षीः तेतवसंबन्धीनिविश्वासर्वाणिभोगजातानि आपः आप्तव्यानि यद्वा विश्वासर्वाआपः आप्ताश्रुष्टीः समृद्धीः आयोर्मनुष्यस्योचिताः पर्यश्यां परितोव्याप्नुयाम् ॥ १ ॥

1.178.2
न घा॒ राजेन्द्र॒ आ द᳚भन्नो॒ या नु स्वसा᳚रा कृ॒णव᳚न्त॒ योनौ᳚ ।
आप᳚श्चिदस्मै सु॒तुका᳚ अवेष॒न्गम᳚न्न॒ इन्द्र᳚ः स॒ख्या वय᳚श्च ॥
▶ पदपाठः (Word-by-word)
न । घ॒ । राजा᳚ । इन्द्रः᳚ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा᳚रा । कृ॒णव᳚न्त । योनौ᳚ ।
आपः᳚ । चि॒त् । अ॒स्मै॒ । सु॒॑तुकाः᳚ । अ॒वे॒ष॒न् । गम᳚त् । नः॒ । इन्द्रः᳚ । स॒ख्या । वयः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंराजा राजमानईश्वरोवा इन्द्रः नोस्मदीयानिकर्माणिनादभत् सर्वतोनहिंस्यात् घपूरणः का- नीतिउच्यते या यानिकर्माणि वृष्ट्यादिरूपाणि स्वसारा परस्परंस्वसृभूतेस्वयंसरणभूते अहो शत्रे नुपूरणः योनौस्वकीयेस्थानेकृणवन्त द्विवचनस्थानेबहुवचनं कुरुतः कृविहिंसाकरणयोश्च धिन्विकृ- ण्व्योरचेत्युप्रत्ययः बहुलग्रहणाच्छप् तानीन्द्रोप्यनुजानात्वित्यर्थः स्वसृभूतावध्वर्युयजमानौवा कुरु- तः यद्वा स्वसारोङ्गुलयोयोनौफलोत्पादनस्थानेयज्ञे यानिकृतवत्यस्तानीतियोन्यं किञ्च अस्माइन्द्रा- यसुतुकाः शोभनबलहेतून्यापः अप् कार्याणिहवींषि अवेषन् व्याप्नुवन्तिनोस्मभ्यमिन्द्रः सख्यासख्या- निवयश्चप्रभूतमन्नंचग्मत् गमयतु ॥ २ ॥

1.178.3
जेता॒ नृभि॒रिन्द्र᳚ः पृ॒त्सु शूर॒ः श्रोता॒ हवं॒ नाध᳚मानस्य का॒रोः ।
प्रभ᳚र्ता॒ रथं᳚ दा॒शुष᳚ उपा॒क उद्य᳚न्ता॒ गिरो॒ यदि᳚ च॒ त्मना॒ भूत् ॥
▶ पदपाठः (Word-by-word)
जेता᳚ । नृ॑भिः᳚ । इन्द्रः᳚ । पृ॒त्॑सु । शूरः᳚ । श्रोता᳚ । हव᳚म् । नाध᳚मानस्य । का॒रोः ।
प्र॑भ᳚र्ता । रथ᳚म् । दा॒शुषः᳚ । उ॒पा॒के । उत्॑य᳚न्ता । गिरः᳚ । यदि᳚ । च॒ । त्मना᳚ । भूत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः शूरोविक्रान्तःसन् नृभिः सङ्ग्रामनेतृभिर्मरुद्भिःसहितःसन् पृत्सुसङ्ग्रामेषुजेता जय- शीलः श्त्रूणां तथा नाधमानस्यत्वदनुग्रहंयाचमानस्यकारोः स्तोतुः हवमाह्वानंश्रोताभवति किञ्च यदिच यदाच त्मनाआत्मना अन्यप्रेरितः एवंगिरः स्तुतिरूपाणिवचांसिस्तोतॄन्वा उद्यन्ता उच्छ्रयि- ताभूत् भवेत् तदादाशुषोहविर्दत्तवतोयजमानस्य उपाके समीपनामैतत् समीपएवयागदेशेरथंप्रभर्ता सम्यक् प्रभरन् भवति जेतेत्यादिषुतृन्नन्तेषु नलोकाव्ययेत्यादिनाकर्मणिषष्ठीप्रतिषेधः यदा स्तुतिं- श्रोतुमिच्छति तदास्वयमेवशीघ्रंरथंधावयित्वायागंप्राप्नोतीत्यर्थः ॥ ३ ॥

1.178.4
ए॒वा नृभि॒रिन्द्र᳚ः सुश्रव॒स्या प्र᳚खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो᳚ भूत् ।
स॒म॒र्य इ॒षः स्त᳚वते॒ विवा᳚चि सत्राक॒रो यज᳚मानस्य॒ शंसः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । नृ॑भिः᳚ । इन्द्रः᳚ । सु॒॑श्र॒व॒स्या । प्र॒॑खा॒दः । पृ॒क्षः । अ॒भि । मि॒त्रिणः᳚ । भू॒त् ।
स॒॑म॒र्ये । इ॒षः । स्त॒व॒ते॒ । वि॑वा᳚चि । स॒त्रा॒॑क॒रः । यज᳚मानस्य । शंसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रोनृभिः कर्मनिर्वाहकैर्यजमानैर्दत्तपृक्षोहविर्लक्षणमन्नं सुश्रवस्याशोभनान्नेच्छयाअन्नेच्छु- र्वाप्रखादः प्रकर्षेणखादितएव एवमेवपूर्वंयथातथैवमित्रिणः सहायवतोपियजमानस्यशत्रूनभिभूत्- अभिभवति यद्वा नृभिर्वृष्टिनेतृभिर्मरुद्भिःसहितोयमिन्द्रःसुश्रवस्याप्रखादःसन्नेवमेवमित्रिणऋत्विग्रू- पमित्रवतोयजमानस्यार्थे तदभिमताय अभिभूत् अभीत्यनर्थकःभवति आभिमुख्येनवाभवति तस्य- हविःस्वीकृत्यतदभिमतायभवतीत्यर्थः अथ तथाभूतःसन् विवाचि विविधपरस्पराह्वानध्वनियुक्ते- समर्थेसंग्रामे विविधस्तोत्रशस्त्रध्वनियुक्तेसमर्थे मर्त्ययुक्तेयज्ञे वा तन्निमित्तंयजमानस्यशंसःशंसकःसन् सत्राकरःफलानांसत्यकार्ययमिन्द्रइषोहविर्लक्षणमन्नंस्तवते स्तौति ॥ ४ ॥

1.178.5
त्वया᳚ व॒यं म᳚घवन्निन्द्र॒ शत्रू᳚न॒भि ष्या᳚म मह॒तो मन्य᳚मानान् ।
त्वं त्रा॒ता त्वमु᳚ नो वृ॒धे भू᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । म॒घ॒॑व॒न् । इ॒न्द्र॒ । शत्रू᳚न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य᳚मानान् ।
त्वम् । त्रा॒ता । त्वम् । ऊं॒ इति᳚ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन्निन्द्र त्वयासहायेनवयं यजमानाः महतोमन्यमानान् अतिबलानवध्यान् मन्य- मानान् शत्रूनाभिष्याम अभिभवितारोभवेम हेइन्द्र त्वंत्रातात्वमेवास्माकंरक्षकःअतस्त्वमुत्वमेवनो- स्माकंवृधे धनादिवर्धनायभूर्भव विद्यामेत्यादिगतम् ॥ ५ ॥

पूर्वीरहमितिषळृचंपञ्चदशंसूक्तंत्रैष्टुभं उपान्त्याबृहती अत्रत्रयाणांद्वृचानांलोपामुद्रागस्त्यतच्छि- ष्यैर्दृष्टत्वात्तएवर्षयः सूक्तप्रतिपाद्योर्थोरतिर्देवता अत्रानुक्रमणिका—पूर्वीः षट् जायापत्योर्लोपामुद्रा- याअगस्त्यस्यचद्वृ चाभ्यांरत्यर्थंसंवादंश्रुत्वान्तेवासीब्रह्मचार्यंत्येबृहत्यादीअपश्यदिति विशेषविनि- योगोलैङ्गिकः ।