श्रवणम्

1.78.1
अ॒भि त्वा॒ गोत᳚मा गि॒रा जात᳚वेदो॒ विच᳚र्षणे ।
द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । गोत᳚माः । गि॒रा । जात᳚॑वेदः । वि॑च᳚र्षणे ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभि त्वेति पंचर्चं पंचमं सूक्तं गोतमस्यार्षमाग्नेयं गायत्रम् । तथा चानुक्रांतम् । अभि त्वा गायत्रं त्विति ॥ विनियोगो लैंगिकः ॥

हे जातवेदो जातानां वेदितर्विचर्षणे विशेषेण सर्वस्य द्रष्टः एवंभूताग्ने त्वा त्वां गोतमा अस्य सूक्तस्य द्रष्टा गोतम ऋषिः । ऋषेरेकत्वेऽपि पूजार्थं बहुवचनम् । गिरा स्तोत्रलक्षणया वाचाभ्याभिमुख्येनास्तौदिति शेषः । तद्वद्वयमपि त्वां द्युम्नैस्त्वदीयगुणप्रकाशकैर्मंत्रैरभि प्रणोनुमः । अभिमुख्येन पुनःपुनः स्तुमः ॥ नोनुमः । णु स्तुतौ । अस्माद्यङ् लुगंताल्लट् । उपसर्गादसमासेऽपीति णत्वं ॥ १ ॥