श्रवणम्

1.60.4 समानपद
उ॒शिक्पा᳚व॒को वसु॒र्मानु᳚षेषु॒ वरे᳚ण्यो॒ होता᳚धायि वि॒क्षु ।
दमू᳚ना गृ॒हप᳚ति॒र्दम॒ आ{4} अ॒ग्निर्भु᳚वद्रयि॒पती᳚ रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
उ॒शिक् । पा॒व॒कः । वसुः᳚ । मानु᳚षेषु । वरे᳚ण्यः । होता᳚ । अ॒धा॒यि॒ । वि॒क्षु ।
दमू᳚नाः । गृ॒ह॑प᳚तिः । दमे᳚ । आ । अ॒ग्निः । भु॒व॒त् । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिक् कामयमानः पावकः शोधको वसुर्निवासयिता वरेण्यो वरणशीलः एवंभूतो होताग्निर्विक्षु यज्ञगृहं प्रविष्टेषु मानुषेषु यजमानेष्वधायि । स्थाप्यते । स चाग्निर्दमूना रक्षसां दमनकरेण मनसा युक्तो गृहपतिर्गृहाणां पालयिता च सन्दमे यज्ञगृहे रयिपतिर्धनाधिपतिरा भुवत् । आ समंताद्भवति । न केवलमेकस्य रयेरपि तु सर्वेषामित्याह रयिणामिति । यद्वा । रयिणां मध्य उत्कृष्वं यद्धनं तस्य पतिरित्यर्थः ॥ अधायि । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लुङि च्लेश्चिणादेशः आतो युक् चिण्कृतोरिति युगागमः । दमयति राक्षसादिकमिति दमूनाः । दम उपशमे । दमेरूनसिः (उ ४-२३४) इत्यौणादिक ऊनसिप्रत्ययः । यास्कस्त्वाह । दमूना दममना वा दानमना वा दांतमना वापि वा दम इति गृहनाम तन्मनाः स्यात् (नि ४-४) इति दम आ आग्निः आङोऽनुनासिकश्छंदसीत्याकारस्य सानुनासिकत्वम् । प्रकृतिभावश्च । भुवत् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । रयिपतिः । परादिश्छंदसि बहुलमित्यत्तरपदाद्युदात्तत्तम् । रयीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वं ॥ ४ ॥