श्रवणम्

1.60.3
तं नव्य᳚सी हृ॒द आ जाय᳚मानम॒स्मत्सु᳚की॒र्तिर्मधु᳚जिह्वमश्याः ।
यमृ॒त्विजो᳚ वृ॒जने॒ मानु᳚षास॒ः प्रय᳚स्वन्त आ॒यवो॒ जीज᳚नन्त ॥
▶ पदपाठः (Word-by-word)
तम् । नव्य᳚सी । हृ॒दः । आ । जाय᳚मानम् । अ॒स्मत् । सु॒॑की॒र्तिः । मधु᳚॑जिह्वम् । अ॒श्याः॒ ।
यम् । ऋ॒त्विजः᳚ । वृ॒जने᳚ । मानु᳚षासः । प्रय᳚स्वन्तः । आ॒यवः᳚ । जीज᳚नन्त ॥
▶ सायणभाष्यम् (Sayana Commentary)

नव्यसी नवतरा सुकीर्तिः सुष्ठु कीर्तयित्र्यस्मत् अस्माकं स्तुतिर्हृदो ह्यद्यवस्थितात्प्राणाज्जायमानमुत्पद्यमानम् । अग्निर्हि वायोरुत्पद्यते वायुश्च प्राण एव । यः प्राणः स वायुरित्याम्नानात् । मधुजिह्वं मादयितृज्वालम् । एवंभूतं शमग्निमाश्याः । आभिमुख्येन व्याप्नोतु । वृजने संग्रामे प्राप्ते सत्यायवो मनुष्या यमग्निं जीजनंत यज्ञार्थमुदपादयन् । कीदृशा मनुष्याः । ऋत्विजः ऋतौ काले यष्टारो मानुषासो मनोः पुत्राः प्रयस्वंतो हर्विलक्षणान्नोपेताः ॥ नव्यसी । नवीयसीत्यत्रेकारलोपश्छांदसः । हृदः । अत्र हृदयशब्देन तत्स्थः प्राणो लक्ष्यते । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । जायमानम् । जनीप्रादुर्भावे । श्यनि ज्ञाजनोर्जेति जादेशः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । अस्मत् । सुपां सुलुगिति विभक्तेर्लुक् । आश्याः । अशू व्याप्तौ । लिङि बहुलं छंदसीति विकरणस्य लुक् । व्यत्ययेन परस्मैपदमध्यमौ । जीजनंत । जनी प्रादुर्भावे । ण्यंताल्लुङि च्लेश्चङादेशः । द्विर्भावहलादिशेषः । सन्वद्भावेत्वदीर्घाः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे चङ एव स्वरे प्राप्ते व्यत्ययेनाभ्यस्ताद्युदात्तत्वं ॥ ३ ॥