प्रथमं मण्डलम् - सूक्तम् 60

5 ऋचः

ऋषिः: नोधा गौतमः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.60 - सम्पूर्णम्

1 / 5
ऋक्: 1.60.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.60.1 समानपद
वह्निं᳚ य॒शसं᳚ वि॒दथ᳚स्य के॒तुं सु᳚प्रा॒व्यं᳚ दू॒तं स॒द्योअ᳚र्थम् ।
द्वि॒जन्मा᳚नं र॒यिमि᳚व प्रश॒स्तं रा॒तिं भ᳚र॒द्भृग᳚वे मात॒रिश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
वह्नि᳚म् । य॒शस᳚म् । वि॒दथ᳚स्य । के॒तुम् । सु॒प्र॒॑अ॒व्य᳚म् । दू॒तम् । स॒द्यः॑अ᳚र्थम् ।
द्वि॒॑जन्मा᳚नम् । र॒यिम्॑इ᳚व । प्र॒॑श॒स्तम् । रा॒तिम् । भ॒र॒त् । भृग᳚वे । मा॒त॒रिश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वह्निमिति पंचर्चं तृतीयं सूक्तं नोधस आर्षं त्रैष्थुभमाग्नेयम् । अनुक्रांतं च । वह्निं पंचेति ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदसीदं सूक्तमाश्विने शस्त्रे च । तथा च सूत्रितम् । वह्निं यशसमुप प्रजिन्वन्निति त्रीणि (आ ४-१३) इति ॥

वह्निं हविषां वोढारं यशसं यशस्विनं विदथस्य केतुं यज्ञस्य प्रकाशयितारं सुप्राव्यं सुष्ठु प्रकर्षेण रक्षितारं दूतं देवैर्हविर्वहनलक्षणे दूत्ये नियुक्तम् । सद्यो अर्थम् । यदा हवींषि जुह्वति सद्यस्तदानीमेव हविर्भिः सह देवान्गंतारम् । यद्वा । सद्योऽर्थमरणं गमनं यस्य तम् । द्विजन्मातम् । द्वयोर्द्यावापृथिव्योररण्योर्वा जायमानं रयिमिव धनमिव प्रशस्तं प्रख्यातम् । एवं भूतमग्निं मातरिश्वा वायुर्भृगव एतत्संज्ञकाय महर्षये रातिं भरत् । मित्रमहरत् । आकरोदित्यर्थः । रातिना संभाष्येत्यत्र । आप । गृ १२-१४ । रातिर्मित्रमिति कपर्दिनोक्तम् । रातिः पुत्र इत्येके । एतदर्थप्रतिपादकं मंत्रांतरं च भवति । रातिं भृगूणामुशिजं कविक्रतुम् । ऋग्वे ३-२४ । इति ॥ वह्निम् । वहिश्रियुश्रुग्लाहात्वरिभ्यो निदिति वहतेर्निप्रत्ययः । निद्वद्भावादाद्युदात्तत्वम् । यशसम् । यशस् । शब्दादुत्तरस्य विनो लुक् । व्यत्ययेनांतोदात्तत्वम् । यद्वा । अर्शआदित्वादच् । स्वरः पूर्ववत् । सुप्राव्यम् । सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः । सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः । उपसर्गद्वयोपसृष्टादवतेरवितृस्तृतंत्रिभ्य ईः (उ ३-१५८) इतीकारप्रत्ययः । वा छंदसीत्यमि पूर्व इत्यस्य विकल्पे सति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । सद्योअर्थम् । उषिकुषिगार्तिभ्यस्थन्नित्यर्तेः कर्तरि थन् प्रत्ययः । सद्य एवार्थो गंता सद्यो अर्थः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यदि त्वव्यये ञञ्कुनिपातनामिति वक्तव्यम् । पा ६-२-२-३ । इत्यव्ययग्रहणेन त्रितयं गृह्येत तर्हि बहुव्रीहिस्वरो भविष्यति । मातरिश्वा । सर्वनिर्माणाहेतुत्वान्मातांतरिक्षम् । श्वसितिरत्र गतिकर्मा । मातर्यंतरिक्षे श्वसिति गच्छतीति माशरिश्वा । श्वन्नुक्षन्नित्यादौ निपातनाद्रूपसिद्धिः । यद्वा । मातर्यंतरिक्षे श्वाश्वसति गच्छतीति मातरिश्वा । अस गतिदीप्त्यादानेष्वित्यस्मादौणादिको ड्वन्प्रश्ययः । एतच्च यास्केनोक्तं ॥ नि ७-२६ ॥ १ ॥

1.60.2
अ॒स्य शासु᳚रु॒भया᳚सः सचन्ते ह॒विष्म᳚न्त उ॒शिजो॒ ये च॒ मर्ता᳚ः ।
दि॒वश्चि॒त्पूर्वो॒ न्य᳚सादि॒ होता॒पृच्छ्यो᳚ वि॒श्पति᳚र्वि॒क्षु वे॒धाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । शासुः᳚ । उ॒भया᳚सः । स॒च॒न्ते॒ । ह॒विष्म᳚न्तः । उ॒शिजः᳚ । ये । च॒ । मर्ताः᳚ ।
दि॒वः । चि॒त् । पूर्वः᳚ । नि । अ॒सा॒दि॒ । होता᳚ । आ॒॑पृच्छ्यः᳚ । वि॒श्पतिः᳚ । वि॒क्षु । वे॒धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शासुः शासितुरस्याग्नेरुभयास उभयेऽपि देवा मनुष्याश्च । यद्वा । स्तुतिभिः स्तोतारो यज्ञैर्यजमानाश्चेममग्निं शासितारं सचंते । सेवंते । उशिजः कामयमाना देवा हविष्मंतो हविषा युक्ता ये च मर्ता मरणधर्माणो यजमानाः । यद्वा । उशिज इति मेधाविनाम । उशिजो मेधाविनः स्तोतारो हविष्मंतो हविर्युक्ता मर्ता यजमानाः । किंचायं होता होमनिष्पादकोऽग्निर्दिवश्चित् आदित्यादपि पूर्व उषःसु वर्तमानो भूत्वाग्निहोत्रहोमार्थं विक्षु यजमानेषु न्यसादि । अध्वर्युणाग्न्यायतने न्यधायि । स्थाप्यते । कीदृशो होता । आपृच्छ्य आ प्रष्टव्यः । पूज्य इत्यर्थः । विश्पतिर्विशां प्रजानां पालयिता वेधाः । विधाताभिमतफलस्य कर्ता ॥ शासुः शासु अनुशिष्टौतृन्तृचौ शंसिशसिशासिक्षदादिभ्यः संज्ञायां चानिटौ (उ २-९४) इति तृन् । इडागमाभावश्च । षष्ठ्येकवचने तकारलोपश्छांदसः । नित्त्वादाद्युदात्तत्वम् । उशिजः । वशः कित् (उ २-७१) इति वष्टेरिजिप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । मर्ताः । मृङ् प्राणत्यागे । असिहसिमृग्रिण्वामीत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । आपृच्छ्यः । प्रच्छ ङीप्सायाम् । आङ् पूर्वादस्माच्छंदसि निष्वर्क्येत्यादौ (पा ३-१-१२३) क्यप् प्रत्ययो निपातितः । ग्रहिज्यादिना संप्रसारणम् । क्यपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । विश्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते परादश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ २ ॥

1.60.3
तं नव्य᳚सी हृ॒द आ जाय᳚मानम॒स्मत्सु᳚की॒र्तिर्मधु᳚जिह्वमश्याः ।
यमृ॒त्विजो᳚ वृ॒जने॒ मानु᳚षास॒ः प्रय᳚स्वन्त आ॒यवो॒ जीज᳚नन्त ॥
▶ पदपाठः (Word-by-word)
तम् । नव्य᳚सी । हृ॒दः । आ । जाय᳚मानम् । अ॒स्मत् । सु॒॑की॒र्तिः । मधु᳚॑जिह्वम् । अ॒श्याः॒ ।
यम् । ऋ॒त्विजः᳚ । वृ॒जने᳚ । मानु᳚षासः । प्रय᳚स्वन्तः । आ॒यवः᳚ । जीज᳚नन्त ॥
▶ सायणभाष्यम् (Sayana Commentary)

नव्यसी नवतरा सुकीर्तिः सुष्ठु कीर्तयित्र्यस्मत् अस्माकं स्तुतिर्हृदो ह्यद्यवस्थितात्प्राणाज्जायमानमुत्पद्यमानम् । अग्निर्हि वायोरुत्पद्यते वायुश्च प्राण एव । यः प्राणः स वायुरित्याम्नानात् । मधुजिह्वं मादयितृज्वालम् । एवंभूतं शमग्निमाश्याः । आभिमुख्येन व्याप्नोतु । वृजने संग्रामे प्राप्ते सत्यायवो मनुष्या यमग्निं जीजनंत यज्ञार्थमुदपादयन् । कीदृशा मनुष्याः । ऋत्विजः ऋतौ काले यष्टारो मानुषासो मनोः पुत्राः प्रयस्वंतो हर्विलक्षणान्नोपेताः ॥ नव्यसी । नवीयसीत्यत्रेकारलोपश्छांदसः । हृदः । अत्र हृदयशब्देन तत्स्थः प्राणो लक्ष्यते । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । जायमानम् । जनीप्रादुर्भावे । श्यनि ज्ञाजनोर्जेति जादेशः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । अस्मत् । सुपां सुलुगिति विभक्तेर्लुक् । आश्याः । अशू व्याप्तौ । लिङि बहुलं छंदसीति विकरणस्य लुक् । व्यत्ययेन परस्मैपदमध्यमौ । जीजनंत । जनी प्रादुर्भावे । ण्यंताल्लुङि च्लेश्चङादेशः । द्विर्भावहलादिशेषः । सन्वद्भावेत्वदीर्घाः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे चङ एव स्वरे प्राप्ते व्यत्ययेनाभ्यस्ताद्युदात्तत्वं ॥ ३ ॥

1.60.4 समानपद
उ॒शिक्पा᳚व॒को वसु॒र्मानु᳚षेषु॒ वरे᳚ण्यो॒ होता᳚धायि वि॒क्षु ।
दमू᳚ना गृ॒हप᳚ति॒र्दम॒ आ{4} अ॒ग्निर्भु᳚वद्रयि॒पती᳚ रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
उ॒शिक् । पा॒व॒कः । वसुः᳚ । मानु᳚षेषु । वरे᳚ण्यः । होता᳚ । अ॒धा॒यि॒ । वि॒क्षु ।
दमू᳚नाः । गृ॒ह॑प᳚तिः । दमे᳚ । आ । अ॒ग्निः । भु॒व॒त् । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिक् कामयमानः पावकः शोधको वसुर्निवासयिता वरेण्यो वरणशीलः एवंभूतो होताग्निर्विक्षु यज्ञगृहं प्रविष्टेषु मानुषेषु यजमानेष्वधायि । स्थाप्यते । स चाग्निर्दमूना रक्षसां दमनकरेण मनसा युक्तो गृहपतिर्गृहाणां पालयिता च सन्दमे यज्ञगृहे रयिपतिर्धनाधिपतिरा भुवत् । आ समंताद्भवति । न केवलमेकस्य रयेरपि तु सर्वेषामित्याह रयिणामिति । यद्वा । रयिणां मध्य उत्कृष्वं यद्धनं तस्य पतिरित्यर्थः ॥ अधायि । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लुङि च्लेश्चिणादेशः आतो युक् चिण्कृतोरिति युगागमः । दमयति राक्षसादिकमिति दमूनाः । दम उपशमे । दमेरूनसिः (उ ४-२३४) इत्यौणादिक ऊनसिप्रत्ययः । यास्कस्त्वाह । दमूना दममना वा दानमना वा दांतमना वापि वा दम इति गृहनाम तन्मनाः स्यात् (नि ४-४) इति दम आ आग्निः आङोऽनुनासिकश्छंदसीत्याकारस्य सानुनासिकत्वम् । प्रकृतिभावश्च । भुवत् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । रयिपतिः । परादिश्छंदसि बहुलमित्यत्तरपदाद्युदात्तत्तम् । रयीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वं ॥ ४ ॥

1.60.5
तं त्वा᳚ व॒यं पति᳚मग्ने रयी॒णां प्र शं᳚सामो म॒तिभि॒र्गोत᳚मासः ।
आ॒शुं न वा᳚जम्भ॒रं म॒र्जय᳚न्तः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । व॒यम् । पति᳚म् । अ॒ग्ने॒ । र॒यी॒णाम् । प्र । शं॒सा॒मः॒ । म॒ति॑भिः᳚ । गोत᳚मासः ।
आ॒शुम् । न । वा॒ज॒म्॑भ॒रम् । म॒र्जय᳚न्तः । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोतमासो गोतमगोत्रोत्पन्ना वयम् । नोधसः स्तोतुरेकत्वेऽप्यात्मनि पूजार्थं बहुवचनम् । हे अग्ने रयिणां धनानां पतिं रक्षितारं तादृशं त्वा त्वां मतिभिर्मननीयैः स्तोत्रैः प्रशंसामः । प्रकर्षेण स्तुमः । किं कुर्वंतः । वाजंभरं वाजस्य हविर्लक्षणान्नस्य भर्तारं त्वां मर्जयंतो मार्जयंतः । तत्र दृष्टांतः । आशुं न आश्वमिव । यथाश्वमारोहंतः पुरुषास्तस्य वहनप्रदेशं हस्तैर्निमृजंति । तद्वद्वयमप्यग्नेर्हविर्वहनप्रदेशं निमृजंत इत्यर्थः । तथा चाग्निसंमार्जनप्रकरणे वाजसनेयिभिराम्नातम् । अथ मध्ये तूष्णीमेव त्रिः संमार्ष्वि यथा युक्त्वा प्रेहि वहेति व्रजेदेवमेतदग्निं युक्त्वोपक्षिपति प्रेहि देवेभ्यो हव्यं वहेति । धियावसुः । कर्मणा बुद्ध्या वा प्राप्तधनः सोऽग्निः प्रातः श्वोभूतस्याह्नः प्रातःकाले मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ मतिभिः मन ज्ञान इत्यस्मात्कर्मणि क्तिन् । मंत्रे वृषेषेत्यादिना तस्योदात्तत्वम् । वाजंभरम् । अग्नेरेषा वैदिकी संज्ञा । संज्ञायां भृतृवृजीति (पा ३-२-४६) वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः । आरुर्द्विषदजं तस्य मुम् (पा ६-३-६७) इति मुमागमः । चित इत्यंतोदात्तत्वम् । मर्जयंत । संज्ञा पूर्वकस्य विधेरनित्यत्वात् मृजेर्वृद्धिः (पा ७-२-११४) इति वृद्ध्यभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । जगम्यात् । लिङ् बहुलं छंदसीति शपः श्लुः ॥ ५ ॥