प्रथमं मण्डलम् - सूक्तम् 78

5 ऋचः

ऋषिः: गोतमो राहूगणः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 1.78 - सम्पूर्णम्

1 / 5
ऋक्: 1.78.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.78.1
अ॒भि त्वा॒ गोत᳚मा गि॒रा जात᳚वेदो॒ विच᳚र्षणे ।
द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । गोत᳚माः । गि॒रा । जात᳚॑वेदः । वि॑च᳚र्षणे ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभि त्वेति पंचर्चं पंचमं सूक्तं गोतमस्यार्षमाग्नेयं गायत्रम् । तथा चानुक्रांतम् । अभि त्वा गायत्रं त्विति ॥ विनियोगो लैंगिकः ॥

हे जातवेदो जातानां वेदितर्विचर्षणे विशेषेण सर्वस्य द्रष्टः एवंभूताग्ने त्वा त्वां गोतमा अस्य सूक्तस्य द्रष्टा गोतम ऋषिः । ऋषेरेकत्वेऽपि पूजार्थं बहुवचनम् । गिरा स्तोत्रलक्षणया वाचाभ्याभिमुख्येनास्तौदिति शेषः । तद्वद्वयमपि त्वां द्युम्नैस्त्वदीयगुणप्रकाशकैर्मंत्रैरभि प्रणोनुमः । अभिमुख्येन पुनःपुनः स्तुमः ॥ नोनुमः । णु स्तुतौ । अस्माद्यङ् लुगंताल्लट् । उपसर्गादसमासेऽपीति णत्वं ॥ १ ॥

1.78.2
तमु᳚ त्वा॒ गोत᳚मो गि॒रा रा॒यस्का᳚मो दुवस्यति ।
द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । गोत᳚मः । गि॒रा । रा॒यः॑का᳚मः । दु॒व॒स्य॒ति॒ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रायस्कामो धनकामो गोतमो यमग्निं गिरा स्तुत्या दुवस्यति परिचरति तमु तमेव त्वां द्युम्नैर्दोतमानैः स्तोत्रैराभिमुख्येन पुनःपुनः स्तुमः ॥ रायस्कामः । रायो धनानि कामयत इति रायस्कामः । कर्मण्यण् । तत्पुरुषे कृति । बहुलमिति बहुलवचनादलुक् । ऊडिदमित्यादिना पूर्वपदस्य विभक्तेरुदात्तत्वम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । अतः कृकमिकंसकुंभेति (पा ८-३-४६) विसर्जनीयस्य सत्वम् । द्युवस्यति । दुवस उपतापे परिचरणे च । कंड्वादिः ॥ २ ॥

1.78.3
तमु᳚ त्वा वाज॒सात᳚ममङ्गिर॒स्वद्ध᳚वामहे ।
द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । वा॒ज॒॑सात᳚मम् । अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वाजसातमं वाजानामन्नानामतिशयेन सनितारं दातारं तमेव त्वा त्वामंगिरस्वत् । अंगिरस इव हवामहे । आह्वयामः । शिष्टं गतं ॥ वाजसातमम् । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । अतिशयेन वाजसा वाजसातमः । तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वर एव शिष्यते । अंगिरस्वत् । तेन शुल्यमिति वतः । नभोऽंगिरोमनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः ॥ ३ ॥

1.78.4
तमु᳚ त्वा वृत्र॒हन्त᳚मं॒ यो दस्यू{4}᳚रवधूनु॒षे ।
द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । वृ॒त्र॒हन्॑त᳚मम् । यः । दस्यू᳚न् । अ॒व॒॑धू॒नु॒षे ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने दस्यून् उपक्षपयितृन् राक्षसादीन्यस्त्वमवधूनुषे अवचालयसि स्थानत्प्रच्यावयसि वृत्रहंतमं वृत्राणां पाप्मानामतिशयेन हंतारं तमु त्वा तमेव त्वां द्युम्नैरित्यादि पूर्ववत् ॥ वृत्रहंतमम् । अतिशयेन वृत्रहा वृत्रहंतमः । पदसंज्ञायां नलोपे नाद्घस्य (पा ८-२-१७) इति तमपो नुट् । दस्यून् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेत्यूकारः सानुनासिकः ॥ ४ ॥

1.78.5
अवो᳚चाम॒ रहू᳚गणा अ॒ग्नये॒ मधु᳚म॒द्वचः᳚ ।
द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥
▶ पदपाठः (Word-by-word)
अवो᳚चाम । रहू᳚गणाः । अ॒ग्नये᳚ । मधु᳚॑मत् । वचः᳚ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः कृतं स्तोत्रमनयोपसंहरति । रहूगणा रहूगणस्य पुत्रा वयं गोतमा अग्नये अंगनादिगुणयुक्ताय देवाय मधुमद्वचो माधुर्योपेतं वचनमवोचाम प्रावादिष्म । तद्वचनरूपैर्द्युम्नैर्द्योतमानैः स्तोत्रैः पुनःपुनरग्निं वयमभि प्र णोनुमः । अभिमुख्येन प्रकर्षेण स्तुमः ॥ ५ ॥